२४ पाथेयश्राद्धप्रयोगः

पाथेयभाद्धप्रयोगः ॥ सपिण्डीकरणान्ते तैलाभ्यङ्गपूर्वकं तिलामलकादिना स्नात्वा ‘प्रजापतिः प्रीयताम्’ इति पुण्याहं वाचयेत् ॥ द्वादशेऽह्नि त्रयोदशेऽह्नि वा देशकालौ सङ्कीर्त्य,

अस्मत्पितुः॰ गोत्रस्य शर्मणः प्रेतलोकात्पितृलोकगमने पथि समस्तसुखसम्पत्यर्थं अस्मपितृपितामहपितामहानां॰ रूपाणां पाथेयश्राद्धं सदैवं सपिण्डं पार्वणविधिना करिष्ये,

इति सङ्कल्प्य क्षणपाद्यासनादिसर्वं पार्वणवत् ॥ अपि वा ‘पाथेयश्राद्धं आमेन करिष्ये’ इति सङ्कल्प्य, ब्राह्मणान्सम्पूज्य स्थाल्यादिकं भोजनचतुर्गुणपरिमिताऽऽमेन प्रपूर्य गायत्र्या प्रोक्ष्य

अस्मत्पितुः॰ गोत्रस्यः शर्मणः प्रेतलोकात्पितृलोकगमने पथि क्षुण्णिवृत्या समस्त सुखसम्पत्यर्थं इदमामान्नदानं सोपस्करं दक्षिणासहितं सम्प्रददे, न मम

इति दद्यात् ॥ केचित्तु पाथेयश्राद्धे-प्रथमदिनप्रभृतिधृतोत्तरीयवस्त्रदानं च कुर्वन्ति ॥