४२ प्रयोगः

अथ प्रयोगः॥ आचम्य प्राणानायम्य पूर्वसंसृष्टमौपासनाग्निमुपसमाधाय, देशकालौ सङ्कीर्त्य

पूर्वसंसृष्टवाग्निविभागार्थं अग्निविमोकहोमं करिष्ये

इति सङ्कल्प्यान्वाधायाज्यसंस्कारान्तं कृत्वा स्रुक्स्रुचौ निष्टप्याऽग्निंं परिषिच्यालङ्कृत्य व्याहृतीर्तुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्यारब्धयोर्यजमानो जुहोति –

इम ँस्तनमूर्जस्वन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रिय ँ सदनमा विशस्व स्वाहा

(अग्नय इदं॰) ॥ ततो महाव्याहृतीर्व्याहृतीर्मिन्दाहुती च हुत्वा होमशेषं समाप्य ।। मृताया भार्याया संस्कारार्थं दक्षिणार्धमग्निं पृथक्कुर्यात् ॥ अवशिष्टेनाग्निना यावज्जीवमौपासनादि सर्वं कार्यम् ॥ | विभक्तस्य पुनः संयोगो न भवति। ‘विभक्तं न हि संसृजेत्’ इत्युक्तत्वात् ।।