॥ श्रवणभोजनादिकृत्यम् ॥ द्वादशेऽहनि- आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अमुकगोत्रस्य॰ शर्मणः पितुर्जन्मप्रभृतिमरणपर्यन्तमाचरितस्य सुकृतस्य धर्मराजाग्रे कथयितॄणां श्रवणानां प्रीत्यर्थं महाविष्णुप्रीत्यर्थञ्च अन्नदानं करिष्ये
इति सङ्कल्प्य त्रयोदशसङ्ख्याकान्ब्राह्मणान्सम्पूज्य यथाविभवं भोजयित्वा तेभ्य उदकुम्भवस्त्रदक्षिणाऽऽदि दत्वाऽऽशिषो गृह्णीयात् ॥ ॥ अद्यप्रभृति वैश्वदेवब्रह्मयज्ञनित्यतर्पणादि कुर्वीत ॥ पैतृमेधिककर्मान्ते आचार्येण कर्तुर्नववस्त्रप्रदानमङ्गलार्तिक्याऽऽशीर्वादाऽभिनन्दनं, कर्ता आचार्याय वस्त्रफलताम्बूलपैतृमेधिकदक्षिणादिभिरभ्यर्हणं कार्यम् ॥ ततः सर्वाऽमङ्गलनिरसनद्वारा समस्तमङ्गलाऽवाप्यर्थं उदकशान्तिः कार्या ॥ चतुर्दशेऽह्नि वैकुण्ठसमाराधनं, तत्तत्काले ऊनमासिकादि ऊनाऽऽब्दिकपर्यन्तं तानि तानि मासिकानि वत्सरस्याऽन्तिमे दिने ( वर्षान्तश्राद्धं ) अब्दपूर्तिश्राद्धञ्च1 कुर्यात् ॥ मृततिथौ वार्षिकश्राद्धं कार्यम् ॥
-
‘तत्र प्रथमेऽब्दे वर्षान्तसापिण्डनपक्षे मृताहात्पूर्वेऽह्नि सपिण्डनं अब्दपूर्तिश्राद्धञ्च कृत्वा परेद्युर्वार्षिकश्राद्धञ्च कुर्यात्’ इति स्मृत्यर्थसारे ॥ ↩︎