३४ अस्थिक्षेपविधिः

प्रेतस्थाने बलिं दत्वा क्षीरेणाभ्युक्ष्य वाग्यतः ।
प्रेतस्यास्थीनि गृह्णीयात्प्रधानाङ्गोद्भवानि च ॥
पञ्चगव्येन संस्नाप्य क्षौम वस्त्रेण वेष्ट्य च ।
प्रक्षिप्य मृन्मये भाण्डे नवे साच्छादने शुभे ॥
अरण्ये वृक्षमूले वा शुद्धे संस्थापयेदथ ।
सूक्ष्मान्यस्थीनि तद्भस्मनीत्वा तोये विनिक्षिपेत् ।।
ततः संमार्जनं भूमेः कर्तव्यं गोमयांबुभिः ।
पूजां च पुष्पधूपायै लाभः पूर्ववच्चरेत् ॥
तत्स्थानाच्छनकैर्नीत्वातीर्थे वा जाह्नवीजले ।
कश्चिच्च प्रक्षिपेत्पुत्रो दौहित्रो वा सहोदरः ।
मातुःकुलं पितृकुलं वर्जयित्वा नराधमः ।
अस्थीन्यन्यकुलस्थस्य नीत्वा चान्द्रायणं चरेत् ॥
गङ्गातोयेषु यस्यास्थि क्षिप्यते शुभकर्मणः ।
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ॥
अस्तंगते गुरौ शुक्रे तथा मासे मलिम्लुचे ।
गङ्गायामस्थिनिक्षेपं न कुर्यादिति गौतमः ॥
दशाहाभ्यन्तरे यस्य गङ्गातोयस्थि मज्जति ।
गङ्गायां मरणं यादृक् तादृक् फलमवाप्नुयात् ॥

तीर्थे अस्थिक्षेपप्रयोगः

तीर्थे अस्थिक्षेपप्रयोगः ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्य

अमुकगोत्रस्य शर्मणः अमुकस्य ( पित्रादेः सपिण्डीकरणात्पूर्वञ्चेत् - प्रेतस्य ) पुण्यलोकाऽवाप्त्यर्थं गङ्गादि अमुकतीर्थे अस्थिनिक्षेपं कर्तुं अस्थिशुद्धिं करिष्ये

इति सङ्कल्प्य1 यत्रास्थीनि निखातानि तत्र भूमि गायत्र्या गोमूत्रेण, ‘गन्धद्वारामिति’ गोमयेन, ‘आप्यायस्वेति’ क्षीरेण, ‘दधिक्राव्ण’ इति दध्ना, ‘शुक्रमसीत्याज्येन’, च प्रोक्ष्य भूमिं प्रार्थयेत् –

उपसर्प मातरं भूमिमतामुरुव्यचसं पृथिवी ँसुशेवाम् । ऊर्णम्रदा युवतिक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् [[TODO: परिष्कार्यम्]]

इति ॥ अथ भूमिं खनति–

उच्छ्वञ्चस्व पृथिवि मा निबाधथाः सूपायनाऽस्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाऽभ्येनं भूम ऊर्णुहि [[TODO: परिष्कार्यम्]]

इति ॥ अथ मृत्तिकामुद्धराति –

उच्छ्वञ्चमाना पृथिवी सुतिष्ठतु सहस्र मित उप हि श्रयन्ताम् । ते गृहासो धृतश्चुतौ भवन्तु विश्वा हाऽस्मै शरणाः सन्त्वत्र [[TODO: परिष्कार्यम्]]

इति । अस्थीनि गृह्णाति-

उत्तं स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्तु तेत्रा यमः सादनाते मिनोतु [[TODO: परिष्कार्यम्]]

इति ॥ ‘अथैतोन्विन्द्रं’ इति त्रिभिमन्त्रैः प्रतिमन्त्रमस्थीनि स्पृष्ट्वा त्रिः स्नायात्–

‌ एतोऽन्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । शुद्धैरुक्थैर्वा वृध्वांस शुद्ध आशीर्वा ममत्तु ॥ १ ॥ इन्द्र शुद्धो न आगहि शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ २॥ इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥३॥ [[TODO: परिष्कार्यम्]]

इति ॥ एवमेव दशदव्यैर्दशवारमस्थीनि स्नापयन्स्वयञ्च स्नायात् - “गायत्र्यादि पञ्च मन्त्रैर्गोमूत्रगोमयक्षीरदाधिकृतैर्देवस्य त्वेति” कुशोदकेन, ‘मानस्तोकेति’ भस्मना, ‘अश्वक्रान्त’ इति मृदा, ‘मधुवाता’ इति मधुना, ‘आपो हिष्टेति’ तृचा ‘जलेनेत्येवं’ स्नात्वा अस्थीनि कुशैर्मार्जयते – “अतोदेवा॰ सप्तधामभिः" इत्यृचा “एतान्विन्द्रं स्तवाम” इति तिसृभिः,

शुची वो हव्या मरुतः शुचीनां शुची हिनोम्यध्वरं शुचिभ्यः । ऋतेने सत्यमृतसाप आयञ्च्छुचिजन्मानः शुचयः पावकाः [[TODO: परिष्कार्यम्]]

इति मन्त्रेण,

‌ न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयन्ति वरुणोअतिद्विषः॥१॥ तद्धि वयं वृणीमहे वरुण मित्राऽयमन् । येना निरंहसो यूयं पाथ नेथा च मर्त्यमतिद्विषः ॥२॥ ते नूनं नोऽयभूतये वरुणो मित्रो अर्यमा । नयिष्ठा उनो नेषणि पर्षिष्ठा उ नः पर्षण्यतिद्विषः ॥३॥ यूयं विश्व परिपाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽतिद्विषः ॥४॥ आदित्यासो अतिस्त्रिधो वरुणो मित्रो अर्थमा । उग्रं मरुद्भिः रुद्र हुवेमेन्द्रमग्निं स्वस्तयेऽतिद्विषः ।।५।। नेतार ऊषुणस्तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश्चर्षणीनामतिद्विषः ॥६॥ शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अतिद्विषः ॥७॥ यथा ह त्यद्वसवो गौर्यं चित्पदिषिताममुञ्चता यजत्राः । एवोष्व स्मन्मुञ्चता व्यंहः प्रतार्यग्ने प्रतरन्न आयुः ॥८॥ [[TODO: परिष्कार्यम्]]

इत्यष्टभिः,

इति वा इति मे मनो गामश्व सनुयामिति । कुवित्सोमस्याऽपामिति ॥१॥ प्रवाता इव दोधत उन्मा पीता अयंसत । कुवित्सो॰ ॥२॥ उन्मा पीता अयंसत रथमश्वा इवाशवः । कुवित्सो॰ ॥३॥ उप मा मतिरस्थित वाश्रापुत्रमिव प्रियम् । कुवित्सो॰ ॥४॥ अहं त्वष्टेव वन्धुरं पर्यचामि हृदा मतिम् । कुवित्सो॰ ॥५॥ न हि मे अक्षिपञ्चनाच्छान्सुः पञ्च कृष्टयः । कुवित्सो॰ ॥६॥ न हि मे रोदसी उभे अन्य पक्षञ्च न प्रति । कुवित्सो॰ ॥ ७॥ अभि द्यां महिना भुवममी मां पृथिवीं महीम् । कुवित्सो॰ ॥८॥ हन्ताऽहं पृथिवीमिमां निदधानीह वेहवा । कुवित्सो॰ ॥९॥ ओषमित्पृथिवीमहं जनानीह वेहवा । कुवित्सो॰ ॥ १०॥ दिवि मे अन्यः पक्षोधो अन्यमाकृषम् । कुवित्सो॰ ॥११॥ अहमस्मि महामहोऽभिनभ्यमुदीषितः । कुवित्सो॰ ॥१२॥ गृहो याम्यरङ्कृतो देवेभ्यो हव्यवाहनः । कुवित्सो॰ ॥१३॥ [[TODO: परिष्कार्यम्]]

इति त्रयोदशभिः,

‌ यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वितज्जहि ॥१॥ पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥२॥ यत्त पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥३॥ यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्मसवैः पुनीहि नः ॥४॥ उभाभ्यो देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः ॥५॥ त्रिभिश्वं देव सवितर्वर्शिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥६॥ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्व देवाः पुनीत मा जातवेदः पुनीहि मा ॥७॥ [[TODO: परिष्कार्यम्]]

इति सप्तभिः,

ममाऽग्ने वर्चो विहवेष्यस्तु वयन्त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाऽध्यक्षेण पृतना जयेम ॥१॥ मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममाऽन्तरिक्ष मुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥२॥ मयि देवा द्रविणमा यजन्तां मय्याशारस्तु मयि देवहूतिः । दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥ ३॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा निगां कतमच्चनाहं विश्वेदेवासो अधिवोचता नः ॥४॥ देवी षळुर्वीरुरु नः कृणोत विश्वेवदेवास इह वीरयध्वम् । माहास्म हि प्रजया मा तनूभिर्मा रधाम द्विषते सौम राजन ॥५॥ अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परिपाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेमैषां चित्तं प्रबुधां विनेशत् ॥ ६ ॥ धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमाभमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥७॥ उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः । स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परी दाः ॥८॥ ये नः सपत्ना अपते भवन्त्विन्द्राग्निभ्यामवं बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोयं चेत्तारमधिराजमैक्रन् ॥ ९॥ अर्वाञ्चमिन्द्र ममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमन्नो यज्ञं विहवे जुषस्वाऽस्य कुर्मा हरियो मे दिनन्त्वा ॥१०॥ [[TODO: परिष्कार्यम्]]

इति दशभिः,

कद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तमं हृदे ॥१॥ यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥२॥ यथा नो मित्रा वरुणो या रुद्रश्चिकेतति । यथा विश्वे सजोषसः ॥३॥ माथपतिं मेधपतिं रुद्रं जलोषभेषजम् । तच्छंयोः सुम्नमीमहे ॥४॥ यः शुक्र इव सूर्यो हिरण्यमिव रोचते । श्रेष्ठो देवानां वसुः ॥५॥ शन्नः करत्यवते सुगं मेषाय मेष्ये । नृभ्यो नारीभ्यो गवे ॥६॥ अस्मे सोम श्रियमधि निधेहि शतस्यं नृणाम् । महिश्रवस्तुविन॒म्णम् ॥७॥ मा नः सोमपरिबाधो मारातयो जुहुरन्त । आ न इन्दो वाजे भज ॥८॥ यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य । मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥९॥ [[TODO: परिष्कार्यम्]]

इति नवभिः, इत्येतैः प्रतिमन्त्रं मार्जयित्वा, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

‌ अस्थिशुध्यतया विहितममुक॰ प्रीत्यर्थं हिरण्यश्राद्धं करिष्ये

इति सङ्कल्प्य सपिण्डीकरणात् पूर्वञ्चेदेकोद्दिष्टविधिनाऽनन्तरञ्चेत् पार्वणविधिना (कुशमयब्राह्मणमुपवेश्य ) कुर्यात् ॥ एकोद्दिष्टे-प्रेतार्थमेकं ब्राह्मणे, पार्वणे-धूरिलोचनसंज्ञकविश्वेदेवार्थमेकं पित्रादित्रयार्थमेकं ब्राह्मणमुपवेश्य, क्षणपाद्यादिभिरभ्यर्च्य

भोजनादि पर्याप्तमिदं हिरण्यं तुभ्यमहं सम्प्रददे

इति हिरण्यं दत्वा पितॄन् विश्वेदेवांश्चोद्वास्य. सक्तुपिण्ड सम्बन्धनामगोत्रादि चतुर्थ्यन्तमुक्त्वा ‘अयं पिण्डः स्वधा नमः’ इति बर्हिषि पिण्डदानादि कुर्यात् । (एकोद्दिष्टे पिण्डमेकं, पार्वणे पिण्डत्रयम् ) गोदानादि दशदानानि यथासम्भवं वा दत्वा पिण्डोद्वासनान्ते तिलतर्पणं कुर्यात् ॥ अथ ताम्रपात्रे शुद्धमृदं निक्षिप्य पञ्चगव्यं प्रपूर्य तत्र केशवादि द्वादशनामभिरस्थीनि निधाय हिरण्यमध्वाज्यतिलैर्विकीर्य गन्धपुष्पादिभिरभ्यर्च्य पञ्चरत्नानि (सुवर्णरजतमुक्ताप्रवालनीलानि) निक्षिप्यान्येन ताम्रपात्रेणापिधाय यक्षकर्दमेनाऽनुलिप्याऽजिनकम्बलदर्भभूर्जपत्रशाणपठ्टवस्त्रतालपत्रैः1 क्रमेण सप्तधा यथासम्भवं संवेष्ट्य मृदाभिलिप्य स्थापयेत् ।।

अथ स्थण्डिलोल्लेखनादि लौकिकाऽग्निं प्रतिष्ठाप्य, अस्थिशुद्धिहोमः कर्म, आपूर्विकं तन्त्रं, चतस्रः सामिधेन्यः, अग्नीषोमावाज्यभागौ, पवमानो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे-आज्याक्ततिलद्रव्येण उदीरतामित्यादि

‌ चतुर्दशमन्त्रैरष्टोत्तरशताहुतिभिः, अग्निः स्विष्टकृत्,

इत्यादि सङ्कल्प्यान्वाधाय, गायत्र्या पक्कहोमान्ते-आज्याक्ततिलैः ‘उदरितामवर’ इत्यादि चतुर्दशमंत्रैः सप्ताऽऽवृत्तिभिः अष्टमाऽऽवृत्तौ अन्त्यानां चतुर्णां त्यागेन एवं १०८ आहुर्तार्जुहोति । ते च मन्त्राः–

उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्तेनोऽवन्तु पितरो हवेषु स्वाहा ॥१॥ ( सर्वत्र, पितृभ्य इदं॰ ) इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु स्वाहा ॥२॥ आहं पितॄन्त्सुवित्रा ँअवित्सि नपातञ्च विक्रमणश्च विष्णोः । बर्हिषदो ये स्वधयां सुतस्य भजन्त पित्वस्त इहागमिष्ठाः स्वाहा ॥३॥ बर्हिषदः पितर ऊत्य१ र्वागिमा वो हव्या चकृमा जुषध्वम् । त आगतावसा शन्तमेनाऽथा नः शं योररपो दधात स्वाहा ॥४॥ उपहूता पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आगमन्तु त इह श्रृंवन्त्वधि बुवन्तु तेऽवन्त्वस्मान्॰ ॥५॥ आच्या जानु दक्षिणतोः निषद्येमं यज्ञमभिगृणीत विश्वे । मा हिसिष्ट पितरः कनचिन्नो यद आगः पुरुषताकराम॰ ॥६॥ आसौनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्रयच्छत त इहोर्जं दधात॰ ॥७॥ ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं बसिष्ठाः । तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु॰ ॥८॥ येतातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सुवित्रेभिरर्वाङ् सत्यैः कव्यैः पितृभिर्धर्मसद्भिः॰ ॥९॥ ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्धर्मसद्भिः॰ ॥१०॥ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन॰ ॥११॥ त्वमग्न ईळितो जातवेदोऽवाड्डव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि॰ ॥१२॥ ये चेह पितरो ये च नेह याँश्च विद्मयाँ उ च न प्रविद्म । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व॰ ॥१३॥ ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधयाँ मादयन्ते । तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व स्वाहा ॥१४॥ [[TODO: परिष्कार्यम्]]

इति हुत्वा स्विष्टकृदादि होमशेषं समाप्य, अस्थीन्यादाय नाभिमात्रजले स्थित्वा दक्षिणामुखः “नमोऽस्तु धर्माय,स मे प्रीतोऽस्तु” इत्युक्त्वा ‘ऋतञ्च’ इत्यघमर्षणसूक्तं पठन् पितृतीर्थेन जले क्षिपेत् । ततः स्नात्वाऽऽदित्यं दृष्ट्वा ब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ॥


  1. अधिकारार्थं‌ कृच्छ्रत्रयं कृत्वा ।। ↩︎ ↩︎