॥ आवृत्ताद्यादिषोडशैकोद्दिष्टमासिकश्राद्धानि ॥
व्यासः -
सपिण्डीकरणात्पूर्वं कुर्याच्छ्राद्धानि षोडश ॥
श्राद्धानि षोडशाऽकृत्वा न तु कुर्यात्सपिण्डताम् ॥
श्राद्धानि षोडशाऽऽपाद्य विदधीत सपिण्डताम्॥
सपिण्डीकरणादर्वाक्कुर्वन्श्राद्धानि षोडश ।
एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥
सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः।
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥
अथ प्रयोगः ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य (प्राचीनावीती)
अमुकगोत्रस्य° प्रेतस्य प्रेतत्वविमुक्त्योत्तमलोकप्राप्त्य्यर्थं श्वः सपिण्डीकरणं करिष्यमाणस्तत्पूर्वभावीनि आवृत्ताद्यमासिक-ऊनमासिक-द्वितीयमासिक-त्रैपक्षिकमासिक-तृतीयमासिक-चतुर्थमासिक-पञ्चममासिक-षष्ठमासिक-ऊनषाण्मासिक-सप्तममासिकाऽष्टममासिक-नवममासिक-दशममासिकैकादशमासिक-द्वादशमासिकोनाब्दिकानि षोडश मासिकश्राद्धान्यपकृष्य तन्त्रेणान्नेन हविषा एकोद्दिष्टविधानेनाऽद्यैव करिष्ये
इति । सङ्कल्प्य, कलशार्चनं ब्रह्मदण्डञ्च कृत्वा षोडश कुशमयान्ब्राह्मणान्
अमुक° प्रेतस्याद्यमासिके इदमासनमत्र भवता क्षणः कर्तव्यः प्राप्नोतु भवान्
इत्येवं क्रमेण षोडशसु सदर्भकॢप्तेष्वासनेषूपवेश्य, एकोद्दिष्टवत् स्थण्डिलकरणादि लौकिकाग्निं प्रतिष्ठाप्य, प्रतिष्ठिताभिधारणान्तं कृत्वाऽग्नेर्दक्षिणत एकमेवाऽर्घ्यपात्रमासाद्य तथैवाऽप आनयति -
आम आगच्छतु प्रेतो देवयानान्° उपदुह्यताम् । इमा अमुक° प्रेताय वो गृह्णामि
इत्यादिनाऽर्घ्यं संस्कृत्य भोजनस्थानेष्वासनेषु च ससिकततिलविकिरणावोक्षणे कृत्वा कुशब्राह्मणेषु आद्यमासिके, ऊनमासिके, द्वितीयमासिके, इत्यादिक्रमेण
आयाहि प्रेत सोम्य गम्भीरैः° पूर्व्यैः ।
प्रजामस्मभ्यं ददद्रयिञ्च दीर्घायुत्वञ्च शतशारदश्च
अमुकगोत्रं° प्रेतमावाहयामि, इत्यावाह्य । अमुकगोत्र° प्रेत इदं ते पाद्यम् । अर्घ्यपात्रादादाय
इदन्ते अर्घ्यम्
एवमेव वस्त्रं, गन्धं, तिलाक्षतान्, पुष्पाणि, पुनरर्घ्यञ्च दत्वा
अग्नौ करिष्यामि
इति पृष्ट्वा
कुरुष्व
इत्यनुज्ञातः अग्निमपसव्यं परिषिच्य समिधमाधायाऽऽज्येन व्याहृतीर्हुत्वा दर्व्यां सकृदुपस्तीर्य चरोः षोडशवारमवदाय सकृदभिधार्य, दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेषु पुरस्तात्स्रुवाहुतिं हुत्वा जुहुयात् -
प्रेतायाऽमुकगोत्राय° शर्मणे यमाय च स्वाहा
(स्त्रीणां
प्रेतायै अमुकगोत्रायै० दायै यमाय च स्वाहा )
इति ॥ यथालिङ्गं त्यागः ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा षोडशसु भोजनपात्रेषु पृथक्पृथगुपस्तीर्य हुतशेषमन्नं सव्यञ्जनं परिविष्याऽभिघार्य दक्षिणाग्रैर्दर्भैः प्रतिच्छाद्याऽभिमृशति -
पृथिवी ते पात्रं द्यौरपिधानम् । ब्राह्मणस्य त्वा विद्यावतः प्राणापानयोर्जुहोम्यक्षितमसि मा । प्रेतस्य क्षेष्ठा अमुत्राऽमुष्मिन्ल्लोके
इति ब्राह्मणस्याऽङ्गुष्ठेनाऽनखेनाऽनुदिशति ॥
प्रेताय अमुकगोत्राय° इदमन्नं सव्यञ्जनमुपतिष्ठतु
इति ॥
अमृतोपस्तरणमसि
इत्यपो दत्वा भुञ्जानान्समीक्षते -
प्राणे निविष्टोऽमृतं जुहोमि
इति पञ्चभिः
ब्रह्मणि म आत्माऽमृतत्वाय
इत्यात्मानम् ॥ न चाऽत ऊर्ध्वं निरीक्षते । भुक्तवत्सु
अमृतापिधानमसि
इत्यपो दत्वा । तृप्तानप आचमय्य
स्वदितमुच्यताम्
इति विज्ञाप्य
अस्तु स्वदितम्
इति प्रत्युक्ते पूर्ववदर्घ्यं दत्वा । दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु
माँर्जयताममुक° प्रेतः
इति तिलोदकं दत्वा । अन्नशेषैः
प्रेताय अमुकगोत्राय° आद्यमासिके अयं पिण्ड उपतिष्ठतु
इत्यादिना षोडश पिण्डान्दत्वा
मार्जयताममुक° प्रेतः
इति पिण्डानामुपरि तिलोदकं दत्वा, अञ्जनाभ्यञ्जनादिकञ्च दद्यात् । अथार्घ्यपात्रोदकं पात्रसङ्क्षाळनेन संयुत्य
तृप्यस्व
इति सकृदपसव्यं परिषिच्याऽग्नौ व्याहृतीर्हुत्वा होमशेषं समाप्य ब्राह्मणेभ्यो दक्षिणादिकं दत्वाऽक्षय्यं वाचयित्वा यज्ञोपवीती अभिवाद्योत्थाप्य, प्राचीना वीती पिण्डानुद्वास्याऽप्सु विनिक्षिपेत् ॥
मरणाद्वर्षमध्ये यद्यधिकमास आपतेत्तदा तन्मासिकश्राद्धं द्विरावर्तयेत् । तदा सप्तदश मासिकानि सम्पद्यन्ते । ऊनमासिकत्रैपक्षिकोनषाण्मासिकोनाऽद्विकानां मृततिथ्यनपेक्षाणामावृत्त्यभावान्मासिकानि सप्तदशैव स्युः । सौरपक्षेऽपि । सङ्क्रमणात्परं दशदिनादर्वाक् मृतस्य कुत्रचिदेकस्मिन्सौरमासे मृततिथिद्वयसम्भवात्प्रायः सप्तदश मासिकानि सम्पद्यन्ते । एवं सप्तदश मासिकसम्भवे हविरवदानानि ब्राह्मणाः पिण्डाश्च सप्तदश सप्तदश भवन्ति ॥