मुख्यकर्ताऽऽगमेऽन्यस्तु प्रवृत्तोऽपि क्रियां त्यजेत् ॥
ततस्तु कर्म कुर्वीत संस्कर्ता मुख्य एव तु ॥
पुनस्तिलोदकं पिण्डं नग्नप्रच्छादनं तथा ।
नवश्राद्धप्रदानादि सर्व कर्म समाचरेत् ॥
दशाऽहकर्माण्यारब्धे संस्कारादौ कनीयसा ।
ज्येष्ठो यस्त्वन्तरा गच्छेत् सोऽस्य शेषं समापयेत् ॥
अन्येन यस्य संस्कारः कृतस्तस्यात्मजः पुनः ।
कुर्यादेव यथाशास्त्रमन्यथा किल्बिषी भवेत् ॥
पुनर्दहनमारभ्य श्राद्धान्तं पैतृमेधिकम् ॥
॥ कनिष्ठेन सोदरेण वा कृते दाहादिकृत्ये-आरब्धे सञ्चयात्पूर्वं परं वा आगतो ज्येष्ठपुत्रः कनिष्टकृतस्य प्रेतकृत्यशेषं कुर्यात् । तत्र सञ्चयात्पूर्वमागतश्चेदुप्तकेशः सञ्चयनमतीतकालोदकपिण्डाश्चैकदा कृत्वा ततस्तात्कालिकपिण्डोदकनवश्राद्धायेकोद्दिष्टान्तं स्वस्वकाले कृत्वा द्वादशाहे सापिण्डनं च कुर्यात् । सञ्चयात्परमागतश्चेदतीतकालोदकपिण्डमात्रमेकदा दत्वा तात्कालिकपिण्डोदकाधेकोद्दिष्टान्तं स्वस्वकाले कृत्वा श्रवणदिनमारभ्य दशाहाशौचमनुष्ठायानन्तरमावृत्ताऽऽद्यमासिकादीन्युक्तकाले कृत्वा त्रिपक्षादौ सापिण्डनं कुर्यान्न द्वादशाहे । तत्र तस्याऽऽशौचसद्भावात् ॥ ॥ अन्येन संस्कारे कृते सञ्चयात्पूर्वमागतः पुत्रः पुनर्दाहादि (अस्थिदाहादि) सर्वं कृत्वा दशाहशेषेण शुध्येत् । कनिष्ठेन कृते दाहे न पुनर्दाहः । सञ्चयादि सर्वं कृत्वा दशाहशेषेणैव शुध्येत् ॥ ॥ अत्र पुनर्दाहे चिताग्निनाशे-तदनुगतप्रायश्चित्तविधिनाग्निमुत्पाद्य पुनर्दहनविधिनास्थ्यादि संस्कृत्य एकादशाहे एकोद्दिष्टं द्वादशाहे सपिण्डीकरणं च कुर्यात् ॥ ॥ सञ्चयनात्परमागतेन पुत्रेण दाहादि न कार्यम् । अतीतपिण्डोदकदाननग्नप्रच्छादनादिकमवशिष्टदिनप्रेतकृत्यं च कार्यम् ॥ ॥ अन्येन कृते दाहे सञ्चयात्पूर्वमागतोऽपि पुत्रव्यतिरिक्तो मुख्यकर्ता पुनर्वाह न कुर्यात् । सञ्चयनोदकायेव कुर्यात् ॥ ॥ सञ्चयात्परं मुख्यकर्तुरागमने, असपिण्डस्य पक्षिण्याशौचिनस्त्रिरात्राशौचिनश्च दाहकर्तुः प्रेतान्नभोजने दशाहमाशौचमुदकदानं च कार्यम् । सञ्चयात्पूर्वं मुख्यकर्तुरागमनेऽसपिण्डस्योदकदानमाशौचं च नास्ति ॥ ॥ दशाहमध्ये दर्शसंक्रान्तिसंभवे-वैद्यनाथीये-
दशाहमध्ये संक्रान्तिदर्शो वाथ भवेद्यदि ।
तोयं पिण्डं समाप्येत तद्दिने चौरसेतरैः ॥
पुत्रव्यतिरिक्तः संस्कर्ता संक्रान्तौ दर्शे वा दशमदिनान्तं दीयमानं तिलोदकं पिण्डं नवश्राद्धं च समापयेत् ।
प्रभूतबलिं पाषाणोत्थापनं शान्तिहोमं च दशमेऽहन्येव कुर्यादित्युक्तम् ॥
॥ शाखासंस्कारोत्तरं शवलाभे – शाखासंस्कारावशिष्टकाष्टैस्तं दहेत् । तादृशकाष्ठालाभे लौकिकाग्निना दग्ध्वा तदस्थीनि महाजले क्षिपेत् । शाखासंस्कारोत्तरमस्थिलाभेऽप्येवमेव ॥