॥सपिण्डीकरणविधिः॥ (बो. पि. सू. २.११ ) ·
संवत्सरे सपिण्डीकरणं साग्नौकरणम्
इति तत्पुरस्ताद्व्याख्यातमेतावदेव नाना ॥ द्वे स्थण्डिले करोति दक्षिणतश्चोत्तरतश्च दक्षिणतो मासिश्राद्धवदुत्तरत एकोद्दिष्टवत् । दक्षिणतोऽथ देवयजनोल्लेखनप्रभृत्याऽऽप्रणीताभ्यः कृत्वा । विश्वेभ्यो देवेभ्यो ब्राह्मणावुपवेश्य गन्धपुष्पधूपदीपैरभ्यर्च्य वैश्वदेवेन चरुणाऽनुदिश्य ‘विश्वभ्यो देवेभ्यः स्वाहा’ इत्यथ प्राचीनावतिं कृत्वा पूर्ववत्तिलोदकं संयुज्याऽथोत्तरत उल्लेखनप्रभृत्याऽऽपरिषेचनात्कृत्वा पवित्रं कृत्वा तिलोदकपात्रे निधायाऽप आनयन्नाह –
आम आगच्छतु प्रेतो देवयानान्समुद्रान्सलिलान्सवर्णान् । अस्मिन्यज्ञे सर्वकामं लभतेऽक्षीयमाणमुपदुह्यतामिमां प्रेताय वो गृह्णामि
इति पुंसाम् ।
प्रेता देवयानान्॰ प्रेतायै वो गृह्णामि
इति स्त्रीणाम् ।। अपोधृत्य पवित्रं तिलानावपति–
तिलोऽसि सोम देवत्यो गोसवो देवनिर्मितः । प्रत्नवद्भिः प्रत्नस्वधयेहि प्रेतमिमान्लोकान्त्रीणयाहि नः स्वधा नमः
इति पुंसाम् । ‘प्रेताम्’ इति स्त्रीणाम् । स्वधाशब्दो नमस्कारशब्दो नमस्काराभिधेयत्वात् ॥ मध्वानयनप्रभृति समानमा प्रेतावाहनात् ॥ दक्षिणस्य पितॄणामावाहनप्रभृति तिलोदकदानान्तं कृत्वाऽथोत्तरस्य ‘अमुष्मै स्वधा नमः’ इति तथाऽलङ्कृत्य ददाति । ‘अग्नौ करिष्यामि’ इति ‘कुरुष्व’ इतीतरे प्रत्याहुः॥ अथाभ्यनुज्ञातः परिधानप्रभृत्याऽन्नाभिमर्शनात्कृत्वाऽथोत्तरस्य परिषेकं कृत्वा व्याहृतीभिर्हुत्वा दर्व्यामुपस्तीर्य सर्वस्मात्सकृत्सकृदवदायाऽभिघार्य दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात् –
प्रेतायामुष्मै यमाय च स्वधा नमस्स्वाहा, अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा
इति दक्षिणार्धपूर्वार्धे ॥ अथौदनं पात्रेषूद्धृत्य दर्भेषु सादयित्वा दर्भैः प्रच्छायाभिमृशति-
पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य त्वा विद्यावतः प्राणापानयोर्जुहोम्याक्षतमसि मा प्रेतस्य क्षेष्ठा अमुत्राऽमुष्मिन् लोके
इत्यभिमृश्य निधायाऽथ दक्षिणस्य ब्राह्मणानामङ्गुष्ठेनाऽनखेनाऽनुदिशति –
अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः
इति ॥ अथोत्तरस्य तन्मन्त्रेणानुमन्त्रणं परिषेचनादि तत्राऽभिश्रावणान्तं कृत्वा तृप्तानप आचमय्याऽऽशयेष्वन्नशेषान्सम्प्रकीर्य संक्षाळनेनाऽवकीर्य दक्षिणां दत्वाऽक्षय्यं वाचयित्वा यज्ञोपवीत्यभिवादनं कृत्वाऽथोत्तरस्याऽऽशयेषूपलिप्य दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान्संस्तीर्य तेष्वन्नशेषैः पिण्डं ददाति - ‘अमुष्मा उपतिष्ठतु’ इति सङ्क्षाळनेनाऽपसव्यं ‘तृप्यस्व’ इति परिषिच्य दक्षिणां दत्वाऽक्षय्यं वाचयित्वाऽभिवाद्य स्वधां वाचयित्वोत्थाप्य प्रसाद्य संसाध प्रदक्षिणीकृत्य शेषमनुज्ञाप्यतेनैव यथेतमेत्याऽथोत्तरे व्याहृतीर्तुत्वा दर्भान्प्रहृत्य परिषिच्य दक्षिणे चतुर्विंशतिपिण्डान्दत्वा प्रेतपात्रं पितृपात्रेषु निनयेत् - मधुमताभिः, ‘सङ्गच्छध्वम्’ इति द्वाभ्याम् । प्रेतपिण्डं पितृपिण्डेषु निदध्यात् -
समानो मन्त्रस्समितिः, समानीव आकूतिः
इति द्वाभ्याम् ॥ अथैनानुपतिष्ठते -
ये समानाः, ये सजाताः
इति द्वाभ्याम् ॥ संक्षाळनप्रभृति सिद्धमत ऊर्ध्वम् ॥
(बो. पि. सू. २.१२ ) संवत्सरे सपिण्डीकरणमेकादशे मासि षष्ठे चतुर्थे द्वादशेऽह्नि वा ॥ पितॄणामावाहनं सव्यस्य पाणेरङ्गुष्ठोपकनिष्ठिकया चाऽङ्गुल्या चाऽऽरभ्य पृथिवीं जपेत् ।
“ये पार्थिवासः पितरो ये अन्तरिक्ष ये दिवि ये वा मृता बभूवुः । ते अस्मिन्यज्ञे समवयन्ताम्
इति । चत्वारि पात्राणि तिलमिश्रगन्धोदकेन पूरयित्वा एकं प्रेतस्य त्रीणि पितॄणामेकमथवाऽथ प्रेतपात्रं पितृपात्रेषु निनयेत् - मधुमतीभिः, ‘सङ्गच्छध्वम्’ इति द्वाभ्याम् । प्रेतपिण्डं पितृपिण्डेषु निदध्यात् –
समानो मन्त्रः, समानीव आकूतिः
इति द्वाभ्याम् ॥ अथैनानुपतिष्ठते -
ये समानाः, ये सजाताः
इति द्वाभ्याम् ॥ पिण्डानुपस्थायैकं वा पितृपात्रं
असौ पितृभिः पितामहैः प्रपितामहैस्सहैतत्ते तिलोदकम्
इति तिलोदकप्रदानं नेह संप्रकिरणमनप्रदाने यथार्थमूहेदास्वादनेष्वाशयेष्वेव ॥ सपिण्डो व्याख्यातः॥
तत्स्वरूपमुक्तं वैद्यनाथीये -
कामकालौ वैश्वदेवौ निर्दिष्टौ तु सपिण्डने ।
पितामहादीन्निर्दिश्य पितुरुच्चारणं ततः॥
प्रेतभावविनिर्मोकद्वारा प्रेतस्य वै पितुः ।
पितामहादिभिः सार्धं सापिण्ड्यस्य प्रसिद्धये ॥
समानोदकभावस्य सिध्यर्यञ्च पितुः सुतः
इत्यादिना प्रेतपिण्डस्य तत्पित्रादिपिण्डत्रये, प्रेतस्त्रीपिण्डस्य तच्छ्वश्र्वादिपिण्डत्रये च सम्मेलनं, तथैवाऽर्योदकसम्मेलनञ्चेति सामान्यतः सपिण्डीकरणस्य स्वरूपमिति बोध्यते । व्युत्क्रममृतौ तु तत्रैव –
मृते पितरि यस्याऽथ विद्यते च पितामहः ।
तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकम् ॥
तेभ्यश्च पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत् ।
व्युत्क्रमाच्च मृते देयो येभ्य एव ददात्यसौ ॥
असौ व्युत्क्रममृतो जीवद्दशायां येभ्यो ददाति तेभ्य इत्यर्थः। तथा च प्रेतस्य पितरि जीवति तत्पितामहादित्रिषु पिण्डेषु सम्मेलनम्, प्रेतायाः श्वश्र्वां जीवन्त्यां तत्प्रश्वश्र्वादित्रिषु पिण्डेषु सम्मेलनमित्यपि बोधितम् ।। सपिण्डीकरणकालोऽपि तत्रैव प्रोक्तः
एकादशाहमारभ्य यावदाषोडशाद्दिनात् ।
सपिण्डीकरणं कुर्यात्ततः सप्तदशेऽह्नि वा ।
एकादशे द्वादशेऽह्नि त्रयोदशदिनेऽपि वा ।
त्रिपक्षे वा त्रिमासे वा षष्ठे वैकादशेऽपि वा ॥
वत्सरान्तेऽपि वा कुर्यात् त्रयोविंशदिनेऽपि वा ।
वृद्धिपूर्वदिने वेति दश कालाः सपिण्डने
इति ॥
एतेन एकादशाहादिसप्तदशाहपर्यन्तसप्तदिनेषु त्रयोविंशदिने च त्रिपक्षे तृतीयषष्ठैकादशमासेषु वत्सरान्त्यदिने वृद्धिपूर्वदिने चेति चतुर्दश कालाः सपिण्डीकरणे
इति पर्यवस्यति ॥ नक्षत्रविशेष उक्तः । स्मृत्यन्तरे-
सपिण्डीकरणे त्रीणि ऋक्षाण्याहुर्मनीषिणः ।
प्राजापत्यं तथा रौद्रं नक्षत्रं त्विंद्रदैवतम् ॥
गालवः-
सपिण्डीकरणश्राद्धमुक्तकाले न चेत्कृतम् ।
रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत् ।
अथाऽग्निनिर्णयोऽपि तत्रैवोक्तः -
औपासनाऽग्नौ कर्तव्यं मातापित्रोर्गुरोरपि ।
अन्येषां लौकिकाग्नौ तु विधुरस्य च लौकिके
इत्यादिना
मातापित्रोः सपत्नीमातुर्मातामहमातामह्योर्मातुलस्याऽपुत्रस्य ज्येष्ठभ्रातुः पितृव्य स्याचार्यस्य च स्वौपासनाऽग्नावन्येषां विधुरस्य च लौकिकाऽग्नौ सपिण्डीकरणं कुर्यात्
इति ॥ ॥ कर्तृविशेषश्चाक्तस्तत्रैव
ज्येष्ठपुत्रस्य सद्भावे कनिष्ठः कुरुते क्रियाम् ।
प्रेतत्वान्न विमुच्येत पितृत्वञ्च न गच्छति ॥
ज्येष्ठपुत्रोऽग्निमान्न स्यात्कनिष्ठस्त्वग्नि मान्यदि ।
कनिष्ठ एव कुर्वीत सपिण्डीकरणं पितुः ॥ ज्यायस्य नग्नावन्यस्तु साग्निः पित्रोः सपिण्डनम् ।
कुर्यात् त्यक्त्वा प्रेतशब्द सत्यग्नावग्रजः पुनः ॥
पितृशब्देन कर्तव्यं प्रेतशब्दं विहाय च ।
अर्घ्यसंयोजनं नाऽस्ति पिण्डसंयोजनं तथा
इति ॥ अत्र अग्निशब्दः श्रौताऽग्निस्मार्ताग्न्युभयसाधारणः । तेन सपत्नीकस्य साग्निकत्वाज्ज्येष्ठकनिष्ठयोर्द्वयोरपि साग्निकत्वे ज्येष्ठस्याऽसन्निधानेन (सपिण्डनकालेऽभार्यत्वेन वा कनिष्ठकृतसपिण्डीकरणं )
पुनः समागतो विवाहितो वा ज्येष्ठ उक्तपार्वणविधिना पुनः कुर्यादित्यर्थः ॥
द्वादशाहे पत्न्यां रजस्वलायामौपासने विद्यमाने तामनादृत्य 1 सपिण्डीकरणं कुर्यात् । अग्निविच्छेदे तु एकोद्दिष्टान्तं स्वकाले कृत्वा पञ्चमदिनादावुक्तकालेऽग्निं सन्धाय सापिण्ड्यं कुर्यात् । किञ्चाऽपुत्रस्य प्रेतस्याऽपुत्रप्रेताया वा सपिण्डीकरणे सन्निहितसपिण्ड एव मुख्यकर्ता भवति । मरणकाले तस्याऽसन्निधानेऽन्येनैकोद्दिष्टान्तमेव कर्तव्यम् । सपिण्डीकरणन्तु मुख्यकर्ता स्वेनैव करणीयम् ॥
प्रयोगः
अथ प्रयोगः ॥ द्वादशेऽहनि नित्यकर्म निर्वर्त्य नद्यादौ स्नात्वा शुचौ देशे दर्भेष्वासीनः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यादौ शरीरशुध्यर्थं स्नानपवनमन्त्राचमनमन्त्रप्रोक्षणानि कृत्वा, कलशार्चनं ब्रह्मदण्डञ्च विधाय, पुनः प्राणानायम्य देशकालौ सङ्कीर्त्य, (प्राचीनावीती ) अमुकगोत्रस्य॰ पितुः प्रेतत्वविमुक्त्या वस्वादिपितृत्वप्राप्त्यर्थं अस्मत्पितामहप्रपितामहवृद्धप्रपितामहैरमुकगोत्रैरमुकशर्मभिर्वसुरुद्रादित्यरूपैः सह ( अन्येषाश्चेत् - तत्पित्रादिभिः त्रिभिः । स्त्रीणां मातुश्चेत् अस्मत्पितामहीप्रपितामहीवृद्धप्रपितामहीभिः गोत्राभिः॰ दाभिर्वसु॰ रूपाभिः । अन्यासाञ्चेत् – तच्छ्वश्रूप्रभृतिभिस्तिसृभिः )
समानोदकत्वसपिण्डतासिध्यर्थञ्चाऽद्य मृताहाद्वादशेऽहनि सपिण्डीकरणश्राद्धं सदैवं साग्नौकरणमन्नेन हविषा पार्वणकोद्दिष्ट विधानेनाऽहमद्य करिष्ये
इति सङ्कल्प्य, (उपवीती) विश्वदेवार्थं द्वौ, पार्वणार्थं त्रीन्, एकोद्दिष्टार्थमेकं, एवं षट् ( अशक्तौ– सर्वत्रैकैकमिति त्रीन् )
ब्राह्मणान्पूर्वेद्युरेव निमन्त्रितान्तेषामलाभे दर्भबटून् सदर्भक्लृप्तेष्वासनेषु देवौ प्राङ्मुखौ पितृनुदङ्मुखान्प्रेतं प्रत्यङ्मुखमिति क्रमेणोपवेश्य स्वागतप्रश्नक्षणग्रहणादिपादप्रक्षाळनान्तं कृत्वा पार्वणार्थं दक्षिणतः एकोद्दिष्टार्थमुत्तरतः
इति द्वे स्थण्डिले करोति ।
अथ दक्षिणतो मासिश्राद्धवद्देवयजनोल्लेखनप्रभृत्यौपासनाऽग्निं प्रतिष्ठाप्य सपिण्डीकरणश्राद्धाङ्गमग्नौकरणहोमं करिष्ये,अग्नौकरणहोमः कर्म, आधारमापूर्विकं वा तन्त्रं, पञ्चदश चतस्रो वा सामिधेन्यः, अग्नीषोमावाज्यभागौ, हव्यवाहनो नामाऽग्निः, कामकालसंज्ञकविश्वेदेवा देवता, चरुर्हविः, प्राचीनावीती-कव्यवाहनो नामाऽग्निः, प्रेतस्य पितृपितामहप्रपितामहा देवताः, चर्वपूपाज्यानि हवी ँषि, उपवीती-आग्निः कन्यवाहनः स्विष्टकृत्,
इत्याद्यन्वाधाय दक्षिणाग्रप्रागग्रैर्दर्भैः परिस्तीर्य उत्तरतो दर्भेष्वाज्यस्थालीमौदुम्बरं स्रुवमौदुम्बरीं दर्वीं, प्रोक्षणीं चरुस्थाल्यौ, मेक्षणे, यवागूपात्रमपूपपात्रं, चतस्रः समिधो, दर्भमुष्टिश्च, दक्षिणतो दर्भेषु-यवोदकपात्रं स्वधापात्रं (अर्घ्यार्थं दैवे द्वे, पित्र्याणि त्रीणि, उभयत्र एकैकं वा) अञ्जनाभ्यञ्जने, दशासूत्रं, सकृदाच्छिन्नं बर्हिमुष्टिमित्यकैकशः सादयित्वा, पवित्रकरणादि प्रोक्षणीः संस्कृत्योत्तरतः सादितपात्राणि त्रिः प्रोक्ष्य, दक्षिणतः सादितानि सकृत्प्रोक्ष्य, चरुनिर्वापे–
देवस्य त्वा॰ कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि
इति चरुं विश्वेभ्यो देवेभ्यो निरुप्य, प्राचीनावीतेन “पितृभ्यो जुष्टं निर्वपामि" इति पात्रान्तरे यवागूमपूपश्च सकृन्निरुप्य,
विश्वेभ्यो॰ वो जुष्टं प्रोक्षामि
इति त्रिवारं,
पितृभ्यो वो जुष्टं प्रोक्षामि
इति सकृत्प्रोक्ष्य, आज्यनिर्वापादि प्रतिष्ठिताभिधारणान्तं कुर्यात् । अथाऽर्घ्यार्थं दक्षिणतः सादितं यवोदकपात्रद्वयमेकं वोत्तानं कृत्वा तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य प्रागग्रे पवित्रे निधाय
शन्नो देवीरभिष्टये॰ स्रवन्तु नः ॥ कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो वो गृह्णामि
इत्यप आनीयाऽपोद्धृत्य पवित्रं यवानावपति-
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम्
इति ॥ तिरः पवित्रं
शुक्रमसि ज्योतिरसि तेजोऽसि देवो वः सवितोत्पुनात्वच्छिंद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः [[TODO: परिष्कार्यम्]]
इत्याज्यम् । “हिरण्यगर्भः॰ विधेम" इति हिरण्यम् । ‘गन्धद्वारां॰ श्रियम्" इति गन्धम्। “काण्डात्काण्डात्॰ शतेन च” इति दूर्वाश्च क्रमेण निक्षिप्य । दर्भेः प्रच्छाद्य ‘अर्घ्यपात्रं सम्पन्नम्’ इत्युक्त्वा ‘सुसम्पन्नम्’ इत्युक्ते, स्वधापात्रत्रयमेकं वोत्तानं कृत्वा प्रोक्ष्य, दक्षिणाग्रं पवित्रं निधाय, प्राचीनावीती अप आनयन्नाह
–आम आगच्छन्तु पितामहप्रपितामहवृद्धप्रपितामहा देवयानान्त्समुद्रान्सतिलान्सवर्णान् । अस्मिन्यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्ताम् ॥ इमाः पितामहप्र॰2 वृद्धप्र॰महेभ्यो वो गृह्णामि
इति। अपोऽद्धृत्य पवित्रं तिलानावपति
तिलोऽसि॰ स्वधयेहीमान्पितामहप्र॰वृ॰महान्त्रीणयाहि नः स्वधा नमः
इति । तिरः पवित्रं मध्वानयति–
मधुवाता॰ भवन्तु नः"
इति तिसृभिः प्रतिमन्त्रम् । सर्वाभिरङ्गुलीभिः समुदायुत्याऽभिमृशति–
सोमस्य॰ दिद्योन्मा पाहि
इति । तस्मिन्यत्किञ्चिदापतितं । स्यात्तदङ्गुष्ठेन महानाम्न्या चोपसङ्गृह्य नैर्ऋत्यां दिशि निरस्यति-
अवेष्टा दन्दशूका निरस्तं नमुचे शिरः [TODO: परिष्कार्यम्]
इति । अप उपस्पृश्य पुनरेवाऽभिमृशति-
शन्नो देवी॰ स्रवन्तु नः
इति। “हिरण्यगर्भः॰ विधेम” इति हिरण्यक्षेपणादि दर्भप्रच्छादनान्तं देवपात्रवत्कृत्वा ‘अर्घ्यपात्रं सम्पन्नम्’ इत्युक्त्वाऽथ प्रेतार्थमुत्तरत एकोद्दिष्टवत् स्थण्डिलोल्लेखनादि लौकिकाऽग्निं प्रतिष्ठाप्य, प्रतिष्ठिताऽभिधारणान्तं कृत्वा तिलोदकपात्रे
आम आगच्छतु प्रेतो॰ लभतेऽक्षीयमाणमुपदुह्यताम् , इमाः अमुकताय वो गृह्णामि
इति तिरः पवित्रमप आनीयापोऽध्दृत्य पवित्रं तिलानावपति–
तिलोऽसि॰प्रत्नस्वधयेहि प्रेतमिमान् लोकान् प्रीणयाहि नः स्वधा नमः
इति । तिरः पवित्रं मध्वानयतीत्यादि पुनरभिमर्शनान्तं कुर्यात् ॥ अथ भोजनस्थानेष्वासनेषु च ससिकततिलान्विकिरति-
अपहता॰ यत्रैषां गतं मनः
इति (‘यत्राऽऽसां गतं मनः’ इति स्त्रीणाम्) । प्रेतस्थाने – ‘यत्रास्य गतं मनः’ (‘यत्रास्याः’ इति स्त्रियाः) अद्भिरवेक्षति-
उदीरतामवर उत्परासः॰ हवेषु’ (स्त्रीणां- ‘मातरो हवेषु’ इति)। प्रेतस्थाने-
उदीर्तामवर उत्पर उन्मध्यमः प्रेतः सोम्यः । असुं य इयायाऽवृक ऋतज्ञः स नोऽवतु प्रेतो हवेषु
इति ।
(स्त्रियाश्चेत्
उदीर्तामवरोत्परोन्मध्यमा प्रेता सोम्या । असुं ये यायाऽवृकर्तज्ञा सा नोऽवतु प्रेता हवेषु
इति )। गायत्र्या पाकादीन्प्रोक्ष्य
श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तये
इति विज्ञाप्य ‘आवाहयिष्ये’ इति पृष्ट्वा ‘आवाह्य’ इत्यनुज्ञातः-
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये ह्यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥
विश्वेदेवास आगत शृणुताम इमँ हवम् । एदं बर्हिर्निषीदत ॥ विश्वेदेवाः शृणुतेमँहवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्याऽस्मिन्बर्हिषि मादयध्वम् ॥ [TODO: परिष्कार्यम्]
कामकालसंज्ञकान्विश्वान्देवानावायमि
इति यवाक्षतैर्विश्वान्देवानावाह्य, निरङ्गुष्ठं, हस्तं गृहीत्वा “ॐ क्षणः क्रियताम्" “प्राप्नोतु भवान्” इति क्षणं ग्राहयति। “ॐ तथा, प्राप्नवानि” इति प्रतिवचनम् । विश्वेदेवहस्ते उदगग्रं पवित्रं निधाय यवोदकपात्रादुद्धरण्याऽर्घ्यजलमादाय
या दिव्या आपः॰ स्योना भवन्तु ॥ कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा नमः, इदं वो अर्घ्यं
इत्यर्घ्यं दत्वा
युवा सुवासाः॰ देवयन्तः ॥ कामकाल विश्वेभ्यो देवेभ्यः स्वाहा नमः, आच्छादनार्थे इदं वो वस्त्रम्
इति वस्त्रम् । एवमेवोपवीताऽलङ्कारगन्धाक्षतपुष्पधूपदीपादीन्यथोपपादं दत्वा पुनः पूर्ववदर्घ्यं दद्यात् ॥ अथ प्राचीनाचीती वामाङ्गुष्टोपकनिष्ठिकाभ्यां भुवं स्पृष्ट्वा जपति —
ये पार्थिवासः पितरो येऽन्तरिक्षे ये दिवि ये वाऽमृता बभूवुस्तेऽस्मिन्यज्ञे समवयन्ताम्
इति । ‘पितॄनावाहयिष्ये, आवाहय’ इत्यनुज्ञातः
आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्वैः । प्रजामस्मभ्यं ददतो रयिश्च दीर्घायुत्वञ्च शतशारदञ्च ॥ पितामहप्रपितामहवृद्धप्रपितामहानावाहयामि
इति तिलैरावाह्य, क्षणं ग्राहयित्वा, स्वधापात्रादुद्धरण्याऽर्घ्यजलमादाय
या दिव्या आपः॰ भवन्तु ॥ पितामह॰ प्र॰ वृ॰ महेभ्यः स्वधा नमः, इदं वो अर्घ्यम्
इत्यर्घ्यं दत्वा, आच्छादनादि पुनरर्घ्यान्तं कृत्वा, प्रेताऽऽवाहनादि पुनरर्घ्यान्तमेवमेव कुर्यात् ।। “अथाऽग्नौ करिष्यामि”, इति पृष्ट्वा, ‘कुरुष्व’ इत्यनुज्ञातः, दाक्षिणाऽग्नेः पश्चादुपविश्य यज्ञोपवीती “जुषस्व नः॰ सूर्यस्य” इत्युपस्थानपूर्वकं परिषेकादि चरूत्सेकप्रायश्चित्तान्ते उभयं चरुमाप्याय्य वैश्वदेवचरूं मेक्षणेनोपहत्य
कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा
इति द्विर्हुत्वा । कामकाल॰ विश्वेभ्यो पि॰ देवेभ्य इदं॰ ॥ अथ प्राचीनावीती पञ्च स्रुवाहुतीर्जुहोति-
याः प्राचीः सम्भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्तीभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा ।। पितामहायेदं॰ ॥ अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा । दिग्भिरनन्ताभिरूतिभिरन्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा ॥ प्रपितामहायेदं॰ ॥ अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः ससन्धिकैः । अर्धमासैश्च मासैश्चान्तरन्यं वृद्धप्रपितामहाद्दधे स्वधा नमः स्वाहा ।। वृद्धप्रपितामहायेदं॰ ।। यन्मे पितामही प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पितामहो वृङ्ताम्मा भूरन्योऽवपद्यता ँस्वधा नमः स्वाहा ॥ पितामहायेदं॰ ॥ यद्वः कव्यादङ्गमदहंल्लोकाननयत्प्रणयञ्जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्सम्भवत पितरः स्वधा नमः स्वाहा ॥ समस्तपितृभ्य इदं॰ ॥
अथ दर्व्यां द्विरुपस्तीर्य पितृपात्रस्थं चरूं सकृदवदाय द्विरभिघार्य प्रत्यज्य पुरस्तात्स्रुवाहुति हुत्वा, जुहोति-
सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा
सोमाय पितृमत इदं ॥ उपरिष्ठात्स्रुवाहुतिं हुत्वा, पुनर्दर्व्यां द्विरुपस्तीर्य सकृञ्चरुमवदाय द्विरभिघार्य प्रत्यज्य पुरस्तात्स्रुवाहुतिं हुत्वा जुहोति-
अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा
यमायाङ्गिरस्वते पितृमत इदं॰ ।। एवमेव पुनरवदाय
यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः । प्रदेवेभ्यो वह हव्यं पितृभ्यश्च स्वजा कव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा
अग्नये कव्यवाहनायदं ॥ अथाऽपूपमष्टधाविच्छिद्य त्रीण्यवदानानि एवमेव मन्त्रत्रयेण हुत्वा, स्विष्टकृदर्थमुभयतः सकृत्सकृच्चरुमवदाय द्विरभिघार्य बर्हिषि सादयित्वा, शेषमोदनं यवागूतिलाज्यैः समुदायुत्यावदानधर्मेणावदाय जुहोति-
पितामहेभ्यः स्वधा नमः स्वाहा । प्रपितामहेभ्यः स्वधा॰ हा ।। वृद्धप्रपि॰ हा। पितामहीभ्यः स्व॰ हा । प्रपितामहीभ्यः॰ हा । वृद्धप्रपितामही॰ हा । मातामहेभ्यः स्व॰ हा । मातुः पितामहे॰ हा । मातुःप्रपि॰ हा । मातामही॰ हा । मातुःपितामही॰ हा । मातुःप्रपि॰ हा । आचार्येभ्यः स्व॰ हा । आचार्यपत्नीभ्यः॰ हा। गुरुभ्यः स्व॰ हा । गुरुपत्नीभ्यः॰ हा । सखिभ्यः स्व॰ हा । सखिपत्नीभ्यः॰ हा। ज्ञातिभ्यः॰ हा । ज्ञातिपत्नीभ्यः स्व॰ हा। अमात्येभ्यः॰ हा। अमात्यपत्नीभ्यः॰। सर्वेभ्यः॰। सर्वाभ्यः स्वधा नमः स्वाहा
इति २४॥ यथालिङ्गं त्यागः ॥ एवं चतुर्विंशत्याहुतीर्तुत्वा
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति स्विष्टकृतश्च हुत्वा, (अग्नये कव्यवाहनाय स्विष्टकृत इदं॰ ) उपवीती मेक्षणं प्रहृत्य स ँस्राव हुत्वाऽन्तःपरिधि बहिःपरिधि सङ्क्षाळनं निनीय अथोत्तराग्निमपसव्यं परिषिच्य समिधमाधाय व्याहृतीर्तुत्वा दर्व्यामुपस्तीर्य तिलाज्यमिश्रमन्नमपूपञ्च सकृदवदायाऽभिघार्य प्रत्यज्य दक्षिणतो भस्ममिश्रानङ्गरान्निरूह्य तेषु पुरस्तात्स्रुवाहुतिं हुत्वा जुहुयात्-
प्रेतायाऽमुकगोत्रायाऽमुकशर्मणे यमाय च स्वधा नमः स्वाहा
इति । उपरिष्टात्स्रुवाहुतिं हुत्वा पुनरवदाय पुरस्तात्स्रुवाहुतिं हुत्वा
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति दक्षिणार्धपूर्वार्धे स्विष्टकृतमुपरिष्टात्स्रुवाहुतिं च हुत्वा मेक्षणप्रहरणादि सङ्क्षाळननिनयनान्तं कुर्यात् ॥ अथ सदर्भक्लृप्तेषु भोजनपात्रेषु तत्तदुतशेषमन्नमपूपं व्यानादिकञ्च परिविष्य दर्भः प्रतिच्छाद्य विश्वेषां देवानां प्रेतस्य पितामहादीनाञ्चान्नप्रोक्षणपरिषेचनाभिमर्शनादिकं3 प्रेतस्यैकोद्दिष्टवत् पितामहादीनां पार्वणवत् कृत्वाऽऽपोशनं दत्वा
श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि
इत्यादिभिर्भुञ्जानान्समीक्ष्य ‘यथासुखं जुषध्वम्’ इति ब्रूयात् । एतत्काले स्वधायुक्ताराक्षोनान्नैर्ऋतान्पित्र्यान्वैष्णवानन्यांश्च पवित्रमन्त्रान्श्रावयेत् । तेषु भुक्तवत्सु तृप्तिप्रश्नं विकिरमुच्छिष्टपिण्डदानञ्च कृत्वोत्तरापोशनं दत्वा हस्तप्रक्षाळनान्ते तानाचमय्य स्वदितवाचनं तत्तत्पात्रात्पूर्ववदर्घ्यदानं शुद्धोदकसौमनस्यताम्बूलदक्षिणादिदानञ्च कृत्वाऽक्षय्यं वाचयित्वा (यज्ञोपवीती) अभिवाद्य भोजनपात्राणि चालयेत् ॥
अथोत्तराग्नेर्दक्षिणतो दक्षिणाग्रान् दर्भान् संस्तीर्य, तेषु “मार्जयताममुक॰ प्रेतः” इति तिलोदकं दत्वाऽन्नशेषेण पिण्डं रम्भामुकुलवत्कृत्वा
अमुकगोत्राय अमुष्मै प्रेतायाऽयं पिण्ड उपतिष्ठतु
इति दत्वा (परिभाषासूत्रे-पिण्डत्रयं वा दद्यादिति सूचितम् ॥ धर्मसूत्रेऽपि अष्टकामासिकश्राद्धव्यतिरिक्तश्राद्धे अग्नौकरणहोमे आहुतित्रयं पिण्डदानेऽप्यत्पिण्डत्रयमुक्तम्) पिण्डोपरि तिलोदकं, अञ्जनाऽभ्यञ्जनवासांसि च दत्वा संक्षाळनेन ‘तृप्यस्व’ इत्यपसव्यं परिषिच्य दक्षिणां दत्वाऽक्षय्यं वाचयित्वा सव्येनाऽभिवाद्य अपसव्यं स्वधां वाचयित्वोत्थाप्य प्रसाध संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यतेनैव यथेतमेत्य उत्तराग्नौ व्याहृतिभिराज्यं हुत्वा दर्भान्दर्वीञ्च प्रहृत्याग्निमपसव्यं परिषिच्य समिधमाधायोपस्थाय होमं समापयेत् ।। अथ दक्षिणाऽग्नेर्दक्षिणतो दक्षिणायान्दर्भान्त्संस्तीर्य, तेषु “मार्जयन्तां पितामहाः" इत्यादिभिस्तिलोदकं दत्वाऽन्नशेषैः
पितामहेभ्यः अमुकशर्मभ्योऽमुकगोत्रेभ्यो वसुरूपेभ्योऽयं पिण्डः स्वधा नमः, प्रपितामहेभ्यः॰
इत्यादिभिश्चतुर्विंशतिपिण्डान्दद्यात् । पिण्डानामुपरि पूर्ववन्मार्जयित्वा (भूमौ लेप निर्मार्ष्टि) अञ्जनाऽभ्यञ्जनवासा ँसि दद्यात् ॥ अथ पिण्डाय॑संयोजनम्-
अमुकस्य॰ प्रेतस्य प्रेतत्वविमुक्त्या तत्पित्रादिभिः सह समानोदकत्वसपिण्डतासिद्धिद्वारा च वस्वादिपितृत्वप्राप्त्यर्थं प्रेतार्घ्योदकं पितामहाद्यर्घ्योदकैः प्रेतपिण्डञ्च पितामहादिपिण्डैः संयोजयिष्ये
इति विज्ञाप्य — ‘संयोजय’ इत्यनुज्ञातः, अर्घ्यपिण्डसंयोजनाधिकारसिध्यर्थं कृच्छ्रत्रयप्रत्याम्नायहिरण्यं दत्वा ‘अधिकारसिद्धिरस्तु’ इति वाचयित्वा प्रेताऽर्घ्योदकं पितामहाद्यर्घ्योदकेषु निनयति–
मधुवाता॰ भवन्तु नः ॥३॥ सङ्गच्छध्व ँसंवदध्वं । सं वो मना ँसि जानताम् । देवा भागं यथा पूर्वे। सानाना उपासत [TODO: परिष्कार्यम्]
इति ॥ त्रिगुणाकृतरज्वा प्रेतपिण्डं त्रिधा विभज्य पितामहादिपिण्डत्रये संयोजयति4-
समानो मन्त्रः समितिः समानी । समानं मनः सहचित्तमेषाम् । समानङ्केतो अभि ँस रेभध्वम् ॥ संज्ञानेन वो हविषा यजामः ॥ समानी व आकूतिः ।। समाना हृदयानि वः ॥ समानमस्तु वो मनः ॥ यथा वः सु सहा सति [TODO: परिष्कार्यम्]
इति द्वाभ्याम् । पिण्डत्रयं दृढं कृत्वोपतिष्ठते -
ये समानाः समनसः॰ कल्पताम् ॥ ये सजाताः समनसः शत ँसमाः [TODO: परिष्कार्यम्]
इति द्वाभ्याम् ।
एष वोऽनुगतः प्रेतः पितृसामान्यमाप्तवान् ।
शिवमस्त्विह शेषाणां जायन्तां चिरजीविनः ॥
अनेन प्रतिगृह्णन्तु पितरश्च स्वधाऽमृतम् ।
प्रीणन्तु च सहानेन तथा पिण्डोदकाः क्रियाः
इति प्रार्थ्य गन्धादिभिरभ्यर्चापूपादिकं ताम्बूलञ्च निवेद्य षड्भिर्नमस्कारैर्विपर्यासमुपस्थाय
वीरम्मे पितरः॰ पितामहाः॰ प्रपितामहाः॰ वृद्धप्रपितामहा दत्त पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्त
इत्यादिचतुर्भिः प्रार्थ्य अर्घ्यपात्रोदकं
अमुकगोत्र॰ शर्मन् पितृभूत मम पितः ( तव ) पितृभिः पितामहैः प्रपितामहैः सहैतत्ते तिलोदकम्
इति पिण्डानामुपरि त्रिर्निषिच्य शेषं चरुस्थाल्यां निनयेत् । अथ स्थालीसंक्षाळनेन त्रिरप्रदक्षिणं परिषिञ्चति -
ऊर्जं वहन्तीरमृतं घृतं दधि मधु पयः कीलालं परिसुत ँ स्वधास्था । तर्पयत मे पितॄ ँस्तृप्यत तृप्यत तृप्यत
इति ॥ दक्षिणतः स्थालीं न्युब्ज्योत्तानीकृत्य प्रोक्षेत् ॥ अथ ब्राह्मणान्नमस्कृत्य
आ मा वाजस्य॰ गम्यात् ।। दातारो नोऽभिवर्धन्तां॰
इत्यादि शेषमनुज्ञाप्याऽऽशिषो वाचयित्वा “उत्तिष्ठत पितरः॰" इति पितृपितामहप्रपितामहवृद्धप्रपितामहानुद्वास्य
यन्तु पितरो यथालोकं मनसा जवेन । परेत पितरः॰ मदन्ति
इति प्रसाद्य “मनोन्वा०
सचेमहि" इति मन आहूय “वाजे वाजेऽवत॰” इति विश्वान्देवानुद्वास्य पिण्डांश्चोद्वास्य
प्रजापते न त्वदेतान्यन्यो॰ रयीणाम्
इत्यग्निमभिप्रपद्य “यदन्तरिक्षं॰ मामनेनसम्" इत्यग्निमुपस्थाय प्रायश्चित्ताज्याहुत्यादि होमशेषं समाप्य “यस्य स्मृत्या" इति कर्मसमर्पणं कुर्यात् ॥ अथ पिण्डानप्सु प्रक्षिप्य स्नात्वा गृहं गच्छेत् । अत्र श्राद्धे तिलतर्पणं निषिद्धम् ॥ धर्मसिन्धौ निर्णयसिन्धौ च –
वृद्धिश्राद्धे सपिण्ड्याञ्च प्रेतश्राद्धेऽनुमासिके ।
संवत्सरविमोके च न कुर्यात्तिलतर्पणम्
इति ॥
-
प्रेतयत्न्यां रजस्वलायां सापिण्ड्यं पञ्चमदिने कुर्यात् । अपुत्रे भर्तरि प्रेते यदि पत्नी कुर्यात्तदैव पञ्चमदिने कुर्यादित्यपरे । इति वैद्यनाथीये ॥ ↩︎
-
पात्रत्रयपक्षे ‘पितामहेभ्यो वो गृहामि । प्रपिता॰ मि । वृद्धप्रपि॰ मि ।’ इति पृथक्पृथमन्त्रेण गृह्णीयत् ।। ↩︎
-
पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहप्र॰ वृ॰ महानां क्षेष्ठाः अमुत्रामुग्मिल्लोके, प्रेतस्थाने– “ब्राह्मणस्य त्वा विद्यावतः प्राणापानयोर्जुमा॰ प्रेतस्य क्षेष्ठाः” इत्यादिमन्त्रं अत्र कुशबटूपवेशनपक्षे केवलमुच्चारयन्भावयेत् ।। ↩︎
-
कुंभकोणप्रयोगे –पिण्डसंयोजनात्पूर्वं वैतरणीगोदानं, दशदानं नौदानं, शय्यादानं पददानादिकञ्चोक्तम् ॥ ↩︎