॥अथ नारायणबलिः॥ (बो. गृ. शे. सू. ३. २० ) अथातो नारायणबलिं व्याख्यास्यामः - दक्षिणोत्तरायणयोरपरपक्षस्य द्वादश्यां क्रियेत ॥ पूर्वेद्युर्द्वादशा षड्वा ब्राह्मणानिमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् ॥ अथाऽपरेद्युर्देवगृहे नदीतीरे वाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं दैवतमावाहयति-पुरुषसूक्ते द्वे ऋचौ जपित्वा व्याहृतिभिः पुरुषमावाहयति ॥ अथैनं स्नापयतिपुरुषसूक्तेन ॥ अथैनं गन्धपुष्पधूपदीपैरष्टाक्षरेणाऽर्चयित्वाऽद्भिस्तर्पयति - ‘केशवं तर्पयामि’ इति द्वादशनामभिः ॥ परिधानप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति-‘विष्णोर्नुकम्’ इति पुरोनुवाक्यामनूच्य ‘परो मात्रया’ इति याज्यया जुहोति ॥ आथाऽऽज्याहुतीरुपजुहोति-‘केशवाय स्वाहा’ इत्येतैरेव नामधेयैः ।। अथ गुळपायसघृतमिश्रमन्नं निवेदयति -
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विष्णवे महापुरुषाय हविर्निवेदयामि
इति । सप्तव्याहृतिभिस्स्वाहाकारेण जपति । व्याहृतिभिराचमनीयम् ॥ अथ ब्राह्मणानाहूय सदर्भोपक्लृप्तेष्वासनेषूपवेश्याऽथैनान् वस्त्रगन्धपुष्पधूपदीपैर्माल्यैरभ्याऽथाऽभ्यनुज्ञातस्तिलघृतमिश्रं हविस्समुदायुत्य हस्तेन जुहोति -
पितृभ्यस्स्वधा नमो नारायणाय स्वाहा
इत्यादि चतुर्विंशतिमन्त्रा ऊह्याः ॥ अथ
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा
इति ॥ अथ ब्राह्मणानन्नेन परितोष्याऽऽचम्य तेषां यथाशक्ति दक्षिणां ददाति ॥ प्रदक्षिणीकृत्य शेषमनुज्ञाप्य दक्षिणेनाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति-
विश्वेभ्यो देवेभ्यो नमस्साध्येभ्यो देवेभ्यो नमस्सर्वभ्यो देवेभ्यो नमस्सर्वाभ्यो देवताभ्यो नमो विष्णवे नमो नारायणाय नमस्सहस्रशीर्षाय नमो यज्ञपुरुषाय नमो विश्वात्मने नमस्सर्वात्मने नमस्सर्वेश्वराय नमः
इति ॥ स्विष्टकृत्पभृति सिद्धमाधेनुवरप्रदानात् ॥
सर्वान्पितॄन्समधिगच्छति ब्रह्मलोके महीयत
इत्याह भगवान्बोधायनः ।।
नारायणबलिप्रयोगः
नारायणबालिप्रयोगः॥ कृष्णपक्षस्य द्वादश्यां देवालये नदीतीरे वा आचम्य प्राणानायम्य
अमुकस्य (पित्रादेः) शर्मणः गोत्रस्य सम्भावितसमस्त (अमुक) पापक्षयद्वारा शाश्वत (विष्ण्वादि) पुण्यलोकाऽवाप्त्यर्थं श्रीनारायणप्रीत्यर्थं नारायणबलिं करिष्ये
इति सङ्कल्प्य, कलशार्चनं ब्रह्मदण्डञ्च कृत्वा, स्थण्डिलोल्लेखनाग्निं प्रतिष्ठाप्य, नारायणबलिहोमः कर्म, चित्तिर्नामाऽग्निः, नारायणो देवता, चरुर्हविः, उपहोमे-केशवादिद्वादशनामभिराज्येन एकैकयाऽऽहुत्या,
पितृभ्यः स्वधा नमो नारायणाय स्वाहा
इत्यादि
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा
इत्यन्तं पञ्चविंशतिमन्त्रैश्च तिलघृतमिश्रहविषा एकैकयाऽऽहुत्या, ‘अग्निःस्विष्टकृत्’, इत्याद्यन्वाधानादि चरुनिर्वापे ‘विष्णवे जुष्टं निर्वपार्मि’ इति प्रतिष्ठिताभिघारणान्तं कृत्वोपोत्थायाऽग्रेणाऽग्निमष्टदळपद्मे तण्डुलोपरि कलशं प्रतिवाप्य सौवर्णीं विष्णुप्रतिमां विन्यस्य
‘सहस्रशीर्षा॰ ङ्गुलम्, पुरुष एवेद ँ॰ रोहति
इति मन्त्रद्वयं जपित्वा, व्याहृतीभिः
ॐ भूः पुरुष नारायणमावाहयामि
इत्यादिभिः पुरुषमावाह्याऽष्टाक्षरमन्त्रेण आसनपाद्यार्घ्याऽऽचमनीयं दत्वा पुरुषसूक्तेन संस्नाप्याऽष्टाक्षरेण गन्धपुष्पधूपदीपैरभ्यर्च्याऽद्भिस्तर्पयति-“केशवं तर्पयामि” इत्यादि द्वादश नामाभिः । अथ परिधानप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वं जुहोति-
विष्णोर्नुकं॰ त्रेधोरुगायों३ परो मात्रया॰ वित्से स्वाहा
इति, विष्णव इदं॰ ॥ अथाज्याहुतीरुपजुहोति- “केशवाय स्वाहा” इत्यादि द्वादशनामाभिः ॥ अथ गुळपायसं घृतमिश्रमन्नं निवेदयति । गायत्र्या प्रोक्ष्य
देवस्य त्वा॰ हस्ताभ्यां विष्णवे महापुरुषाय हविर्निवेदयामि
इति । ‘अमृतोपस्तरणमसि स्वाहा’ इत्यापोशनं दत्वा
ॐ भूः स्वाहा, ॐ भुवः स्वाहा, ॐ सुवः॰, महः॰, जनः॰, तपः॰, सत्यं स्वाहा
इति जपित्वा ‘अमृतापिधानमास स्वाहा’ इत्युत्तरापोशनं, व्याहृतीभिराचमनं, ताम्बूलं, नीराजनं, पुष्पाञ्जलिञ्च दद्यात् ॥ अथ पूर्वेद्युः सद्यो वा निमन्त्रितान्द्वादश ब्राह्मणान्(कुशमयान्वा)
केशवार्थे भवता क्षणः कर्तव्यः, नारायणार्थे॰, माधवार्थे॰, गोविन्दार्थे॰, विष्णवार्थे॰, मधुसूदनार्थे॰, त्रिविक्रमार्थे॰, वामनार्थे॰, श्रीधरार्थे॰, हृषीकेशार्थे॰, पद्मनाभार्थे॰, दामोदरार्थे भवता क्षणः कर्तव्यः
इति क्षणं ग्राहयित्वा पादप्रक्षाळनं कृत्वा तानाचमय्य स्वयञ्च पादौ प्रक्षाल्याऽऽचम्य सदर्भक्लृप्तेष्वासनेषु प्राङ्मुखानुदङ्मुखान्वा ब्राह्मणानुपवेश्य ‘केशवमावाहयामि’ इत्यादिक्रमेणाऽऽवाह्य, अर्घ्यवस्त्रगन्धपुष्पधूपदीपमाल्यैरभ्यर्च्य ‘अग्नौ करिष्यामि’ इत्युक्त्वा ‘कुरुष्व’ इत्यनुज्ञातः तिलघृतमिश्रमन्नं समुदायुत्य हस्तेनैव जुहोति-
पितृभ्यः स्वधा नमो नारायणाय स्वाहा (पितृभ्यो नारायणायेदं॰ इत्यादि त्यागः) पितामहेभ्यः स्वधा नमो नारायणाय॰ । प्रपितामहेभ्यः॰ स्वाहा । मातृभ्यः स्व॰ स्वाहा । पितामहीभ्यः स्व॰ । प्रपितामहीभ्यः स्व॰ स्वाहा । मातामहेभ्यः स्व॰ । मातुःपितामहेभ्यः स्व॰ । मातुःप्रपितामहेभ्यः स्व॰ । मातामहीभ्यः स्व॰ । मातुः पितामहीभ्यः॰ । मातुःप्रपितामहीभ्यः॰ । आचार्येभ्यः॰ । आचार्यपत्नीभ्यः स्व॰ । गुरुभ्यः॰ । गुरुपत्नीभ्यः॰ । सखिभ्यः स्व॰ । सखिपत्नीभ्यः॰ । ज्ञातिभ्यः॰ । ज्ञातिपत्नीभ्यः॰ । अमात्येभ्यः॰ । अमात्यपत्नीभ्यः॰ । सर्वेभ्यः॰ । सर्वाभ्यः स्वधा नमो नारायणाय स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा
इति पञ्चविंशतिः ॥ अथ ब्राह्मणेभ्यश्चतुरश्रमण्डलेषु द्वादश पात्राण्यासाद्य परिविष्य प्रोक्ष्य परिषिच्य–‘केशवाय नमः इदमन्नम्’ इत्यादि द्वादशनामभिरन्नं समाऽऽपोशनं दत्वा ब्रह्मार्पणं कृत्वा भोजनान्ते उत्तरापोशनादि यथाशक्ति दक्षिणां दत्वा तान्प्रदक्षिणीकृत्य शेषमनुज्ञाप्योद्वास्य, दक्षिणेनाऽग्निं प्रागग्रान्दर्भान् स ँस्तीर्य तेष्वन्नशेषेण बलिं ददाति –
विश्वेभ्यो देवेभ्यो नमः । साध्येभ्यो देवेभ्यो॰ । सर्वेभ्यो देवेभ्यो॰ । सर्वाभ्यो देवताभ्यो॰ । विष्णवे॰ । नारायणाय॰ । सहस्रशीर्षाय॰ । यज्ञात्मने॰ । यज्ञपुरुषाय॰ । विश्वात्मने॰ । सर्वात्मने॰ । सर्वेश्वराय नमः
इति ॥ १२ ॥ ततः स्विष्टकृत्प्रभृति होमशेषं समाप्य, व्याहृतिभिर्देवमुद्वास्य कलशं प्रतिमादिकं सदक्षिणं गाञ्चाऽऽचार्याय दद्यात् ॥
पितृन्समधिगच्छति ब्रह्मलोके महीयते ॥