२७ मारीमसूरिकादिमरणे

॥ मारीमसूरिकादिमरणे ॥ स्मृतिसङ्ग्रहे -

मारीमासूरिकाद्यैर्यदि भवति मृतिर्नैव दाहस्तदानीं न्यस्यद्देहं यथावद्दृढतरविमले तैलपूर्णे कटाहे । यावत्तद्व्याधिनाशस्तदुपरि दहनाद्युक्तकार्यं विदध्यान्नो शक्तौ गृहयेत्तं शुचि भुवि सलिले निक्षिपेत्तन्न शक्तौ ॥ प्रागग्निपक्षााद्युगपक्षतो वा तदप्यशक्तौ निखनेद्धरायाम् ।
जलेऽप्यगाधे परिनिक्षिपेद्वा जीर्णे शरीरे गुणपक्षके तु ।।
पूर्वं त्रिपक्षादुभयोः स्वपित्रोः पुनर्विधौ देवसुरारिगुर्वोः ।
न मूढदोषोऽस्ति न चाधिमासस्तेषां परेषामुदितोऽस्ति दोषः ॥
अस्थ्ना पलाशवृन्तैर्वा दग्ध्वा तेन शरीरिणम् ।
मातापित्रोदशाहं स्यादन्येषान्तु त्रिरात्रकम् ॥
मृतं कर्तुः प्रमादेन संस्कारं न करोति यः ॥
दशाहाच्छुध्यते ज्ञातिः प्रारम्भे त्रिदिन पुनः ॥
पिता पितामहो भ्राता पितृव्यस्तत्सुतः स्त्रियः ।
यावन्न संस्कृतिस्तेषामाशौचं तावदिष्यते ॥
प्रेते यन्मन्त्रहीने मृतदहनविधौ तन्मृताहादिशावं सापिण्डानां दशाहं पुनरपि च विधौ स्यात्रिरात्रञ्च तेषाम् ॥ एकोद्दिष्टन्न यावत्सुतसुततनयभ्रातृपुत्राङ्गनाद्यास्तावच्छद्धाश्च न स्युः पितृविधिविषये देवकार्य न कुर्युः ॥ पिता पितामहो भ्राता पितृव्यस्तत्सुतः सुतः ।
पौत्राश्च भ्रातृपुत्राश्च तेषां पत्न्यस्तथैव च ॥
एते स्वकीया विज्ञेयाः परकीयास्तथाऽपरे ॥

मारीमसूरिकादि साङ्क्रामिकरोगादिना मरणे - तदानीं शवं तैलपूर्णे कटाहे विन्यसेत् । अशक्तश्चेत् - शुद्धभूमौ तूष्णीं निखनेत्, अपि वाऽगाधे जले निक्षिपेत् ॥ ततः सार्धमासं मासद्वयं वा हित्वा रोगशान्त्यनन्तरं शवमुद्धृत्य दहनादि कार्यम् ॥ तैलकटाहे निहितञ्चेत् – शवमुद्धृत्य पञ्चगव्येन संस्नाप्य तूष्णीं दग्ध्वाऽस्थीनि सङ्गृह्य, यथाशक्ति कृच्छ्रं चरित्वा अस्थिसंस्कार विधिना पैतृमेधिकं कुर्यात् ॥ निखननं कृतञ्चेत् - पूर्वोक्तकालानन्तरं अस्थीन्युद्धृत्य शाखासंस्कारविधिना कर्म कुर्यात् ॥ जले विसृष्टे पूर्वोक्तकालानन्तरं शाखासंस्कारं कुर्यात् । मातापित्रोः संस्कारविषये –गुरु-शुक्रमौढ्य-मलमासादि दोषो नाऽस्ति ॥ इतरेषान्तु –दिनादि संशोध्य संस्कारः कार्यः ॥ मरणकाले सपिण्डानां दशरात्रं संस्कारकाले त्रिरात्रञ्चाशौचम् ॥