३८ सङ्घातमरणे

संघातमरणे (यद्यनेकेषामेकदिने मृतिः स्यात्) - मातापित्रोः पत्न्यादीनां तद्व्यतिरिक्तानामेकस्मिन्दिने मरणे-पितृमातृपूर्वमेव पत्न्यादीनां संस्कारं कुर्यात् । क्रमतः पश्चान्मृतयोर्मातापित्रोः पत्न्यादिभ्यः पूर्वमेव संस्कारं कुर्यात् । पितुः पूर्वं संस्कारं कृत्वा अनन्तरं मातुः संस्कारः ॥ पत्नीपुत्रपौत्रभ्रातृतत्पुत्रस्नुषास्वसॄणां संख्यातक्रमात् (उक्तक्रमात्) दाहादिक्रियाः पृथक्पृथक् कुर्यात् । अन्येषामेकदिनमरणे (कृत्वा पूर्वमृतस्यादौ द्वितीयस्य ततः परम् । तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः) मरणक्रमेण संस्कारः ॥ ॥ यदि दम्पत्योः सहमृतिः स्यात्सहैव दाहादिक्रियाः कुर्यात् । सहप्रमीतयोः सहैव पितृमेधः । द्विवचनलिङ्गान्मन्त्रान्धारयन्ति । चितायां भार्योपसंवेशनोत्थापनमन्त्रवर्जम् ॥

एककाल मृतौ पित्रोः पितृमेधक्रिया सह ।
उदकं पिण्डदानञ्च श्राद्धं कुर्यात्पृथक्पृथक् ॥
सपिण्डीकरणञ्चैव सह वा पृथगेव वा ।
एकगर्ते जलं दद्याच्छ्राद्धं चैकदिने द्वयोः ॥
सह चर्माधिरोहञ्च शान्तिहोम समाचरेत् ।
तन्त्रेण श्रवणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥
तत्र द्वयोनिमित्तौ द्वौ ब्राह्मणावितरैः सह ॥
दम्पत्योस्सह मृत्यौ तु सह स्याद्दहनक्रिया ।
पृथक्पिण्डोदकादीनि यथाविधि समाचरेत् ।।
कुण्डमेकं पृथक्पिण्डजलाञ्जलिशिलामताः ।
अस्थ्नां सञ्चयनञ्चापि पृथक्सङ्कल्प्य कुम्भयोः ॥
एककालगतासूनां बहूनामथवा द्वयोः ।
मन्त्रेण दहनं कृत्वा श्राद्धं कुर्यात्पृथक्पृथक् ॥
दम्पत्योरेकदा मृत्यौ दहेदौपासनादुभौ ।
पृथक्पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ॥
नग्नप्रच्छादनश्राद्धं नवश्राद्धं तथैव च ।
वृषोत्सर्ग मासिकानि सपिण्डीकरणं पृथक्

इति ॥ भर्तुरस्थिसञ्चयनात्पूर्वं तस्य भार्याया मरणे यमः -

अस्थिसञ्चयनादर्वाग्भर्तुः पत्नी मृता यदि ।
तस्मिन्नेवाऽनले दाह्या यदि चाग्निर्न शाम्यति ॥