॥ अनुपनीतानां (चौलानन्तरमुपनयनात्पूर्वं) मरणे — प्राणेषूत्क्रान्तेषु मुखे हिरण्यशकलं निधाय तूष्णीं शवं स्नापयित्वाऽलङ्कृत्यासन्द्यां प्रेतं निधाय श्मशानं नीत्वा पलाशशाखयोदुम्बरशाखया वा दहनदेशं दक्षिणापवर्गं तूष्णीं सम्मृज्य शाखां निरस्थाऽद्भिरवोक्ष्य दधिमधुघृततिलतण्डुलांश्च समुदायुत्य तूष्णीं शवमुखे निवपति । दहनदेशे मुष्टिपरिमितास्तिलतण्डुलान्सम्प्रकीर्याऽवशिष्टान्सर्वतः सम्प्रकिरति। चितां कल्पयित्वोतपनाग्निमुत्पाद्य चितायां प्रेतं निधायाऽप्रदक्षिणं परिस्तीर्य संस्कृतमाज्यं प्रेतास्ये निनयति -
इदन्त आत्मनश्शरीरमयन्त आत्माऽऽत्मनस्त आत्मानं शरीराद्ब्रह्म निर्भिनत्ति भुर्भुवस्सुवरसौ स्वाहा
इति ॥ (प्रेतायेदं॰) सा हि पूर्णाहुतिः ॥ अपि वा-
अस्मात्वमधिजातोऽस्ययं त्वदधि जायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा
(अग्नये वैश्वानरायेदं॰) इत्यनयर्चा वा
वसुभ्यो रुद्रेभ्य आदित्येभ्यो बिश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यः पितृभ्यस्स्वाहा
(यथालिङ्गं त्यागः) इत्यनेन यजुषा वा । ततः “वातास्ते वान्तु॰" इति वस्त्रेणोपवीजयन्ति-अप्रदक्षिणं परीत्य तूष्णीं प्रदक्षिणं त्रिः परियन्ति । उदकुम्भं शिरसि वामांसे वा धृत्वा तूष्णीं त्रिरप्रदक्षिणं परीत्याऽग्निना शवं दहेत् । ततस्तीर्थं गत्वा
प्रेताय॰ गोत्राय॰ नाम्ने उदकाञ्जलिरुपतिष्ठतु
इति जलाञ्जलिं दत्वा नग्नप्रच्छादनाद्येकोद्दिष्टान्तं सर्वं कुर्यात् ॥ पञ्चमवर्षात्पूर्वं मृतानां सञ्चयनवर्जम् ॥ ॥