१६ दानानि

दानानि

॥ अथ दानानि ॥

अमुकगोत्रस्य शर्मणः ( पित्रादेः) अक्षय्यतृप्तिद्वारा पुण्यलोकप्राप्त्यर्थं गोदानादि यथासम्भवदानानि करिष्ये

इति संकल्प्य । एकादशाहे द्वादशाहे वा यथानुकूलं गोदानादि कुर्यात् ।।

दशदानानि

अथ दशदानानि-

गोभूतिलहिरण्याऽऽज्यवासोधान्यगुडानि च ।
रौप्यं लवणमित्येवं दश दद्यादनुक्रमम् ॥

गोदानम्-सवत्सां गां सम्पूज्य विप्रञ्च यथाविभवमभ्यर्च्य–

यज्ञसाधनभूता या विश्वस्याऽघौघनाशिनी ।
विश्वरूपधरो देवः प्रीयतामनया गवा ।।
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेन हरे शान्तिं प्रयच्छ मे

इति गोवत्सयोः पुच्छे गृहीत्वा

इमां सवत्सां सदक्षिणां गां तुभ्यमहं सम्प्रददे

इति विप्रहस्ते जलधाराविसर्गपूर्वकं दद्यात् ॥१॥ एवं सर्वत्र ज्ञेयम् ।। भूदानम् –

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता ।
अनन्तसस्यफलदा अतः शान्तिं प्रयच्छ मे ॥२॥

तिलदानम्–

तिलाः पापहरा नित्यं विष्णोर्देहसमुद्भवाः।
तिलदानादसह्यं मे पापं नाशय केशव

इमांस्तिलान्सम्प्रददे ॥३॥ हिरण्यदानम्-

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं॰ ॥४॥

आज्यदानम् –

कामधेनुसमुद्भूतं सर्वक्रतुषु संस्थितम् ।
देवानामाज्यमाहार अतः शान्तिं॰ " ॥५॥

वस्त्रदानम् –

शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शांतिं॰ ॥६॥

धान्यदानम् –

‌ धन्यं करोति दातारं इहलोके परत्र च ।
प्राणिनां जीवनं धान्यमतः शांतिं॰ ॥७॥

गुडदानम् –

गुडमिक्षुरसोध्दूतं सर्वप्राणिमनोहरम् ।
दानेनाऽनेन चैतस्य गृहे लक्ष्मी स्थिरा भवेत् ॥८॥

रौप्यदानम्–

रुद्रनेत्रसमुद्भूतं विष्णुशङ्करवल्लभम् ।
पितृप्रीतिकरं रौप्यमतः॰ ॥९॥

लवणदानम् —

रसानामग्रजं श्रेष्ठं लवणं बलवर्धनम् ।
तस्मादस्य प्रदानेन अतः॰ ॥१०॥

इति दशदानानि ।।

षोडशदानानि

अथ षोडशदानानि -

रुद्राक्षं सोदकुम्मञ्च वासो लिङ्गं तथा तिलम् ।
पादुकां व्यजनं छत्रं श्रीखण्डं भस्मचन्दनम् ।।
सौवर्णं रौप्यदानञ्च दीपदानमतः परम् । फलं ताम्बूलदानञ्च दद्यात्प्रेतत्वमुक्तये

इति ॥ रुद्राक्ष॰–

रुद्रनेत्रसमुद्भूतान्रुद्राक्षाञ्छिववल्लभान् ।
रुद्रप्रियान्प्रदास्यामि प्रीतो भवतु शङ्करः ॥१॥

उदकुम्भ॰–

ब्रह्मणा प्रथमं सृष्टा अघमर्षणहेतवः ।
आपो युष्मत्प्रदानेन तृप्यन्तु मम देवताः ॥

अथवा-

वारिणा पूरितं पात्रं तापत्रयनिवारणम् ।
तस्मादस्य प्रदानेन अतः शां॰ ॥२॥

वासोदानम्-“शीतवातोष्णसन्त्राणं॰” ॥३॥

लिङ्गदा॰ –

लिङ्गमूर्ते महादेव भक्तानामघनाशन ।
तव मूर्तिप्रदानेन प्रीतो भव सदाशिव ॥४॥

तिलदा॰– “तिलाः पापहरा॰” ॥५॥

पादुकादा॰–

कण्टकोच्छिष्ठपाषाणवृश्चिकादिनिवारणे ।
अत्युष्णपांसुशमने पादुके प्रददाम्यहम् ॥६॥

व्यजनदा॰–

व्यजनं वायुदैवत्यं घर्मकाले सुखप्रदम् ।
तस्मादस्य प्रदानेन अतः॰ ॥७॥

छत्रदा॰–

छत्रं वर्षातपत्राणं घर्मकाले सुखावहम् ।
तस्मादस्य॰ ॥८॥

श्रीखण्डदा॰–

लक्ष्मीः श्रीखण्डदेवत्यं सर्वस्वेदनिवारणम् ।
तस्मादस्य॰ ॥९॥

भस्मदानम्–

भस्मप्रिय महादेव महापातकनाशन ।
तद्भस्मनः प्रदानेन मम पापं विनाशय ॥१०॥

चन्दनदानम्–

चन्दनं स्कन्ददैवत्यं प्राणिनामुपकारकम् ।
तस्मादस्य॰ ॥११॥

सुवर्णदानम्– “हिरण्यगर्भ॰ प्रयच्छ मे” ॥१२॥ रौप्यदानम्– “रुद्रनेत्रसमुद्भूतं॰ प्रयच्छ मे” ॥१३॥

दीपदानम्–

परमात्मतनो दीप परमार्थ प्रकाशक ।
आत्मानात्मविवेकं मे जनय त्वं जनार्दन ॥१४॥

फलदानम्– फलं मनोरथफलं पुत्रपौत्रप्रवर्धनम् ।
तस्मादस्य॰ ॥१५॥

ताम्बूलदानम्–

पूगो ब्रह्मा हरिः पर्णं चूर्णं साक्षान्महेश्वरः ।
एतेषां सम्प्रदानेन सन्तु मे भाग्यसम्पदः ॥१६॥

पददानानि

अथ पददानानि –

आसनोपानहौ छत्रं मुद्रिका च कमण्डलुः ।
भाजनं भोजनाधारं पदं सप्तविधं स्मृतम्

इति ॥ आसनदानम् -

आसनं भूमिदेवत्यं जपकाले सुखावहम् ।
तस्मादस्य॰ मे ॥१॥

उपानट्दानम् –

उपानहौ प्रदास्यामि कण्टकादिनिवारणे ।
सर्वस्थानेषु सुखदे अतः शान्ति॰ मे ॥२॥

छत्रदा०– “छत्रं वर्षातप त्राणं घर्म॰मे” ।।३।। मुद्रिकादा–

मुद्रिकामग्निदेवत्यां सदाऽङ्गुलिविभूषणाम् ।
ऊर्मिकां सम्प्रदास्यामि स मे विष्णुः प्रसीदतु ॥४॥

कमण्डलुदा॰–

कमण्डलुं जलधरमृषिप्रीतिकरं सदा ।
तस्मादस्य॰ मे ॥५॥

भाजन॰–

भाजनं धान्यपूर्णञ्च पाकयोग्यमिदं शुभम् ।
पितॄणां भुक्तिदं श्रेष्ठमतः॰ मे ॥६॥

भोजनपात्र०–

इदञ्च भोजनाधारपात्रं पितृसुखावहम् ।
तस्मादस्य॰ मे ॥७॥

शाळिग्रामदा॰–

शाळिग्रामं प्रदास्यामि विष्णुसारूप्यदं शुभम् ।
महापापहरं तेन प्रीयतां मे जनार्दनः ॥

घण्टादानम्–

सर्ववाद्यमयी घण्टा सर्वदेवप्रियङ्करी ।
तस्मादस्याः प्रदानेन प्रसीदन्तु दिवौकसः ॥

शङ्खदा॰–

शङ्खत्वं पुण्यपुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना विधृतो नित्यमतः॰ मे ॥

तिलाद्यष्टदानम्

अथ तिलाद्यष्टदानम्–

तिला लोहं हिरण्यञ्च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्धेनुश्चैकैकं पावनं स्मृतम्

इति ॥ ( तत्र गोभूतिलहिण्यलवणदानान्युक्तानि )

लोहदान॰–

यमस्य यमदूतामायुधानां यमस्य च ।
तुष्टये प्रददाम्येतल्लोहं तुष्टा भवन्तु मे ॥

कार्पास॰–

कार्पासं सर्ववस्त्राणामाधारं सर्ववर्णकम् ।
अपमृत्युहरं यस्मादतः॰ मे ॥

सप्तधान्य॰–

व्रीहीन्यवांश्च गोधूमान्मुद्गान्माषान् प्रियङ्गुकान् ।
चणकांश्च प्रदास्यामि ततः शान्ति॰ मे ॥

क्षीरदा॰–

अलक्ष्मीहरणं नित्यं सुखसौभाग्यवर्धनम् ।
क्षीरं मङ्गलमायुष्यमतः॰ मे ॥

श्रीगन्धदा॰–

मलयाचलसम्भूतं सदा मोदकरं नृणाम् ।
श्रीगन्धं सौरभोपेतमतः॰ मे ॥

नळिकेर॰–

फलप्रदो यो भगवान्त्सुकृतानां जनार्दनः ।
नाळिकेरप्रदानेन स मे विष्णुः प्रसीदतु ॥

कूष्माण्डदा॰–

कूष्माण्डं बहुबीजाढ्यं ब्रह्मविष्णुशिवात्मकम् ।
तस्मादस्य॰ मे ॥

रम्भाफलदा॰–

रम्भाफलं रुचिकरं विष्णुप्रीतिकरं नृणाम् ।
तुष्टिदं पुष्टिदं नित्यमतः॰ मे ॥

कांस्यपात्र॰–

यानि पापान्यनेकानि देहस्थानि गुरूणि च ।
कांस्यपात्रप्रदानेन तानि नश्यन्तु केशव ॥

वैतरणी॰–

सद्यो वैतरणीनद्यास्तारिणी शुभदा तरीः ।
तस्मादस्याः प्रदानेन स मे विष्णुः प्रसीदतु ॥
यममार्गे महाघोरे प्राप्तां वैतरणीं नदीम् ।
तर्तुकामो ददाम्येतां तुभ्यं वैतरणीं नमः ॥

शाकदा॰–

सर्वदेवप्रियकरं शाकं तृप्तिकरं नृणाम् ।
ददामि सर्वभद्राणि मम सन्तु मनोरथाः।।

कटुत्रय॰–

कटुत्रयसमायुक्तं रोगघ्नं पापनाशनम् ।
तस्मादस्य॰ मे ॥

कम्बलदा॰–

ऊर्णाच्छादनसुश्लाघ्यं शीतवातभयापहम् ।
तस्मादस्य॰ मे ।।

वैतरणीगोदानम्

॥ वैतरणीगोदानम् ॥ कार्पासोपरि सप्तधान्यानि निधाय, पाटलां कृष्णां वा हेमशृङ्गां रौप्यखुरां कृष्णवस्त्रयुगच्छन्नां कण्ठे घण्टासमन्वितां कांस्यपात्रोपदोहिनीं गां सन्निधाप्य, घृतपूरितकांस्यपात्रे लोहदण्डसमन्वितं हैमं यमं विन्यस्य, एकस्मिन्गर्ते प्रभूतं जलं प्रपूर्य तत्र पट्टसूत्रवेष्टितां इक्षुमयीं नावं निधाय नौकोपरि सवत्सां धेनुं संस्थाप्य, तिथ्यादि सङ्कीर्त्य

अमुक गोत्रस्य॰ प्रेतस्य ( पितुः ) यममार्गस्थितवैतरणीतरणार्थं गोदानं करिष्ये

इति सङ्कल्प्य, जलशुद्धिं कृत्वा यमं षोडशोपचारैस्सम्पूज्य प्रार्थयेत्-"

भव सागरमग्नानां शोकतापोर्मिदुःखिनाम् ।
त्राता त्वं हि जगन्नाथः शरणागतवत्सलः

इति ॥ ततो द्विजं वृत्वा यथाविभवं सम्पूज्य, “जातवेदसे सुनवाम” इति मन्त्रेण नौकापूजनं गोपूजनं च कृत्वा

मम पितुः॰शर्मणः वैतरणीनदीतरणार्थं इमां गां सवत्सां यमप्रतिमायुतां रुद्रदेवत्यां अमुकगोत्रस्य॰ शर्मणे सम्प्रददे

इति तिलोदकधारायुतं गोपुच्छं विप्रहस्ते दत्वा सर्वं प्रदक्षिणीकृत्य प्रार्थयेत्-

विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणी नमः॥
यममार्गे महाघोरे तां नदीं शतयोजनाम् ।
तर्तुकामो ददाम्येतां तुभ्यं वैत॰ नमः ॥
धेनुके तं प्रतीक्षस्व यमद्वारमहापथे ।
उत्तारणार्थं देवेशि वैतरण्यै नमो नमः ॥
या लक्ष्मीः सर्वभूतानां या च देवे प्रतिष्ठिता ।
धेनुरूपेण सा देवी प्रेत ( पितृ) पापं व्यपोहतु

इति ॥ ततः प्रतिग्रहीतुः

देवस्य त्वा॰ रुद्राय गाम् ।
तयाऽमृतत्वमश्याम्॰ प्रति गृह्णातु

इति प्रतिग्रहमन्त्रः ॥

प्रेतघटदानम्

प्रेतघटदानम् ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम पितुः॰ गोत्रस्य॰ शर्मणः प्रेतत्वदुर्गतिसर्वाऽशुभनिवृत्यर्थं प्रेतघटदानं करिष्ये

इति सङ्कल्प्य सुवर्णाद्यन्यतमनिर्मितं घटं क्षीराज्याभ्यां प्रपूर्य, मध्ये-ब्रह्मविष्णुमहेश्वरान्, अष्टदिक्षु-लोकपालांश्चावाह्य सम्पूज्य गोत्रोच्चारणपूर्वकं ब्राह्मणाय सदक्षिणाकं इमं प्रेतघटं दद्यात् ।

देवस्य त्वा॰ पूष्णो हस्ताभ्यां प्रतिगृह्णामि राजा त्वा॰दक्षिणे समुद्रायाऽऽपः ।
ताभिरमृतत्व प्रतिगृह्णातु

अनेन प्रतिगृह्णीयात् ।।

शय्यादानम्

शय्यादानम् ॥ अष्टदलपङ्के तिलप्रस्थं निक्षिप्य तद्बहिः शय्यापरिमितचतुरस्रं विलिख्य मञ्चके पट्टसूत्रैर्वितानितां हंसतूलप्रतिच्छन्नां शीर्षोपधानिकां प्रच्छादनपटीयुतां शय्यामास्तीर्य ईशानादिविदिक्षु शिरोभागे च घृतकुङ्कुमगोधूमजलपूर्णकुम्भमुच्छीर्षे घृतपूर्णकलशं सप्तधान्यानि च संस्थाप्य चामरव्यजनासनभाजनभृङ्गारकादर्शादीनि तथा कज्जलालक्तकुङ्कुमवस्त्रभूषणादीनि शयनोपकरणानि विन्यस्य शय्यामध्ये हैमीं लक्ष्मीनारायणप्रतिमां संस्थाप्य शय्यापरितोऽष्टदिक्षु अष्टौ दीपान् प्रज्वाल्य,

अद्येत्यादि॰ पितुः॰ शर्मणः समस्तपापक्षयपूर्वकं सुखनिवाससिध्यर्थं शय्यादानं करिष्ये

इति सङ्कल्प्य, शय्यास्थितप्रतिमायां लक्ष्मीनारायणौ तत्परितः अष्टौ लोकपालान्ग्रहांश्चावाह्य सम्पूज्य प्रार्थयेत्-

यथा कृष्ण त्वदीयाऽस्ति शय्या क्षीरोदसागरे ।
तथा भूयादशून्येयं मम जन्मान जन्मनि

इति ॥ ततस्तदुपरि श्रुतिशीलसम्पन्नं सपत्नीकं ब्राह्मणमुपवेश्य गन्धपुष्पवस्त्राभरणभूषणोष्णीषोत्तरीयभाजनभोजनादिभिरभ्यर्च्य

मृदु ह्यबीजकार्यासपूरितं सुखदं नृणाम् ।
सोपस्करं ददाम्येतत्सुखं स्यात्सर्वदा पितुः ॥
इमां यथाशक्त्यलङ्कृतां लक्ष्मीनारायणप्रतिमायुतां अङ्गिरोदेवतां दक्षिणासहितां शय्यां अमुकगोत्रोत्पन्न॰ सपत्नीकाय तुभ्यमहं सम्प्रददे

इति शय्योपवेशितविप्रहस्ते साक्षतकुशोदकमुत्सृजेत् ॥ ततः प्रदक्षिणनमस्कारान्कृत्वा प्रार्थयेत्य-

यथाह्यशून्यं शयनं केशवस्य शिवस्य च ।
शय्या ममाप्यशून्याऽस्तु तथा जन्मनि जन्मनि

इति ॥ ततः प्रतिग्रहीतुः -

देवस्य त्वा॰ मनवे तल्पम् ।
तेनामृतत्व॰ प्रतिगृह्णातु

इति प्रतिग्रहमन्त्रः ॥

गोदानम्

गोदानम् ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम पित्रादिकुलशतनरकोत्तारणपूर्वकं धेनुवत्सरोमसङ्ख्यावत्सरावधि देवलोकमहिमत्वसिध्या ब्रह्मलोकावाप्त्यर्थं सवत्सगोप्रदानं करिष्ये, तदादौ गणपतिपूजनं ब्राह्मणपूजनं गोपूजनञ्च करिष्ये,

इति सङ्कल्प्य, गणपतिं सम्पूज्य जलशुद्धिं कृत्वा गोत्रोच्चारपूर्वकं गोप्रतिग्रहीतारं ब्राह्मणं वृत्वा पूजयेत्-

तव पादोदकं तीर्थं मुखे वेदाः प्रतिष्ठिताः ।
पाद्यं गृहाण विप्रेन्द्र भूमिदेव नमोऽस्तु ते

इति पाद्यम् ॥

भूमिदेवाग्रजन्मासि त्वं विप्र पुरुषोत्तम ।
प्रत्यक्षं यज्ञपुरुष अर्घोऽयं प्रतिगृह्यताम्

इत्यर्घ्यम् ॥ आचमनीयं, वस्त्रयज्ञोपवीतगन्धालङ्कारपुष्पधूपदीपान्, भोजनपर्याप्तमामं, यथाशक्ति दक्षिणां, ताम्बूलञ्च दत्वा,

इत्यर्घ्यम् ॥ आचमनीयं, वस्त्रयज्ञोपवीतगन्धालङ्कारपुष्पधूपदीपान्, भोजनपर्याप्तमामं, यथाशक्ति दक्षिणां, ताम्बूलञ्च दत्वा,

यदर्चनं कृतं विप्र तव विष्णुस्वरूपिणः ।
तत्सर्वं मम दानस्य विष्णवेऽस्तु समर्पणम्

इति प्रार्थयेत् ॥ ततो हिरण्यशृङ्गीं रौप्यखुरां पट्टदुकूलवस्त्राद्यैरलङ्कृतां आदर्शभालां कञ्जलनेत्रां स्रग्घण्टाबद्धकण्ठां ताम्रपट्टयुतपृष्ठां मुक्ताफलमालायुतपुच्छां कांस्यपात्रोपदोहिनीं सवत्सां गां संस्थाप्य तत्परितः कस्तूरिकागन्धान् सप्तधान्यानि घृतपूर्णकुम्भञ्च परिकल्प्य देवता आवाहयेत्-

शृङ्गमूलयोः - ब्रह्मविष्णुभ्यां नमः ब्रह्मविष्णू आवाहयामि । एवमेव शृङ्गाग्रयोः सर्वतीर्थानि॰ । लालाटे - महादेव॰ । ललाटाग्रे - महादेवीं॰ । नासावंशे - षण्मुखं॰ । कर्णयोः - अश्विनौ॰ । चक्षुषोः - शशिभास्करौ॰ । दन्तेषु - वायुं॰ । जिह्वायां - वरुणं॰ । हुङ्कारे - सरस्वतीं॰ । गण्डयोः - यमधर्मौ॰ । ओष्ठयोः - सन्ध्ये॰ । ग्रीवायां - इन्द्रं॰ । कुक्षौ - रक्षांसि॰ । उरसि - साध्यान्॰ । चतुष्पादेषु- धर्मं॰ । खुरमध्ये - गन्धर्वान्॰ । खुराग्रे- पन्नगान्॰ । खुरपार्वेषु - अप्सरसः॰ । पृष्ठे - एकादशरुद्रान्॰ । सर्वसन्धिषु - वसून्॰ । श्रोणीतटे - पितॄन्॰ । लाङ्गले – सोमं॰ । वालेषु - आदित्यरश्मीन्॰ । गोमूत्रे - गङ्गां॰ । क्षीरे - सरस्वतीं॰ । दध्नि - नर्मदां॰ । सर्पिषि - हुताशनं॰ । रोमसु - त्रयस्त्रिंशत्कोटिदेवान्॰ । उदरे - पृथिवीं॰ । पयोधरेषु - चतुस्सागरान्॰ ।

इत्यावाह्य पूजयेत् - सौरभेयि सर्वहिते पवित्रे पापनाशिनि ।
गृह्णीष्वैतन्मया दत्तं पाद्यं त्रैलोक्यवन्दिते ॥
भूर्भुवः सुवः रुद्ररूपिण्यै गवे नमः

पाद्यं समर्पयामि ॥

सर्वदेवमये देवि सर्वतीर्थमये शुभे ।
गृहाणार्घ्यं मया दत्तं सौरभेयि नमोऽस्तु ते ॥

अर्घ्यम्॰ ॥

देहस्थिताऽसि रुद्राणी शङ्करस्य प्रिया सदा ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।।

आचमनीयं॰॥

या लक्ष्मीः सर्वलोकेषु या च देवेष्ववस्थिता ।
धेनुरूपेण सा॰ व्यपोहतु ॥

स्नान॰ ॥ “गोसूक्तेन स्नापयेत्” ॥

आच्छादनं गवे दद्यां सम्यक्शुद्धं सुशोभनम् ।
सुरभिर्वस्त्रदानेन प्रीयतां परमेश्वरी ॥

वस्त्रं॰॥

सर्वदेवमये देवि चन्दनं चन्द्रसन्निभम् ।
कस्तूरीकुङ्कुमाढ्यञ्च सुगन्धि प्रतिगृह्यताम् ॥

चन्दनं॰ ॥

माल्यादिनि सुगन्धीनि मालत्यादीनि शोभने ।
मया दत्तानि देवेशि प्रीत्यर्थं प्रतिगृह्यताम् ॥

पुष्पाणि॰ ॥

देवद्रुमरसोद्भूतो गोघृतेन समन्वितः ।
प्रयच्छामि महाभागे धूपोऽयं प्रतिगृह्यताम् ।।

धूपं॰ ।।

आनन्दकृत्सर्वलोके देवानाञ्च सदा प्रियः ।
गौस्त्वमादिजगन्नाथो दीपोऽयं प्रतिगृह्यताम् ॥

दीपं॰ ॥

सुरभिस्त्वं जगन्मातर्देवि विष्णुपदे स्थिता ।
सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस ॥
सौरभेय्यः सर्वहिताः पवित्राः पुण्यराशयः ।
प्रतिगृह्णन्त्विमं ग्रासं गावस्त्रैलोक्यमातरः ॥

नैवेद्य॰ ॥ फलताम्बूलदक्षिणाः समर्प्य नीराज्य ॥

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥
पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ ।
तासां मध्ये तु या नन्दा तस्यै देव्यै नमो नमः ॥

नमस्कारं॰ ।।

गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो गे हृदये नित्यं गवां मध्ये वसाम्यहम् ॥

प्रदक्षिणाः॰ ॥ “हिङ्कृण्वती वसुपत्नी॰” ॥ पुष्पाञ्जलिं॰ ॥

गावः प्रतिष्ठा भूतानां गावस्स्वस्त्ययनं महत् ।
अन्नमेव परं गावो देवानां हविरुत्तमम् ।।
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ।
हविषां मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥
ऋषीणामपि होतॄणां गावो होमे प्रतिष्ठिताः ।
सर्वेषामेव भूतानां गावः शरणमुत्तमम् ॥
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ।
गावः सर्वस्य लोकस्य गावो धन्याः सनातनाः ॥
गावो ममाऽग्रतः॰ मध्ये वसाम्यहम् ।।

प्रार्थनां॰ ॥ इति संपूज्य गोवत्सपुच्छयोर्गृहीत्वा -

यज्ञसाधनभूताया विश्वस्याऽघौघनाशिनी ।
विश्वरूपधरो देवः प्रीयतामनया गवा ॥
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेन अतः शान्तिं प्रयच्छ मे ॥

इमां गां रुद्रदैवत्यां दोग्ध्रीं सवत्सामव्यङ्गां सर्वाभरणभूषितां गन्धाद्युपचारैः पूजितां पूर्वसङ्कल्पितसर्वमनोरथप्राप्तये श्रीमहाविष्णुप्रीत्यर्थं (अमुक गोत्राय॰ ) शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ॥ गौस्तारयतु, पुण्यं वर्धतां, शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु, वृद्धिरस्तु, अविघ्नमस्तु, आरोग्यमस्तु, शिवं कर्मास्तु, कर्मसमृद्धिरस्तु, धर्मसमृद्धिरस्तु, अहरहरभिवृद्धिरस्तु, कल्याणाभ्युदयोऽस्तु । अनेन रुद्रस्वरूपिणीगोप्रदानेन महाविष्णुः प्रीयताम् ॥ स्वस्त्यस्तु दीर्घमायुः॰ शिवा आपः सन्तु, सौमनस्यमस्तु, अक्षतञ्चाऽरिष्टं चास्तु ॥ दानस्य प्रतिष्ठासिध्यर्थमिदं यथाशक्ति सुवर्णं अग्निदैवत्यं विष्णुस्वरूपिणे गोप्रतिग्रहीत्रे ब्राह्मणाय तुभ्यमहं सम्प्रददे न मम ॥ ततः प्रतिग्रहीता -

देवस्य त्वा॰ पूष्णो हस्ताभ्यां प्रतिगृह्णामि ॥ राजा त्वा वरुणो नयतु देवि दक्षिणे रुद्राय गाम् ॥ तया मृतत्वमश्याम् ॥ वयो दात्रे । मयो महामस्तु प्रतिग्रहीने ॥ क इदं कस्मा अदात् ॥ कामः कामाय ।। कामो दाता ॥ कामः प्रतिग्रहीता ॥ कामँ समुद्रमाविश ॥ कामेन त्वा प्रतिगृह्णामि ॥ कामैतत्ते ॥ एषा ते कामदक्षिणा ॥ उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु

इति प्रतिगृह्णीयात् ॥ ततो विप्रं प्रार्थयेत्-

त्वं सर्वदेवगणमन्दिरसर्वभूतविश्वेश्वरत्रिपथगोदधिपर्वतानाम् । तद्दानशक्तिशलटीकृतपापकोटिः प्राप्तोऽस्मि निर्वृतिमतीव परां नतोऽस्मि

इति ॥ ततो भूयसीं दक्षिणां दत्वा कर्मेश्वरार्पणं कुर्यात्॥