॥ षोडश मासिकश्राद्धानि ॥
तेषां कालाः प्रोक्ता वैद्यनाथीये-
एकादशेऽह्नि मास्यूने आद्ये षष्ठे तथाऽन्तिमे ।
प्रतिमासं मृतेऽह्न्यब्दं स्युस्त्रिपक्षे च षोडश ॥
मरणादेकादशेऽहनि १, आद्ये मास्यूने २, षष्ठे मास्यूने ३, अन्तिमे द्वादशे मास्यूने ४, प्रतिमासं (द्वितीयादि ) मासे मासे मरणदिने ११, त्रिपक्षे (तृतीयपक्षे) १॥ अब्दं (संवत्सरपूर्तिपर्यन्तम् ) एवं षोडश मासिकश्राद्धानि स्युः ।
अर्थात्-आद्यमासिकं ऊनमासिकं, द्वितीयमासिकं, त्रैपक्षिकमा॰, तृतीयमा॰, चतुर्थमा॰, पश्चममा॰, षष्ठमा॰, ऊनषाण्मासिकं, सप्तममा॰, अष्टममा॰ नवममा॰, दशममा॰, एकादशमा॰, द्वादशमा॰, ऊनाब्दिकं
चेति “षोडश” स्युरित्यर्थः । अथाऽऽशौचाद्यन्तरितमासिककालः वैद्यनाथीयोक्तः -
आपदाद्यकृतं यत्तत्कुर्यादूर्ध्वमृताऽहतः
इति । आदिशब्देनाऽऽशौचोपसङ्ग्रहः ।
आपदादिना अकृतं मासिकमूर्ध्वमृताहतः, उत्तरमासमृतदिने कुर्यादित्यर्थः ।
उत्तरमासमृतदिने विधानादूनमासिकदिने न कार्यमिति
पर्यवस्यति ।
अन्तरित मासिकमुत्तरमासमृततिथौ तन्त्रतः कुर्यान्न पृथक्पाकहोमादि, पिण्डदानन्तु पृथगेवेत्युक्तं
भवति ।
आशौचाधन्तरितान्यूनमासिकानि परमासे दर्शादौ कार्याणीति
केचिदाहुः । अपरे तु
ऊनानां नापकर्षः स्यात्पुनरप्यपकर्षणे उत्कर्षश्चाऽपि न भवेत् ।
उत्कर्षो नाऽस्ति किन्तु लोप एवेत्याहुः ।
अन्ये तु “ऊनान्यूनेषु कुर्वीत"
द्वित्रिदिनैरूनेषु दिवसेषु पृथगेव कुर्यान्न मासान्तरे योजयेदित्यप्याहुः ।
पितृमेधसारे-
द्विपुष्करेषु नन्दासु दर्श भार्गववासरे ।
चतुर्दश्याञ्च नो तानि कृत्तिकासु त्रिपुष्करे
इति वर्ज्यविशेषः प्रोक्तः ॥ स्मृत्यन्तरे-
अलब्धाऽऽत्मीयसूत्रस्य श्राद्धान्तं परसूत्रतः ।
कुर्यात्सपिण्डीकरणं स्वसूत्रेणैव नान्यतः
इति ॥ यदा संवत्सरादर्वाक्सापिण्ड्यं कर्तुमिष्यते । आवर्तनं षोडशानां तदा कर्तव्यमेव हि ॥