३० गर्भिणीसंस्कारविधिः

(बो. पि. सू. ३.९) गर्भिण्यामन्तर्वत्न्यां म्रियेताऽत ऊर्ध्वं श्मशानं नीत्वा दहनं जोषयेत्॥ तस्य चितामपरेण सव्येन वा प्रेतस्योदरं लिखेत् –‘हिरण्यगर्भस्समवर्तताऽग्रे’ इत्यनुलेखनम् । कुमारं दृष्टमनुमन्त्रयते -

जीवतु मम पुत्रो दीर्घायुत्वाय वर्चसे

इति ॥ अथ कुमारं स्नापयेयुर्हिरण्यमन्तर्धाय जीवता ग्राममायान्ति - ‘यस्ते स्तनश्शशयः’ इति स्तनं प्रदाय तस्मिन्नुदरेऽज्यानीर्जुहोति –‘शतायुधाय शतवीर्याय’ इति पञ्च ।

‌ प्रयासाय स्वाहाऽऽयासाय स्वाहा

इत्यनुवाकेन,

‌ प्राणाय स्वाहा, व्यानाय स्वाहा

इत्यनुवाकेन,

‌ पूष्णे स्वाहा, पूष्णे शरसे स्वाहा

इत्यनुवाकेन च । अथ सूच्याऽव्रणं कुर्यात्, प्रेतं चितामारोप्य विधिना दाहयेत् ॥

अष्टकाधेनुं नीलधेनुं (तिलधेनुं) भूमिधेनुमिति

च दद्यात् ।। प्रसिद्धमेकादश्यामेकोद्दिष्टं कुर्वन्ति ।

प्रयोगः

अथ प्रयोगः॥ पाण्मासादूर्ध्वं गर्भिणीमरणे कर्णमन्त्रजपादि यथोक्ताऽग्निमुत्पाद्य, दक्षिणायनमरणादि यथासंभवं प्रायश्चित्तं कृत्वा

अमुकगोत्रां अमुकदां गर्भिणीं प्रेतां अमुकाऽग्निना पैतृमेधिकविधिना संस्करिष्यामि

इति सङ्कल्प्य परेयुवा ँसमित्यादि स्मशानं नीत्वा चिताकल्पनान्तं कृत्वा तत्पश्चादग्निं निधाय दर्भैरग्निं चिताञ्चाऽपसलैः परिस्तीर्य पात्रासादनादि स्रुक्सम्मार्जनान्ते चितायाः पश्चात्परिश्रिते देशे दक्षिणाशिरसं प्रेतां निधाय नाभेरुपरि वामपार्श्वं जलेन रेखां कृत्वा ‘हिरण्यगर्भः॰ विधेम’ इति क्षुरेण विदार्य जीवितं शिशुमनुमन्त्रयते -

जीवतु मम पुत्रो दीर्घायुत्वाय वर्चसे

इति । अथ तं शिशुं हिरण्यमन्तर्धाय संस्नाप्य गृहमानीय

यस्ते स्तनश्शशयो॰ धातवेकः

इति यस्याः कस्याश्चित्स्तनं पाययित्वा सुरक्षितं कृत्वा पुनश्शवान्तिकमागत्य । (शिशुर्यदिन जीवति तं घृतेनाऽभ्यज्य तत्रैव भूमौ निखनेत् ) अथ शवं मृद्भस्मकुशवारिणा ‘आपो हि ष्ठा’ इत्यादिभिः संस्नाप्य तस्या उदरे स्रुवेणाऽऽज्याहुतीर्जुहोति-

शतायुधाय॰ विश्वा स्वाहा, इन्द्रायेदं॰ ॥१॥ ये चत्वारः सर्वे स्वाहा, देवभ्य इदं॰ ॥२॥ ग्रीष्मो हेमन्तः॰ स्याम स्वाहा, ग्रीष्मादिऋतुभ्य इदं॰ ॥३॥ इदुवत्सरायः अहता स्याम स्वाहा, इदुवत्सरादिभ्य इदं॰ ॥ ४॥ भद्रानः स्योनस्स्वाहा. देवेभ्य इदं॰ ॥५॥ प्रयासाय स्वाहा (यथालिङ्गं त्यागः), आयासाय स्वाहा, वियासाय॰, संयासाय॰ उद्यासाय॰, अवयासाय॰, शुचे॰, शोकाय॰, तप्यत्वै॰, तपते, ब्रह्महत्यायै॰, सर्वस्मै॰ ।। १२॥ प्राणाय॰, व्यानाय॰, अपानाय॰, चक्षुषे॰, श्रोत्राय॰, मनसे॰, वाचे सरस्वत्यै॰, पूष्णे॰, पूष्णे शरसे॰, पूष्णे प्रपथ्याय॰, पूष्णे नरन्धिषाय॰, पूषेऽङ्घृणये॰, पूष्णे नरुणाय॰, पूष्णे साकेतायः ॥१३॥

इति हुत्वा ।

सूच्या सूत्रेण जठरं सन्धाय (अव्रणं कृत्वा )वस्त्रेणाऽऽच्छाद्य प्रेतोदरविदारण दोषनिवृत्त्यर्थं त्रिंशत्कृप्रत्याम्नायहिरण्यदानं अष्टकाधेनुतिलधेनुभूमिधेनुदानञ्च सूतकान्ते करिष्ये,

इति सङ्कल्प्य ( सूतकान्ते I दद्यात् ) प्रेतां चितामारोप्य तूष्णीं सुवर्णेन हस्तसम्मार्जनादि सर्वं पैतृमधिकं कुर्यात् ।।