दिनत्रयेण क्रियासमापनप्रयोगः॥
प्रथमेऽह्नि चतूरात्रं द्वितीयेऽह्नि दिनत्रयम् ।
तथा त्रयं तृतीयेऽह्नि दयात्पिण्डतिलोदकम्इ
इति बोधायनवचनात् दुर्मृतिं गतानां वर्षाद्यनन्तरं यदा त्रिरात्रेण वा क्रियासमापनं क्रियते तदा तन्त्रेण प्रथमादि दिनचतुष्टयस्य, वासोदक-तिलोदक-पिण्डदान-नग्नपच्छादन-नवश्राद्धादि तात्कालिकं कर्म प्रथमदिने कुर्यात् । एवमेव द्वितीयेऽह्नि पञ्चमादि दिनत्रयस्य, तृतीयेऽह्नि अष्टमादि दिनत्रयस्य वासोदक-तिलोदक-पिण्डदान-नवश्राद्धादि कुर्यात् । प्रभूतबलिशान्तिहोमाद्यपि तृतीयदिन एव। चतुर्थेऽहन्येकोद्दिष्टादिकं पञ्चमेऽहनि सपिण्डीकरणञ्च कार्यम् ॥