२९ अस्थिसंस्कारप्रयोगः

अस्थिसंस्कारप्रयोगः॥ देशान्तरमृतस्य दुर्मृतस्य वा प्रत्यक्षशवस्य मन्त्रवत्संस्कारकरणाऽसम्भवे वा तूष्णीं शवं दग्ध्वा तस्य शिरस्तः पञ्च उरस्तः पञ्च जठरतः पञ्च हस्ताभ्यां त्रीणि त्रीणि ऊरुभ्यां त्रीणि त्रीणि पादाभ्यां त्रीणि त्रीणि, अथवा शिरस्त एकमन्येभ्यश्चत्वारि चत्वारि, एवं नव स्थानभ्यस्त्रयस्त्रिंशदस्थीनि अशक्तौ यथासम्भवं वा गृहीत्वा दर्भादिभिर्बध्वा दीर्घवंशे विग्रथ्य अक्षारलवणाशनाविनियमेनाऽऽहृत्य ग्राममर्यादायां निधाय दशदिनाभ्यन्तरे संस्कारं कुर्यात्-

‌ अमुकगोत्रस्य॰ शर्मणः अमुकस्याऽस्थिभिः पुरुषाऽऽकृति करिष्ये

इति सङ्कल्प्य कृच्छ्रं चरित्वा अस्थान्यद्भिः प्रक्षाळ्य कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तत्र दक्षिणाग्रान्दर्भान्सस्तीर्य तेषु त्रयस्त्रिंशदस्थीनि शिरःप्रभृति स्थलेषु (ग्रहणक्रमेण ) निधाय स्पृष्ट्वा जपति -

‌ इन्द्रो दधीची अस्थभिः॰ ववक्षुरुयो अस्तृतः [TODO: परिष्कार्यम्]

इत्यनुवाकम् । तयादेवतं करोति -

तया देवतयाऽङ्गिरस्वध्रुवाऽऽसीद [TODO: परिष्कार्यम्]

इति । सूददोहसं करोति -

ता अस्य सूददोहसः॰ रोचने दिवः [TODO: परिष्कार्यम्]

इति मृतं पुरुषरूपं भावयित्वा मधुना सर्पिषा वाऽभ्यज्य कर्णमन्त्रजपादि सर्वं कुर्यात् । सङ्कल्पे

‌ अमुकगोत्रस्य॰ प्रेतस्याऽस्थिप्रतिकृतिं (तत्तदुक्तेन) अमुकाऽग्निना पैतृमेधिकविधिना संस्करिष्यामि

इति विशेषः । सद्यः सञ्चयनम् ॥ ॥ यदि सङ्ग्रामादौ, अरण्ये व्याघ्रादिना वा मृतस्य केवलं शिर एव लभ्येत तच्छिर आहृत्य ‘सप्तप्राणास्तदाश्रयाः’ इति मधुना सर्पिषा वाऽभ्यज्य कर्णसूक्तादि सर्वं पैतृमेधिकं कुर्यात् ।।

शाखासंस्कारविधिः

(बो. पि. सू. १.१३.५-७ ) अथ यद्यस्थानि न विन्देयुरन्तर्वेदि त्रीणि षष्टिशतान्याहृत्य पर्णत्सरूणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः

इति ॥ अथ यदि दिगेव प्रज्ञायते तां दिशं विहारं कल्पयित्वा । ‘असावेहि’ इति

नामग्राहमाहूय पर्णत्सरूणामेव कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः

इति । अथ यदि दिगेव न प्रज्ञायते इमां दिशं विहार कल्पयित्वा ‘असावेहि’ इति

नामग्राहमाहूय पर्णत्सरूणामेव कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः

इति ।। ( बो. पि. सू. ३.८ ) आहिताऽग्निश्चेत्प्रवसन् म्रियेत पुनस्संस्कारविधिं व्याख्यास्यामः - दर्भान्समान्संस्तीर्य तस्मिन्पलाशवृन्तैः पुरुषविकल्पं करोति चत्वारिंशता शिरः प्रकल्पयते । दशभिर्ग्रिवां विंशत्योरस्त्रिंशतोदरं पञ्चाशतापञ्चाशतैकैकं बाहुं तेषामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादं तेषामेव पञ्चभिः पञ्चभिरगुलीरुपकल्पयते । अष्टाभिश्शिश्नं द्वादशभिर्वृषणमित्येतानि प्रोक्ष्याऽथ भूमौ हिरण्यं निधायाऽरणी निधाय यां दिशं यजमानोऽगच्छत्तां दिशं प्रेक्षमाणो जपति-‘उपावरोह जातवेदः’ इति ॥ विहारं कल्पयित्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्ग्रहीतं गृहीत्वा आहवनीये पूर्णाहुति जुहोति-

सप्त ते अग्ने समिधस्सप्त जिह्वा

इति ॥ “अथ प्रेतसंस्कारमर्हतीत्याह” भगवान्बोधायनः ।।

प्रयोगः

अथ प्रयोगः ॥ देशान्तरमृतस्य दुर्मृतस्य वाऽस्थ्नामलाभे पलाशवृन्तैः (यज्ञियवृक्षसमिद्भिर्दर्भैर्वा) पुरुषाकृतिं कृत्वा संस्कुर्यात्

अमुकगोत्रस्य॰ अमुकस्य पलाशवृन्तैः (यज्ञियसमिद्भिर्दर्भैर्वा) पुरुषाकृतिं करिष्ये

इति संकल्प्य कृच्छ्रं चरित्वा यस्यां दिशि मृतस्तद्दिङ्मुखो दक्षिणामुखो वा प्राचीनावीती–कृष्णाजिने दक्षिणाग्रान्दर्भानास्तीर्य पुरुषाकृतिं कुर्यात् -

चत्वारिंशता शिरः, दशभिर्ग्रिवां, विंशत्योरः, त्रिंशतोदरं, पञ्चचत्वारिंशता दक्षिणं बाहुं, पञ्चभिस्तदङ्गुलीः, पञ्चचत्वारिंशता वामं बाहुं, पञ्चभिस्तदङ्गुलीः, पञ्चषष्ट्या दक्षिणं पादं, पञ्चभिस्तदङ्गुलीः पञ्चषष्ट्या वामं पादं, पञ्चभिस्तदङ्गुलीः, अष्टभिः शिश्नं, द्वादशभिर्वृषणं,

इत्येवं षष्ट्युत्तरस्त्रिशतैस्तूष्णीं देहकॢप्तिं कृत्वा मधुना सर्पिषा वाऽभ्यज्य कुशतरुणकैः प्रच्छाद्य

अमुकगोत्र अमुकशर्मन् अमुकप्रेत अस्यां प्रतिकृतावेहि

इति त्रिवारं प्रेताह्वानं कृत्वा कर्णमन्त्रजपादि यथोक्तमग्निमुत्पाद्य

अमुकगोत्रस्य॰ प्रेतस्य शाखाप्रतिकृतिममुकाऽग्निना पैतृमेधिकविधिना संस्करिष्यामि

इति सङ्कल्प्य सर्वं कुर्यात् ॥ सद्यः सञ्चयनम् ॥ भस्माऽस्थिवत्सञ्चिनुयात्सद्यो मन्त्राञ्जपेत्तु वा ॥