(बो. गृ. शे. सू. ३.२१) चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ॥ दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ विषास्त्ररज्जुपाषाणदेशान्तरमृतेऽपि वा ।। अभिशस्तसुरापात्मत्यागिनां द्विजहतानामन्येषाञ्च द्वादशवर्षाणि त्रीण्येकं वा यत्र मरणं यस्य तत्र तत्र कुर्वीत ॥ असंनिहितानां पालाशाप्रमाहूय पर्णत्सरूणां कृष्णाजिने पुरुषाकृतिं कृत्वा होतृकल्पेन वा पितृमेधेन वा संस्कुर्यात् ॥ अथ प्रयोगमन्त्रानपोद्धृत्य पुरुषसूक्तस्य प्रत्यृचं तत्तन्मन्त्राणां स्थाने पृथक्पृथक्प्रयोगो भवति । अपि वा तूष्णीं सर्वं क्रियेत ॥ याम्यसूक्तेनोपोषणम् ॥ पौरुषेणोपस्थानम् ॥ समानमत ऊर्ध्वम् ॥ तीर्थे स्नात्वा प्रेतायोदकक्रियां कृत्वा नामगोत्रे मनसा ‘नारायणैतत्त उदकम्’ इति वाचाऽभिव्याहरेत् ॥ स एवमेव सायंप्रातर्दशरात्रं करोति ॥ त्रिरात्रेण वा ॥ पिण्डदाने ‘असावेतत्ते पिण्डम्’ इति विशेषः॥ एकादश्यामेकोद्दिष्टम् ॥ एवं ‘प्रेतायामुष्मै यमाय च स्वाहा’ इत्यग्नौकरणे वा । प्रतिग्रहणे प्रदाने विसर्जने च ‘नारायणाय’ इत्यनेन मन्त्रेण करोति ॥ सर्वं मनसा सङ्कल्पयेद्वाचाऽभिव्याहरेत् ।। पूर्वत्रये च षाण्मासिके च समानम् ।। संवत्सरे सपिण्डीकरणम् सपिण्डीकरणस्थाने नारायणबलिक्रिया ॥ सायं प्रातर्न विद्यते सोयं बोधायनमतो यथा ॥ द्वयोरयनसक्रान्त्योः पुण्येषु दिवसेषु वा ॥ अथवाऽपरपक्षस्य क्रिया भवेत् ॥ सपिण्डीकरणमेतेषामन्येषां च समानम् ॥ प्रेतपात्रं पितृपात्रे निनयेत् त्रिषु वा सिञ्चेत् ॥ प्रेतपिण्डं पितृपिण्डेषु निदध्यात्
असौ पितृभिः पितामहैः प्रपितामहैस्सङ्गच्छध्वं भूर्भुवस्सुवरोम्
इत्याह भगवान्बोधायनः॥
नारायणबलिसंस्कारप्रयोगः
नारायणबलिसंस्कारप्रयोगः ॥ चाण्डालदष्ट्रिसर्पविषरज्वादिना दुर्मृतिं गतानां आत्मघातिनां च महापापिनां द्वादशवर्षाऽनन्तरं त्रिवर्षाऽनन्तरं वर्षाऽनन्तरं वा अयनसङ्क्रात्यादौ कृष्णपक्षस्य पुण्ये दिवसे द्वादशाऽब्दादि यथाशक्ति कृच्छ्राचरणं चरित्वा नारायणबलिविधिना संस्कारः कार्यः । तेषां शवसंस्कारो नाऽस्ति । अस्थिसंस्कारपूर्वकं तदलाभे शाखासंस्कारपूर्वकं वा कार्यः ॥ यथा-
अमुकप्रेतस्य॰ गोत्रस्यामुकदुर्मरणजनितसमस्तदुरितक्षयद्वारा पितृत्वप्राप्त्यर्थं नारायणबलिविधानेन संस्करिष्यामि
इति सङ्कल्प्य सर्वं कुर्यात् । सर्वत्र पैतृमेधिकमन्त्रस्थाने पुरुषसूक्तमन्त्रान्क्रमेण योजयेत् । परे युवांसं॰’ इत्यत्र ‘सहस्रशीर्षा॰ दशाङ्गुलम्’ ॥ ‘इदन्त्वा वस्त्रं प्रथमं॰’ इत्यत्र पुरुष एवेदं॰ रोहति’ ।। ‘अपैतदूहः’ इत्यत्र ‘एतावानस्य॰ दिवि’ एवं क्रमेण योजयेत् ॥ अपि वा तूष्णीं सर्वं क्रियेत। याम्यसूक्तनाऽग्न्युपोषणम् । पुरुषसूक्तनोपस्थानम् । अत ऊर्ध्वं समानम् ॥ तीर्थे स्नात्वा उदकक्रियायां ‘अमुकप्रेत॰ गोत्र’ इति मनसोच्चार्य ‘नारायण एतत्त उदकं’ इत्युच्चैरुक्त्वा ‘उपतिष्ठतु’ इति मनसा वदेत् । एवमेव क्रमेण
नारायण एतत्ते तिलोदकं, नारायण एतत्ते पिण्डं
इति तिलोदकादि दद्यात् । एवमेव नग्नप्रच्छादननवश्राद्धकोत्तरवृद्धिश्राद्धादौ मनसा प्रेतशब्दमुच्चार्य ‘नारायण’ इति उच्चैरुच्चार्य ‘उपतिष्ठतु’ इति पुनर्मनसोच्चारणं कर्तव्यम्। दशरात्रेण, त्रिरात्रेण वा और्ध्वदेहिकं कुर्यात् । एकादश्यामेकोद्दिष्टाऽग्नौकरणे-
अमुकप्रेताय॰ गोत्राय यमाय च स्वाहा
इति होमः । आवाह नादौ-
॰प्रेतं नारायणमावाहयामि, ॰प्रेत॰ गोत्र नारायण अयन्ते क्षण उपतिष्ठतु, नारायण इदन्ते आसनमुपतिष्ठतु
एवमेव पाद्यादि दानम् ॥ काले सपिण्डीकरणम् ॥ तत्र प्रेतस्थाने-एकोद्दिष्टवत्
॰प्रेत॰ गोत्र नारायण अयन्ते क्षण उपतिष्ठतु, प्रेत॰ गात्र नारायण इदन्ते आसनमुपतिघ्तु
इत्याद्यर्चनम् । तत्र अग्नौकरणहोमे-
॰प्रेताय॰ गोत्राय यमाय च स्वाहा
इति पूर्ववद्धोमः । प्रेतस्य पितृपितामहप्रपितामहस्थाने पार्वणविधानेन क्षणाद्यर्चनमग्नौकरणञ्च सर्वं (अविकृतं) समानं कुर्यात् ।। प्रेतार्घ्यपात्रस्य पितृपात्रे पितृपितामहप्रपितामहपात्रेषु वाऽवनयनम्-
अमुकप्रेत॰ गोत्र पितृभिः पितामहैः प्रपितामहैः सङ्गच्छध्वं भूर्भुवः सुवरो३म्
इति ॥ पित्रादित्रिषु पिण्डेषु प्रेतपिण्डसंयोजनम् । अत ऊर्ध्वं षोडशमासिकाब्दिकादिषु सर्वैः समानं पार्वणविधानम् ॥