॥ त्रिपुष्करादिमरणशान्तिः ॥
एकादशेऽहनि
अमुकप्रेतस्य त्रिपुष्करयोगमरणसूचिताऽधोगतिदोषनिवृत्तिपूर्वकमस्माकं वंशारिष्टादिसर्वानिष्टपरिहारार्थं त्रिपुष्करशान्तिं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य
सविता प्रीयताम् , (पुनर्वसूमरणे ) अदितिश्च प्रीयताम्
इति पुण्याहं वाचयित्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, त्रिपुष्करशान्तिहोमः कर्म, वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे ( पुनर्वसूनक्षत्रस्य-पुनर्नो देव्यदिति°, एवा न देव्यदिति° इति द्वाभ्यां ) अदितिं पलाशसमित्तिलचर्वाज्यद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः (आर्द्रया रुद्रः°, हेती रुद्रस्य° इति द्वाभ्यां ) अधिदेवतां रुद्रं (बृहस्पतिः प्रथमं°, तिष्यः पुरस्तात्° । इति द्वाभ्याम् ) प्रत्यधिदेवतां बृहस्पतिञ्च तैरेव द्रव्यैः प्रतिद्रव्यमेकादशैकादशसङ्ख्याकाहुतिभिः, यमादि चतुर्दशदेवताः तैरेव द्रव्यैः प्रतिद्रव्यमष्टाष्टसङ्ख्याकाहुतिभिः, आदित्यादिनवग्रहानाधिदेवताप्रत्याधिदेवतासहितान् तिलैरेकैकयाहुत्या यक्ष्ये, अग्निः स्विष्टकृत्, इत्यादि सङ्कल्प्यान्वाधाय प्रतिष्ठिताऽभिधारणान्तं कृत्वाऽग्रेणाऽग्निं कलशत्रयं प्रतिष्ठाप्य, मध्ये-अदितिं, दक्षिणे-रुद्रं, उत्तरे-बृहस्पतिं, च पूर्वोक्तमन्त्रैरावाह्य परितः - यमादि चतुर्दश देवता नाममन्त्रेणाऽऽवाह्य, तदुत्तरेऽष्टदळपद्मे-आदित्यादिनवग्रहानधिदेवताप्रत्यधिदेवतासहितांश्चावाह्य षोडशोपचारैः संपूजयेत् ॥ ततो
जुषस्व नः
इत्यादि सावित्र्या पक्वं हुत्वाऽन्वाधानक्रमेणोपहुत्य पूर्णाहुत्यादि धनिष्ठापञ्चकशान्तिवत्सर्वं कुर्यात् ॥ एवमेव विशाखादि त्रिपादृक्षमरणे त्रिपुष्करमरणे च तत्तन्नक्षत्रमन्त्रैरावाहनादिसर्वं कुर्यात् । द्विपुष्करयोगेऽपि एवमेव ॥