(बो. पि. सू. २.२ ) अथ वै भवति प्रजापतिः प्रजास्सृष्ट्वा वृत्तोऽशयत्तं देवा भूतानां रसं तेजस्सम्भृत्य तेनैनमभिषज्यन्निति ।
तत्पृच्छन्ति कतमद्ब्राह्मणानां तेजो रसो येनैनमभिषज्यन्निति
‘चतुर्होतार’ इत्येव ब्रूयात् ।। तस्य सग्रहैर्होतृभिर्होमो, भर्तृसूक्तेन भरणं, पत्नीभिरुपसंवेशनं, दक्षिणाप्रतिग्रहैर्निर्मार्गो, हृदयैर्हिरण्यशकलान्, सम्भारैः पात्रचयः, ज्योतिष्मतीभिरुपोषणं, नारायणाभ्यां ‘ब्राह्मण एकहोता’ इति चोपस्थानं, ‘प्रयासाय स्वाहा’ इत्याज्याहुतीः, ‘चित्तं सन्तानेन’ इति हविराहुतीः, मृत्युसूक्तेनानुशंसनं,
सौम्यया सङ्गाहनमीयुष्ट्याऽवगाहनं सौर्येणादित्यस्योपस्थानमिति
तानेतान्परं ब्रह्मेत्याचक्षते ॥ तान्न साधारणे श्मशाने प्रयुञ्जीत नाऽनाचार्याय नाऽश्रोत्रियाय नाऽगुरवे ॥
प्रयोगः
अथ प्रयोगः ॥ ब्रह्मविदां तपोनिष्ठानां पितुराचार्यस्य च गुरुणां वा ब्रह्ममेधाविधिना संस्कारं कुर्यात् । पितृमेधप्रयोगः सर्वत्र प्रकृतिर्भवति । प्रायश्चित्तप्रभृति यथोक्तमाग्निमुत्पाद्य दक्षिणायनमरणादि यथासम्भवं प्रायश्चितं कृत्वा ब्राह्मणाननुज्ञाप्य
अमुकशर्माणं प्रेतं॰ अग्निना ब्रह्ममेधेन पितृमेधविधिना सह संस्करिष्ये
इति सङ्कल्पः । विशेषस्तूच्यते- ‘परे युवांसं॰’ इत्यस्य होमानन्तरं नानाचतुर्गृहीतैर्होमः –
चित्तिः सुक्॰ नृम्णं धात्स्वाहा ।। पृथिवी होता॰ इन्द्रियाय स्वाहा ।। | अग्निर्होता॰ हवनश्रुतः स्वाहा ॥ सूर्यन्ते॰ मेरय स्वाहा ॥ महाहविर्होता॰ पृथिव्यै स्वाहा ॥ वाग्घोता॰ स्वयंभुवे स्वाहा
(सर्वत्र-वाचस्पतये ब्रह्मण इदं॰ ) ॥ शवनयनकाले - ‘पूषात्वेतश्चावयतु॰’ इत्यनन्तरं ‘भर्ता सन्ध्रियमाणः॰’ इत्यनुवाकं पठेत् । एवमेव ‘पूषे मा आशाः॰, आयुर्विश्वायुः॰’ इत्यत्रापि । एवमेव ‘इयंनारी॰’ इत्यत्र ‘सेनेन्द्रस्य॰’ इत्यनुवाकं, ‘सुवर्णं हस्तात्’ इत्यत्र ‘देवस्य त्वा॰’ इत्यादि षोडश प्रतिग्रहमन्त्रांश्च पठेत् ॥ ‘सुवर्ण धर्मं॰’ इत्यास्ये, ‘ब्रह्मेन्द्रमग्निं॰’ इति नासिकयोः, ‘शतं नियुतः॰’ इत्यक्ष्णोः, ‘सुवर्णं कोशं०’ इति कर्णयोः हिरण्यशकलान्प्रत्यस्यति । ‘मैनमग्ने॰, ज्योतिष्मतीं त्वा॰’ इत्यनुवाकेन चाग्न्युपाषणम् ।
सहस्रशीर्षा॰, अद्भ्यः सम्भूतः॰, ब्राह्मण एकहोता॰’
इति त्रिभिरनुवाकैरुपस्थानम् । ‘य एतस्य पथो गोप्तारः॰’ इत्यादिभिः सह ‘प्रयासाय स्वाहा’ इत्यादि द्वादशाज्याहुतयः । ‘प्रकेतुना॰’ इत्यनन्तरं ‘हरि ँ हरन्त॰’ इत्यनुवाकेन चाऽनुशंसनम्। ‘अभ्मन्वती॰, आप्यायस्व मदिन्तम॰’ इति च साङ्गानम्, ‘धाता पुनातु॰, ईयुष्टे ये॰’ इत्यवगाहनं, ‘उद्वयन्तमसस्परि॰, तरणिविश्वदर्शतो॰’ इत्यादित्यस्योपस्थानम् ॥ सर्वमन्यत्पितृमेधवत् ॥