२१ कालशान्तिविधिः

॥ कालशान्तिविधिः ॥

शौनकोऽहं प्रवक्ष्यामि कालशान्तिं विधानतः ।
मृत्युयोगे मृत्युदिने नक्षत्रे च त्रिपादके ॥

भृग्वङ्गारदिने चैव मृत्युयोगसमन्विते ।
गृहमध्ये स्थिते काले स्वगृहे मरणं सदा ॥

जायते कुलनाशाय कर्तुर्वा मरणाय वै ।
पुत्रदारगृहस्थस्य कालाऽरिष्टञ्च जायते ॥

अथवा राजचोरादि पीडा सञ्जायते ध्रुवम् ।
तद्दोषपरिहारार्थं शान्तिं वक्ष्ये समासतः ॥

ततो दैवज्ञमाहूय कालं ज्ञात्वा विधानतः ।
तावद्धितं गृहं हित्वा शान्तिं कृत्वा गृहं व्रजेत् ॥

आचार्यं वरयेदादौ शान्तं दान्तं कुटुम्बिनम् ।
पुण्याहं वाचयेत्तत्र नमस्कृत्वेष्टदेवताम् ॥

गृहस्येशानदिग्भागे पद्ममष्टदळं लिखेत् ।
शालीतण्डुलपूर्णञ्च स्थापयेत्कलशं ततः ॥

कषायोदकगव्यैश्च कलशं पूरयेत्ततः ।
मृत्युञ्जयं त्र्यम्बकेति मन्त्रेणाऽऽवाहयेत्सुधीः ॥

वेष्टयेद्वस्त्रयुग्मेन गन्धपुष्पाक्षतैर्यजेत् ।
धूपं दीपञ्च नैवेद्यं विधिना कारयेद्बुधः ॥

ततो होमं प्रकुर्वीत कालस्थदिशि संस्थितः ।
स्थण्डिलोल्लेखनादीनि कुर्यादग्निमुखं ततः ॥

मृत्युञ्जयस्य मन्त्रेण समिधाज्यचरून्हुनेत् ।
मृत्युसूक्तेन जुहुयान्मृत्युर्नश्यत्विति ब्रुवन् ॥

हुनेदष्टोत्तरशतं शन्नसूक्तं तथैव च ।
मृत्युसूक्तं शन्नसूक्तं समिदाज्यचरून्हुनेत् ॥

मृत्युप्रशमनार्थाय तिलहोमं समाचरेत् ।
त्र्यम्बकेति च मन्त्रेण तिलांश्च घृतमिश्रितान् ॥

अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा ।
तावन्मानं तु जुहुयादाज्यं त्र्यम्बकतुष्टये ॥

यन्नक्षत्रे च मरणं तत्तन्नक्षत्रदेवताम् ।
अष्टोत्तरशतं हुत्वा साधिप्रत्यधिदेवताम् ॥

तन्नक्षत्रोक्तमन्त्रेण समिदाज्यचरून्हुनेत् ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥

अभिषेकं ततः कुर्यादायुष्यमिति सूक्ततः ।
समुद्रज्येष्ठा इति च शन्न इन्द्रेति सूक्ततः ॥

आपो हिष्ठेति तिसृभिः पवमानानुवाकतः ।
देवस्य त्वेति मन्त्रेण तच्छंयोरित्यृचा ततः ॥

ग्रहमन्त्रैः पुराणोक्तैरभिषेकं समापयेत् ।
अग्निरायुष्मानिति च अभिषेकं समाचरेत् ॥

अभिषेकाप्लुतं वस्त्रमाचार्याय निवेदयेत् ।
आज्ये निरीक्ष्य वै दद्यात्सर्वदोषोपशान्तये ॥

प्रतिमां कलशं दद्याद्गुरवे ब्रह्ममूर्तये ।
वासो हिरण्यं गां रत्नं भूमिं धान्यानि दापयेत् ॥

ब्राह्मणान्भोजयेत् पश्चात्तेभ्यो दद्याच्च दक्षिणाम् ॥
तोषयित्वा द्विजांस्तेभ्य आशिषो वाचयेदथ ॥

॥ कालशान्तिप्रयोगः ॥

सूतकान्ते (द्वादशाहादौ) शुचिः स्नातो दर्भेष्वासीनः पवित्रपाणिराचम्य प्राणानायम्यदेशकालौ सङ्कीर्त्य

मम पित्रादेर्मरणकाले कालमृत्योर्गृहान्तःप्रवेशसूचिताऽपमृत्युकालमृत्य्वादिसर्वानिष्टनिरसनद्वारा गृहे स्थितानां द्विपदानां चतुष्पदानाञ्च सर्वेषां दीर्घायुरारोग्याऽभयप्राप्त्यर्थं कालशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य

त्र्यम्बकमृत्युञ्जयः प्रीयताम्

इति पुण्याहं वाचयित्वा स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, कालशान्तिहोमः कर्म, वरदो नामाऽग्निः, त्र्यम्बको देवता, चरुर्हविः, उपहोमे - मृत्युञ्जयमन्त्रेण समिदाज्यचरुद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः शन्नसूक्तमन्त्रैः समिदाज्यचरुद्रव्यैरेकैकयाहुत्या, मृत्युसूक्तेन (हरिँ हरन्तं, माच्छिदो मृत्यो, सद्यश्चकमानाय, कामेन मे, परं मृत्योः, प्रपूर्व्यं, इति षण्मन्त्रैः ) तैरेव द्रव्यैः प्रतिद्रव्यं प्रतिमन्त्रमष्टादशावृत्याऽष्टोत्तरशतसंख्याकाहुतिभिः, त्र्यम्बकमन्त्रेण तिलाऽज्याभ्यां प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, मरणकालनक्षत्रमन्त्राभ्यां समिच्चर्वाज्यद्रव्यैः प्रतिमन्त्रं प्रतिद्रव्यं चतुःपञ्चाशदावृत्याऽष्टोत्तरशतसङ्ख्याकाहुतिभिर्यक्ष्ये, अधिप्रत्यधिदेवतास्तत्तन्नक्षत्रमन्त्रैः (पूर्वोत्तरनक्षत्रमन्त्रैः) तैरेव द्रव्यैः अष्टाष्टसंख्याकाहुतिभिर्यक्ष्ये, अग्निः स्विष्टकृत्, इत्यादि प्रतिष्ठिताभिधारणान्तेऽग्रेणाऽग्निं कषायोदकपञ्चगव्यपूरितं कलशं महीद्यौरित्यादिना विधिवत्प्रतिष्ठाप्य तत्र त्र्यम्बकमन्त्रेण त्र्यम्बकं मृत्युञ्जयमावाह्य षोडशोपचारैः पूजयेत् । ततो

जुषस्व नः

इत्याद्याज्यभागान्ते

त्र्यम्बकं यजामहे

इति मन्त्रेण पक्वं हुत्वाऽन्वाधानक्रमेणोपहोमं कुर्यात् । मृत्युसूक्तहोमे प्रत्याहुत्यन्ते

मृत्युर्नश्यत्वायुर्वर्धताम्

इत्यनुसन्दध्यात् । स्विष्टकृदादि होमशेषं समाप्याऽऽवाहितदेवतानामुत्तरपूजां कृत्वा, ब्राह्मणाः कलशोदकेन आपो हिष्ठेति तिसृभिः, पवमानाऽनुवाकेन, शन्नसूक्तेन, आयुष्यसूक्तेन, समुद्रज्येष्ठा°, देवस्य त्वा°, तच्छंयोरावृणीमहे, ग्रहमन्त्रैः, अग्निरायुष्मानिति पञ्चभिः, सुरास्त्वामित्यादि पुराणोक्तमन्त्रैश्च सकुटुम्बं यजमानं प्रोक्षेयुः ॥ यजमानः अभिषेकाप्लुतं वस्त्रमाचार्याय ददाति । ततो ब्राह्मणान् संपूज्य आज्यपात्रे मुखं निरीक्ष्य दत्वाऽऽचार्याय सपीठं कलशं गां वासो हिरण्यं रत्नं भूमिं धान्यानि ऋत्विग्भ्यो यथाशक्ति दक्षिणां च दत्वा ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयीत ॥