॥ सोदकुम्भश्राद्धविधिः ॥
कारिकारत्ने -
आद्याहाद्वादशाहाद्वा तत्पूर्वाहादथाऽपि वा ।
विप्रायाऽन्नं सोदकुम्भं दद्यादन्वहमाब्दिकात् ॥
मार्कण्डेयः -
यस्य संवत्सरादर्वाक्सपिण्डीकरणं कृतम् ।
मासिकं सोदकुम्भञ्च देयं तस्याऽपि वत्सरम् ॥
याज्ञवल्क्यः -
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याऽप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ॥
कृते सपिण्डीकरणे पार्वणन्तु विधीयते ।
सपिण्डीकरणादर्वागेकोद्दिष्टं विधीयते ॥
गौतमः -
अदैवं पार्वणं श्राद्धं सोदकुम्भमधर्मकम् ।
कुर्यात्तत्राऽब्दिकश्राद्धात्सङ्कल्पविधिनाऽन्वहम् ॥
अस्यार्थः - अदैवं = विश्वेदेवविष्णुरहितं, पार्वणं = त्रिपुरुषात्मकं, अधर्मकं = दन्तधावनताम्बूलादिवर्जनाऽपुनर्भोजनादिरूपकर्तृभोक्तृधर्मरहितं, इति ॥
सङ्कल्पविधिं विवृणोति स्मृत्यन्तरे -
आवाहनाऽग्नौकरणे स्वधानिनयनं तथा ।
विकिरं पिण्डदानञ्च सङ्कल्पे पञ्च वर्जयेत् इति ॥
आपस्तम्बः -
सङ्कल्पश्राद्धे अर्घ्याऽऽवाहनाऽग्नौकरणपिण्डदानानि वर्जयेत् ॥
सङ्ग्रहे -
सङ्कल्पन्तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
विकिरञ्च न दातव्यं पिण्डांश्चैव न निर्वपेत् ॥
स्मृत्यन्तरे -
अब्दमम्बुघटं दद्यादन्नमाज्येन संयुतम् ।
संवत्सरे प्रवृद्धेऽपि प्रतिमासञ्च मासिकम् ॥
व्यासः -
अतिथिं भोजयेद्विद्वान्त्सोदकुम्भे विशेषतः ।
अभ्यागतं भोजयित्वा नियतन्तु न भोजयेत् ॥
नियतं भोजयेद्यस्तु लोभान्मोहाद्विमूढधीः ।
त्रयस्ते नरकं यान्ति कर्ता भोक्ता तथा पिता
इति ॥
पितृमेधसारे -
न द्वादशाहादौ सापिण्ड्ये सोदकुम्भश्राद्धान्याहत्य दद्यात्, विध्यभावात् । प्रत्यहमाब्दं तद्विधिवैयर्थ्यापत्तेर्मासिकवद्द्विरनुष्ठाने प्रमाणाऽभावाच्च, प्रागब्दात्कृतान्यब्दसापिण्ड्ये न पुनः कुर्यादकृतानि कृत्वा सापिण्ड्यं कुर्यात्, शक्तविषये द्वादशाहप्रभृत्याऽऽसंवत्सरात्प्रत्यहमेकं त्रिपुरुषोद्देशेनाऽदैवमधर्मकं सदक्षिणं सङ्कल्पविधिना सोदकुम्भश्राद्धं दद्यात्, प्राक्सपिण्डीकरणादेकोद्दिष्टवत्, न सांवत्सरिकाऽहे तानि दद्यात्, कालाऽतीतत्वात् ॥
अथ प्रयोगः ॥ द्वादशाहात्प्रभृति संवत्सरं सोदकुम्भश्राद्धं कुर्यात् ॥ यथा - विप्रमेकं निमन्त्र्य देशकालौ सङ्कीर्त्य,
अमुकगोत्रस्य° पितुः क्षुत्तृष्णोपशमनद्वाराऽक्षय्यतृप्त्यर्थं सोदकुम्भश्राद्धं सङ्कल्पविधिना करिष्ये
इति सङ्कल्प्य, क्षणपाद्याऽसनगन्धाऽऽच्छादनान्ते सर्पिष्मताऽन्नेन परिविष्य गायत्र्या प्रोक्ष्य
एष उदकुम्भः, इदमन्नं
इत्यनुदिश्य भोजयेत् । अन्ते ताम्बूलदक्षिणादि दद्यात् । इदमब्दपर्यन्तं प्रत्यहं कर्तुमशक्तश्चेत् प्रतिमासं कर्तव्यम् ॥