३६ प्राक्चौळात्प्रमीतानां स्त्रीकुमाराणां संस्कारविधिः

(बो. पि. सू. ३. ६ ) यथो एतन्न प्राक्चौळात्प्रमीतानां दहनं विद्यते नानुपनीतानां कन्यानां वा पितृमेध

इत्युक्तम् ।

कथमु खल्वेषामुक्तस्संस्कारो विद्यत

इति ॥ असमाप्तशरीराणां गर्भाणां स्रवणमित्येके । गर्भस्रवणे

‌ इयं वा अग्निर्वैश्वानरोऽस्यामेवैनं जुहोति

इति ब्राह्मणम् । भूमौ निहत्य सचेलोऽवगाहेत सद्यश्शौचम् ॥ अदन्तजातानां निखनन प्रणवेन वा ॥ दन्तजातानां व्याहृतिविधानेन वा । तस्य कः कर्मण उपक्रमो भवति ?

निर्मन्थ्यं कुर्यान्निर्मन्थ्येन स्त्रीकुमाराणां दहेयुरित्युक्तत्वात् ।

अथ ग्राम्येणालङ्कारेणालङ्कृत्य श्मशानं निर्हत्य प्रेतं तत्रैव निधायाख्यातं चितायामुपकल्पनम् ॥ अपरेण चितामग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलापोत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य पर्णमयेन स्रुवेण मध्यमेन पलाशपर्णेन वा ‘तत्सवितुर्वरेण्यम्’ इत्यनुद्रुत्यैकादशकृत्वो गृह्णाति-‘प्रजापतये स्वाहा’ इति प्रथमामाहुतिं जुहोति

प्रेतायामुष्मै यमाय वैवस्वताय स्वाहा

इति । द्वितीयां —

दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तत्सर्वं जुहोति

इति ब्राह्मणम् ॥ पर्णमयस्रुवं प्रेतस्योपरिष्टान्निधाय ‘भूः’ इति मनसा ध्यायनुपोषेत् । ‘भुवः’ इत्युपस्थानं ‘सुवः’ इत्यवगाह्याप्सु निमज्योन्मज्योत्तीर्याचम्यैकमुदकाञ्जलिं ददाति ॥ न चास्यात ऊर्ध्वं श्मशानं कर्तुमाद्रियेत नोदकक्रिया वा ॥ अयुग्मदिवसे त्रीन्पञ्च सप्त ब्राह्मणान्भोजयेदेकमपि वा ॥ भवत्यामैर्वा मूलफलैः प्रदानमात्रं हिरण्येन वा प्रदानमात्रं सर्वेषु होतृपरेषु स्वधास्थानेषु कुर्यात् ‘अमुष्मा उपतिष्ठतु’ इति ।

स्रावादिसंस्कारप्रयोगः

सावादिसंस्कारप्रयोगः ॥ गर्भस्रावे-मासचतुष्टपर्यन्तं संस्कारी नास्ति ॥

गर्भपाते

गर्भपाते-(पञ्चमषष्ठमासयोः) असमाप्तशरीरं (गर्भपिण्डं) भूमौ निहत्य सचैलस्नानं कुर्यात् ॥ सद्यः शौचम् ॥

सप्तममासप्रभृतिदन्तजननात्पूर्वं मरणे

सप्तममासप्रभृति दन्तजननात्पूर्वं मरणे - शिशुं संस्नाप्य घृतेनाभ्यज्य ग्राम्येणालङ्कारेणालङ्कृत्य श्मशानं नीत्वा दक्षिणोत्तरायतं गर्तं खात्वा तं गर्तं गोमयजलेन प्रोक्ष्य तत्र दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु दक्षिणाशिरसं मृतं शिशुं प्रणवेन निधाय दर्भैः प्रच्छाद्याऽवटं (श्वादयो यथा न खादन्ति तथा ) मृद्भिः पूरयित्वा सचैलं स्नात्वा गृहं गच्छेत् ॥

मृतजातशिशूनां मरणे

मृतजातशिशूनामेवमेव निखननं तूष्णीम्, अन्यत्सर्वं समानम् ॥ आशौचान्ते पञ्चगव्यं प्राश्य यज्ञोपवीतं धृत्वा ‘प्रजापतिः प्रीयताम् ’ इति पुण्याहं वाचयेत् ॥

आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं प्रसूतिः स्यात्तत्राशौचं विधीयते ॥

आद्यमासत्रये मातुस्त्रिरात्रं चतुर्थमासे चतूरात्रमस्पृश्यत्वमाशौचम् । पित्रादिसपिण्डानां स्रावमात्रे स्नानाच्छुद्धिः॥ पञ्चमषष्ठमासयोर्गर्भपाते गर्भिण्या माससमसङ्ख्यं क्रमेण पञ्चषड्दिनान्यस्पृश्यत्वलक्षणमाशौचम् । पित्रादिसपिण्डानान्तु त्रिदिनं जनानाऽऽशौचम् । मृताऽऽशौचन्तु नास्ति ॥ गर्भिण्याः सप्तममासप्रभृति प्रसवे मातुः पित्रादि सपिण्डानाञ्च जननाऽऽशौचम् । मृताशौचं नास्ति ॥ जननोत्तरं नाळच्छेदनात्पूर्व शिशुमरणे पित्रादिसपिण्डानां त्रिदिनं जननाऽऽशौचम् । मातुस्तु दशाहमेव । मृताशौचं नास्ति । नाळच्छेदनोत्तरं दशाहाभ्यन्तरे शिशुमरणे सपिण्डानां जननाऽऽशौचम् । मृताऽऽशौचं नास्ति ॥

दन्तोत्पत्यनन्तरं चौलात्पूर्वं मरणे

दन्तोत्पत्यनन्तरं चौलात्पूर्वं मरणे - (खननपक्षे) शिशुं संस्नाप्य घृतेनाभ्यज्याऽलङ्कृत्य गर्गं खात्वा प्रोक्ष्य दर्भान्संस्तीर्य ‘भूः’ इति गर्ते शवं निधाय ‘भुवः’ इत्युपस्थानं कृत्वा ‘सुवः’ इति अप्सु निमज्योन्मज्योत्तीर्याचम्य

प्रेताय॰ गोत्राय॰ नाम्ने उदकाञ्चलिरुपतिष्ठतु

इति जलाञ्जलिमेकं दद्यात् ॥ विषमदिवसेषु श्रीन पञ्च सप्त ब्राह्मणान् भोजयदेकें वा ।

प्रेताय॰ गोत्राय॰ नाम्ने उपतिष्ठतु

इति आमानफलमूलानि हिरण्यं वा दद्यात् ॥ आशौचान्ते पूर्ववत्पञ्चगव्यप्राशनादि पुण्याहवाचनान्तं कुर्यात् ॥ (दहनपक्षे)-पूर्ववच्छिशुं संस्नाप्य घृतेनाभ्यज्यालङ्कृत्य श्मशानं नीत्वा यज्ञियकाष्ठैश्चितां कल्पयित्वा चिताया अपरेण तुषाऽग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय पर्णमयं स्रुक्स्रुवं निष्टप्य सम्मृज्य पर्णमयेन स्रुवेण स्रुचि एकादशगृहीतं गृहीत्वा ‘तत्सवितुः’ इत्यनुद्रुत्य ‘प्रजापतये स्वाहा’ इति प्रथमामाहुतिं हुत्वा, पुनरेकादशगृहीतं गृहीत्वा

प्रेतायाऽमुष्मै यमाय वैवस्वताय स्वाहा

इति द्वितीयामाहुति हुत्वा, प्रेतं चितामारोप्य स्रुक्स्रुवौ तस्योपरि निधाय “भूः" इति मनसा ध्यायन्नग्निना दहेत् ॥ “भुवः” इति यममुपस्थाय तीर्थं गत्वा “सुवः" इत्यवगाह्याप्सु सकृन्निमज्योन्मज्योत्तीर्याचम्य,

प्रेताय॰ गोत्राय॰ नाम्ने अयन्ते जलाञ्जलिरुपतिष्ठतु

इत्युदकाञ्जलिमेकं दद्यात् । विषमदिवसेषु त्रीन् पञ्च सप्त ब्राह्मणान्भोजयेदेकं वा ।

प्रेताय॰ गोत्राय॰ नाम्ने उपतिष्ठतु

इत्यामान्नफलमूलादिकं हिरण्यं वा दद्यात् ।। आशौचान्ते पूर्ववत्पञ्चगव्यप्राशनादि पुण्याहवाचनान्तं कुर्यात् ॥