(बो. पि. शे. सू. १.४) ‘ब्रह्म वै चतुहोतारः’ इति ब्रह्मचारिणं होतृकल्पेनैव ॥ (बो. पि. सू. ३. ३.८-१० ) अथ दश होतारमेवाग्रे नासिकयोर्द्विर्जपेत् ॥ ‘आसीत्’ इति सर्वेषु होतृपदेष्वनुषजत्यन्यत्र षड्ढोतृपदेभ्यः। ‘आस्ताम्’ इति द्वित्ववाचिषु ॥ चतुर्होतारं मुखे । अक्षिकटकयोर्द्विः पञ्चहोतारम् । कर्णयोर्दिष्षढ्ढोतारम् । ‘कीकसासु द्विस्सप्तहोतारमिति’ ॥ (चो. पि. सू. ३.४.१२-१३) अथ सम्भारैश्च पत्नीभिश्चोपोषेत् ॥ ग्रहैः, ऋतुमुखीयेन ‘ब्राह्मण एकहोता’ इति चोपस्थानम् ॥
प्रयोगः
अथ प्रयोगः ॥
प्रेतं॰ गोत्रं॰ शर्माणं होतृकल्पविधिना पितृमेधविधिना सह संस्करिष्ये
इति सङ्कल्पः ॥ पितृमेध विधावास्ये दधिमधुघृततिलतण्डुलनिवपनान्ते -
चित्तिः स्रगासीत् ॥ चित्तमाज्यमासीत् ॥ वाग्वेदिरासीत्
इत्यादि “सामाध्वर्युरासीत्” इत्यन्तं दक्षिणवामनासिकयोर्द्विर्जपेत् ॥ एवमेव
पृथिवी होताऽऽसीत् ॥ द्यौरध्वर्युरासीत् ॥ रुद्रोऽग्निरासीत् ॥ बृहस्पतिरुपवक्तासीत्
इति मुखे ।।
अग्निर्होताऽऽसीत् ॥ अश्विनाऽध्वर्यू आस्ताम् ॥ त्वष्टाऽग्नीदासीत् ॥ मन उपवक्ताऽऽसीत्
इति वामदक्षिणनेत्रयोर्द्विः ॥
सूर्यन्ते चक्षुः ॥ वातं प्राणः ॥ द्यां पृष्ठम् ॥ अन्तरिक्षमात्मा ॥ अङ्गैर्यज्ञम् ॥ पृथिवी ँशरीरैः
इति दक्षिणवामकर्णयोर्द्विः ॥ “महाहविर्होताऽऽसीत् ॥ सत्यहविरध्वर्युरासीत्” इत्यादि “अयास्य उद्गाताऽऽसीत्" इत्यन्तं कीकसासु (दन्तपङ्क्तौ) द्विर्जपेत् ॥ “मैनमग्ने॰, अग्निर्यजुर्भिः॰ सेनेन्द्रस्य॰" इत्यनुवाकाभ्याञ्चाऽऽग्न्युपोषणम् ॥
वाचस्पते विधनामन्॰ । नृम्णं धात्स्वाहा, वाचस्पते वाचो वीर्येण॰ इन्द्रियाय स्वाहा, सोमः सोमस्य पुरोगाः॰ हवनश्रुतः स्वाहा, वाचस्पते च्छिद्रया॰ मेरय स्वाहा, वाचस्पते हृद्विघेनामन्॰ पृथिव्यै स्वाहा, वाग्घोता॰ स्वयंभुवे स्वाहा, ब्राह्मण एकहोता॰
इत्यनुवाकेन चोपस्थानम् ॥ इति विशेषः ।। अन्यत्सर्वमविकृतं पैतृमेधिकं कर्म कुर्यात् ॥ समावृत्तानामप्येवमेव ॥ ॥