२३ मातुः सपिण्डीकरणप्रयोगः

मातुः सपिण्डीकरणप्रयोगः ॥ सङ्कल्पे-अमुकगोत्रायाः अमुकदायाः मातुः प्रेतायाः प्रेतत्वविमुक्त्या वस्वादिपितृत्वप्राप्त्यर्थं अस्मत्पितामहीप्रपितामहीवृद्धप्रपितामहीभिः सह समानोदकसपिण्डतासिध्यर्थञ्च सपिण्डीकरणश्राद्धं सदैवं सानौकरणमन्नेन हविषेत्यादि ब्रूयात् ॥ पिण्डषट्क ( चतुर्विंशतिपिण्ड) पक्षे पित्रादीनेव वृणुयात् । जीवत्पितृकश्चेत्पितामहादीनेव वृणुयात् । तेषामेवाऽऽवाहनाऽर्घ्यग्रहणहोमभोजनानि कुर्यात्। पिण्डत्रयपक्षे पितामह्यादीनेव वृणुयात्, तासामेवाऽऽवाहनादिकं कुर्यात् ।

अमुकप्रेतायै॰ गोत्रायै ते गृह्णामि

इत्याद्येकोद्दिष्टवत्प्रेतार्घ्यकल्पनम् । अर्घ्यसंयोजनं पित्रादिवरणे पित्राद्यर्घ्ये॒षु, प्रेतपिण्डसंयोजनन्तु पितामह्यादिपिण्डेषु कुर्यात् । पितामह्यादिवरणे प्रेताया अर्ध्यं पिण्डश्च पितामह्यादीनामेवार्घ्येषु पिण्डेषु च संसृजेत् ।

अमुकगोत्रे अमुकदे मम मातस्तव श्वश्वादिभिः सहैतत्ते तिलोदकम्

इति तिलोदकदानम् ॥ अन्यत्सर्वं पूर्ववत् ॥