४३ स्नातकदाहप्रयोगः

स्नातकदहनप्रयोगः ॥ स्नातकस्य मरणे आदौ अवकीर्णदोषनिवृत्त्यर्थं प्राजापत्यकृच्छ्रत्रयं चरित्वा,

देशकालौ स्मृत्वा अमुकस्य स्नातकस्योर्ध्वदोहिकाधिकारार्थमर्कविवाहं करिष्ये,

इति सङ्कल्प्य । हिरण्येन नान्दीसमाराधनं कृत्वा, ब्रह्मचारिदाहोक्तप्रकारेणाऽर्कविवाहं कृत्वा विवाहहोमान्तेऽर्कशाखां स्नातकञ्च तुषाग्निना विधिवद्दहेत् ।।