२८ अस्थिसंस्कारः

॥अस्थिसंस्कारः॥ ___ (बो. पि. सू. ३.७ ) आपद्युक्तं प्रेतविधानमेवं शस्त्रविषरज्जुजलाऽचलमारुततरुपाषाणहुताशनाऽनुच्छ्वासादिना मृतानां शरीरसंस्कारं वर्जयेत् ॥ देशान्तरमृते सङ्ग्रामहते व्याघ्रहते वा शरीरमादाय विधिना दाहयेत् ॥ अथ यद्येकाङ्गदर्शने पराङ्गस्य ‘सप्तप्राणास्तदाश्रयाः’ इति मधुना सर्पिषा वाऽभ्यज्य विधिना दाहयेत् । अस्थीन्याहृत्य तैः कृष्णाजिने पुरुषाकृतिं कृत्वा मधुना सर्पिषा वाऽभ्यज्य विधिना दाहयेत् । हस्तकौशलैः पृथिवीशरीरं कृत्वा मधुना सर्पिषा वाऽभ्यज्य विधिना दाहयेत् । यदि तावन्न विन्देत पलाशवृन्तानां त्रीणि षष्टिशतान्याहृत्य तैः कृष्णाजिने पुरुषाकृतिं कृत्वा मधुना सर्पिषा वाऽभ्यज्य विधिना दाहयेत् ॥

‌ (बो. पि. सू. २.६) अथो एतत्परोक्षप्रेतस्य यजमानस्याऽस्थान्याहृत्य संस्कुर्यादिति

“कथमत्राऽहरणं विद्यत” इति ॥

शिरस्तः प्रथमं गृहीत्वाऽथोरस्तोऽथो जठरतोऽथोरुबाहुभ्यामथ पत्त

इति “त्रयस्त्रिंशतमस्थानि गृह्णातीति” ॥ विज्ञायते -‘त्रयस्त्रिंशत्पुरुषः’ इति ॥ अथै तान्यस्थान्यद्भिः प्रक्षाळ्य कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नस्थानि सम्भरति – ‘इन्द्रो दधीचो अस्थभिः’ इत्येतेनानुवाकेन ।। अत्र तयादेवतं करोति –‘तया देवतयाऽङ्गिरस्वद्ध्रुवासीद’ इति ॥ अथ सूददोहसं करोति —

ता अस्य सूददोहसस्मोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः

इति ॥ दीर्घवंशे विग्रथ्याऽक्षारलवणाशिनो मृण्मयभोजना आहरन्ति । तानि ग्राममर्यादायां निधायाऽग्नीनुपनिर्हत्य पैतृमेधिकं कर्म प्रतिपद्यते ॥ नाऽसति यजमाने ग्राममर्यादामतिहरेयुः॥ यद्यतिहरेयुरग्नयो लौकिकाः सम्पद्येरन् । विज्ञायते–

प्रवसत्यवसति यजमानोऽग्निभ्यः परिदाय गृहानेति तस्माद्ग्राममर्यादां नाति व्रजन्ति

इति ।। ( बो. पि. सू. १. १३. ४)अथ यदि दग्धस्स्यादस्थान्याहृत्याऽन्तर्वेदि शरीराणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुरिति ।।