१९ धनिष्ठापञ्चकमरणशान्तिविधिः

धनिष्ठापञ्चकमरणशान्तिविधिः

एकादशेऽह्नि सम्प्राप्ते प्रातरुत्थाय पुत्रकः ।
आहृत्य कलशान्पञ्च स्थापयेदृक्षमन्त्रतः ॥
सौवर्णी राजतीर्वाऽपि स्थापयेत्पञ्च मूर्तिकाः।
ऋक्षमन्त्रैः प्रतिष्ठाप्य स्थापयेत्कलशोपरि ॥
पूजां तत्र विधानेन कारयेद्भक्तिपूर्वकम् ।
ऋक्षमन्त्रैश्च सम्पूज्य गन्धपुष्पा क्षतादिभिः ॥
नैवेद्यं कारयेत्तत्र प्रेतमुद्दिश्य कल्पयेत् ।
आरार्तिकं ततः पश्चाद्यथोक्तविधिना ततः ॥
कुम्भाने स्थण्डिलं कृत्वा स्थापयेच्च विभावसुम् ।
आज्यस्य संस्कृतिं कृत्वा बर्हिरास्तरणं ततः ॥
ग्रहान्संस्थापयेत्तत्र साधिप्रत्यधिदेवतान् ।
प्रतिष्ठाप्य ग्रहांश्चैव आज्यसंस्थापनं ततः ॥
इध्माधानं ततः कृत्वा आघाराद्यथ होमकान् ।
ऋक्षमन्त्रैस्ततो हुत्वा स्रुवेणाऽऽज्याहुतीः पृथक् ॥
ततस्तिलाक्षतैर्होमं ग्रहाणाञ्च कारयेत् ।
चरुणा च यमादिभ्य एकैकामाहुतिं हुनेत् ।।
प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथो हुनेत् ।।
ग्रहान्सम्पूजयेत्तत्र गन्धपुष्पैश्च धर्मतः ॥
श्वभ्रेण नाळिकेरेण अर्घ्यं दत्वा विधानतः ।
ततो दुग्धं समादाय सर्वौषधिसमन्वितम् ।।
दक्षिणाभिमुखो भूत्वा तर्पयेदृक्षमन्त्रतः ।
प्रेताय तर्पणं कृत्वा ततः प्रेतगणाय च ॥
ततस्तु दक्षिणा देया प्रेतस्य मुक्तिहेतवे ।।
अनेन विधिना वत्स कर्तव्यं ऋक्षपञ्चके ॥
यस्य गेहे भवेच्छान्तिः सुखं प्राप्नोत्यसंशयम् ।
पुण्याहवाचनं कृत्वा विधिना शान्तिकारकम् ॥
देवस्यत्वेति मन्त्रेण पावमान्या ततः परम् ।
समुद्रज्येष्ठामन्त्रेण त्रायन्तामितिमन्त्रतः ॥
ततः पौराणिकैर्मन्त्रैरभिषिञ्चेच्च मूर्धनि ।
आशीर्वादं ततः पूर्वे दानं दद्यात्ततः परम् ॥
तिलांल्लोहं हिरण्यञ्च कार्पासं लवणं ततः ।
सप्तधान्यं क्षितिं गाञ्च एकैकं पावनं स्मृतम् ।
कांस्यपात्रे स्थितं तैलं वीक्ष्य दद्याद्विजन्मने ।।

प्रयोगः

अथ प्रयोगः।। एकादशेऽहनि सूतकान्ते ( एकोद्दिष्टान्ते1 ) दर्भेषु प्राङ्मुख उपविश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

अमुकगोत्रस्य॰ प्रेतस्य धनिष्ठापञ्चकमरणसूचिताऽधोगतिदोषनिवृत्तिपूर्वकमस्माकं वंशारिष्टाद्यनिष्टपरिहारार्थं धनिष्ठापञ्चकमरणशान्तिं करिष्ये

इति सङ्कल्प्य गणपतिं सम्पूज्य

सविता प्रीयताम्. वस्वादयश्च प्रीयन्ताम्

इति पुण्याहं वाचयित्वा,

स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, धनिष्ठापञ्चकशान्तिहोमः कर्म, वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे वस्वाद्यृक्षदेवताः, आज्यतिलाभ्यां ‘अष्टौ देवा वसवः॰’ इत्यादिदशभिर्मन्त्रैः प्रतिद्रव्यं एकैकयाऽऽहुत्या यक्ष्ये, आदित्यादिनवग्रहानधिदेवताप्रत्यधिदेवतासहितान्तत्तन्मन्त्रैस्तिलैरेकैकयाहुत्या यक्ष्ये, यमादिचतुर्दशदेवताः तत्तन्नाममन्त्रेण चरुणा एकैकयाहुत्या यक्ष्ये, आग्निः स्विष्टकृत,

इत्यादि सङ्कल्प्याऽन्वाधाय परिसमूहनादि प्रतिष्ठिताऽभिघारणान्तं कृत्वाऽग्रेणाऽग्निं व्रीहिभिर्यवैर्वा स्थण्डिलं कृत्वा तत्र पञ्च कलशान्संस्थाप्य तेषु सुवर्णेन वा रजतेन वा निर्मिताः पञ्च प्रतिमा विन्यस्य,

अष्टौ देवा वसवः॰, यज्ञं नः पान्तु॰

इति द्वाभ्यां वसून्,

क्षत्रस्य राजा॰, यज्ञं नो राजा॰

इति द्वाभ्यां वरुणं,

अज एकपात्॰, विभ्राजमानः॰

इति द्वाभ्यां अजमेकपदं,

अहिर्बुध्नियः॰ चत्वार एक॰

इति अहिं बुध्नियं,

पूषा रेवत्यन्वेति॰, क्षुद्रान्पशून्रक्षतु॰

इति पूषणञ्च क्रमेणाऽऽवाह्य, परितोऽक्षतपुञ्जेषु -

यमं, धर्मराजं, मृत्युं, अन्तकं, वैवस्वतं, कालं, सर्वभूतक्षयं, औदुम्बरं, दध्नं, नीलं, परमेष्ठिनं, वृकोदरं, चित्रं, चित्रगुप्तं,

चेति तत्तन्नाममन्त्रेण चतुर्दश देवता आवाह्य,

तदग्रेऽष्टदळपद्मे कलशस्थापनपूर्वकं आदित्यादिनवग्रहानधिदेवताप्रत्यधिदेवताश्चावाप्त्य षोडशोपचारैः सम्पूज्य, जुषस्वन

इत्याद्याऽऽज्यभागान्ते गायत्र्या पक्वं हुत्वाऽऽज्यतिलाभ्यां

अष्टौ देवा वसवः॰ स्वस्ति स्वाहा ॥१॥ यज्ञं नः पान्तु॰ सागन्स्वाहा ॥ वसुभ्य इदं० ॥२॥ क्षत्रस्य राजा॰ धत्त स्वाहा ॥३॥ यज्ञन्नो राजा॰ भेषजानि स्वाहा ।। वरुणायेदं॰ ॥४॥ अज एकपा॰ गोपाः स्वाहा ॥५॥ विभ्राजमानः॰ सर्वे स्वाहा ॥ अजायैकपद इदं॰ ॥६॥ अहिर्बुनियः॰ रक्षन्ति सर्वे स्वाहा ॥७॥ चत्वार एक॰ सद्य स्वाहा ॥ अहये बुध्नियायेदं॰ ॥८॥ पूषा रेव॰ यज्ञँ स्वाहा ॥९॥ क्षुद्रान् व्यजमानाय यज्ञँ स्वाहा ॥ पूष्ण इदं॰ ॥१०॥

अथ तिलैः अधिदेवताप्रत्यधिदेवतासहितनवग्रहान्, चरुणा “यमाय स्वाहा" इत्यादि चतुर्दशाहुतीश्च हुत्वा, स्विष्टकृदादि पूर्णाहुत्यन्तं कुर्यात् ।।

अथाऽऽवाहितदेवताः पुनः सम्पूज्य सर्वौषधिमिश्रेण क्षीरेण दक्षिणामुखः ‘अष्टौ देवा॰’ इति द्वाभ्यां वसूंस्तर्पयामि, ‘क्षत्रस्य राजा॰’ इति द्वाभ्यां वरुणं तर्पयामि, ‘अज एक॰’ इति द्वाभ्यां अजमेकपदं तर्पयामि, ‘अहिर्बुध्नियः॰’ इति द्वाभ्यां अहिं बुध्नियं तर्पयामि, ‘पूषा रेव॰’ इति द्वाभ्यां पूषणं तर्पयामि,

इति तर्पयित्वा, प्राचीनावीती

प्रेतं तर्पयामि, प्रेतगणं तर्पयामि

इति तर्पयेत् ॥ अथोत्तरपरिषेकादि होमशेषं समाप्य

देवस्य त्वा॰ भिषिञ्चामि, पवमानः॰ पुनातु, समुद्रज्येष्ठा॰, त्रायन्तां॰, सुरास्त्वामभिषिञ्चन्तु॰"

इत्यादिभिः कलशोदकेन मार्जयित्वा आचार्याय कलशदानं ब्राह्मणेभ्यः तिलाद्यष्टदानं दत्वा तैलपूरितकांस्यपात्रे आत्मनः प्रतिरूपमवेक्ष्य

तैलं तिलसमुद्भतं सर्वारिष्टनिवारकम् ।
तुष्टिदं पुष्टिदं चैव प्रददेऽरिष्टशान्तये

इत्युक्त्वा सहिरण्यं दद्यात् ॥


  1. ‘सूतकान्ते कुर्यात्’ इति सामान्यवचनात्

    एकोद्दिष्टे तु सम्प्राप्ते विप्राभावे गते सति ।
    पिण्डमेकं प्रदातव्यमाशौचं चाऽप्रदानतः

    इति श्रीधरीयवचनाच्च एकोद्दिष्टानन्तरमेव आशौचनिवृत्तिः ॥ ↩︎