एकोदिष्टविधिः
( आद्यश्राद्धविधिः ) ॥ (बो. ग. सू. ३. १२. ६-१४ ) अथैकोद्दिष्टेषु नाऽग्नौकरणं नाऽभिश्रावणं न पूर्वं निमन्त्रणं न दैवं न धृपं न दीपं न स्वधा न नमस्कारो नात्राऽपूपम् ।। सर्वं सिद्धं समानीयाऽयुग्मान्ब्राह्मणान्त्सुप्रक्षाळितपाणिपादानप आचमय्य सदर्भोपक्लृप्तेष्वासनेषूपवेश्य सर्वस्मात्सकृत्सकृत्समवदायाऽभिधार्य दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात् -
प्रेतायाऽमुष्मै यमाय च स्वाहा
इति। तद्धुतमहुतञ्च भवति ।। अमुष्मै तृप्तिरस्त्वित्यपां प्रतिग्रहणं विसर्जनञ्च । अमुष्मा उपतिष्ठत्वित्यनुदेशनमाशयेष्वेव पिण्डदानं तृप्यस्वोति सङ्क्षाळनं तृप्तिरस्त्विति विसर्जनमस्तु तृप्तिरितीतरेषां प्रतिवचनम् ।। प्रेतस्य द्वितीयाप्रभृति ब्राह्मणभोजनैरेकोत्तरवृद्धिरादशाहात् ।। अत्र नवं विच्छिद्येत ॥ एकादश्यां श्राद्धं तृतीये पक्षे द्वितीयं सन्ततमेकैकेनैकादश मासान्नयन्ति न द्वादश मासमभ्यारोहन्ति ॥ संवत्सरे सपिण्डीकरणं साऽग्नौकरणं साभिश्रावणं सपूर्वं सदैवं सधूपं सदीपं सस्वधा सनमस्कारं साऽपूपम् ।। अथाप्युदाहरन्ति -
एकोद्दिष्टे नवश्राद्धे नाग्नौकरणमिष्यते।
न चाऽभिश्रावणं कुर्यान्न च पूर्वन्तु कारयेत् ॥
प्रणामञ्च न कुर्वीत स्वधाकारं तथैव च ।
उर्ध्वं संवत्सरात्प्रेतः पितृत्वमुपपद्यते ॥
(बो. पि. सू. २. ९) अथैकोद्दिष्टेष्वादित एव प्राचीनावीतं कृत्वा दक्षिणाप्रत्यक्प्रवणं स्थण्डिलं कृत्वा सकृदुल्लिख्याऽद्भिरभ्युक्ष्याऽग्निं प्रतिष्ठाप्य परिस्तृणाति - पुरस्ताद्दक्षिणाग्रानुत्तरतः प्रागग्रान्पश्चाद्दक्षिणायान्दाक्षिणतः प्रागग्रानुत्तरानुत्तरान्द दक्षिणानधरान् । दक्षिणेनाऽग्निं दक्षिणाग्रान्दर्भान् संस्तीर्य तेष्वैककेशान्यञ्चि पात्राणि संसादयति-अथाज्यस्थालीं स्रुवमौदुम्बरं दर्वीं तिलोदकपात्रं प्रोक्षणीपात्रमुद्धरणीयं पात्रमिति ॥ तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य सिद्धमोदनं सविशेषमानीय दक्षिणतो निधाय नाऽत्राऽपूपमथाज्यं निर्वपति ॥ दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रित्याऽभिद्योतनेनाऽभिद्योत्य दर्भाग्रं प्रत्यस्य पुनरभिद्योत्य सिद्धमोदनं सहापसलैः पर्यग्निकृत्वा स्रुवञ्च दर्वीञ्च सम्मृज्य सविशेषमोदनं प्रतिष्ठितमभिघारयति । पवित्रं कृत्वा तिलोदकपात्रे निधायाऽप आनयन्नाह -
आम आगच्छतु प्रेतो देवयानान् समुद्रान् सलिलान् सवर्णानस्मिन् यज्ञे सर्वकामं लभतेऽक्षीयमाणामुपदुह्यतामिमां प्रेताय वो गृह्णामि
इति पुंसाम् ।
प्रेता देवयानान्॰ प्रेतायै वो गृह्णामि
इति स्त्रीणाम् ॥ अपोद्धृत्य पवित्रं तिलानावपति -
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्नबद्भिः प्रत्नयेहि प्रेतमिमान् लोकान् प्राणयाहि नः
इति पुंसाम् । ‘प्रेताम्’ इति स्त्रीणाम् ॥ अथ तिरः पवित्रं मध्वानयति
मधु वाता ऋतायते
इति तिसृभिरनुच्छन्दसम् ॥ अथैनत्सर्वाभिरङ्गुलीभिस्समुदायुत्याऽभिमृशति-
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि
इति ॥ तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्योमां दिशं निरस्यति -
अवेष्टा दन्दशूका निरस्तं नमुचेश्शिरः
इति ॥ अथाऽप उपस्पृश्य पुनरेवाऽभिमृशति –
शन्नो देवीरभिष्टये । आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः
इति॥ अथैनद्गन्धपुष्पैरभ्यर्च्य दक्षिणाग्रैर्दर्भैः प्रतिच्छाद्य भोजनस्थानेष्वासनेषु च तिलान् सिकताश्च सम्प्रकिरति –
अपहता असुरा रक्षा ँसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रास्य गतं मनः
इति पुंसाम् । ‘यत्रास्या गतं मनः’ इति स्त्रीणाम् ॥ अथैनदद्भिरवोक्षति –
उदीर्तामवर उत्पर उन्मध्यमः प्रेतस्सोम्यः ।
असुं य इयायावृक ऋतज्ञस्स नोऽवतु प्रेतो हवेषु
इति पुंसाम् ॥
उदीर्तामवरोत्परोन्मध्यमा प्रेता सोम्या ।
असुं येयायावृकर्तज्ञा सा नोऽवतु प्रेता हवेषु
इति स्त्रीणाम् ॥ अथ प्रेतमावाहयति -
आयाहि प्रेत सोम्य गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददद्रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च
इति पुंसाम् ।
आयाहि प्रेते सोम्ये गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददती रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च
इति स्त्रीणाम् ॥ अथ ब्राह्मणानाहूय सुप्रक्षाळितपाणिपादानप आचमय्य सदर्भोपक्लृप्तेष्वासनेषूपवेश्य तेषां सपवित्रेषु पाणिषु तिलोदकं ददाति - ‘अमुष्मै तृप्तिरस्तु’ इति ‘अस्तु तृप्तिः’ इतीतरेषां प्रतिवचनम् ॥ अथैनान् वस्त्रगन्धपुष्पमाल्यैस्सम्पूज्य शुद्धोदकं दत्वा पूर्ववत्तिलोदकम् ॥ अथैनान्मृच्छति – ‘करिष्यामि’ इति। ‘कुरुष्व’ इतीतरे प्रत्याहुः ॥ अथाऽभ्यनुज्ञातो दर्व्यामुपस्तीर्य सर्वस्मात्सकृत्सकृत्समवदायाऽभिघार्य दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात् –
प्रेतायाऽमुष्मै यमाय च स्वाहा
इति । तद्धुतमहुतञ्च भवति ॥ अथैतानि ब्राह्मणेभ्य उपनिक्षिप्य दक्षिणाग्रेषु दर्भेषु सादयित्वा दर्भैः प्रतिच्छाद्याऽभिमृशति-
पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य त्वा विद्यावतः प्राणापानयोर्जुहोम्यक्षितमसि मा प्रेतस्य क्षेष्ठा अमुत्राऽमुष्मिन्लाके
इति ॥ अथैतानि ब्राह्मणेभ्य उपनिक्षिप्य ब्राह्मणस्याऽङ्गुष्ठेनाऽनखेनाऽनुदिशति– ‘अमुष्मा उपतिष्ठतु’ इति । भुञ्जानान् समीक्षते–
प्राणे निविष्टोऽमृतं जुहोमि’
इति पञ्च
ब्रह्मणि म आत्माऽमृतत्वाय
इत्यात्मानम् । न चाऽत ऊर्ध्वं निरीक्षते । तृप्तानप आचमय्य ‘स्वदितमुच्यताम्’ इति ‘अस्तु स्वदितम्’ इतीतरेषां प्रतिवचनम् ॥ पूर्ववत्तिलोदकं दत्वाऽऽशयेष्वन्नशेषैः पिण्डं ददाति –‘अमुष्मा उपतिष्ठतु’ इति, सङ्क्षाळनेनाऽपसव्यं ‘तृप्यस्व’ इति परिषिच्य दक्षिणां दत्वाऽक्षय्यं वाचयित्वा यज्ञोपवीत्यभिवादनं कृत्वा उत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्याऽन्नशेषान्निवेदयते । यथा ब्रूयुस्तथा कुर्यात् । तृतीये पक्षे द्वितीयम् । सन्ततमेकैकेनैकादशमासान्नयन्ति । न द्वादश मासमभ्यारोहन्ति ॥
( बो. पि. सू. २. १० ) अथैकोद्दिष्टे प्राप्ते विप्राभावे द्रव्याभावे वा कथमत्र कुर्यादिति ? । द्वात्रिंशत्कवळेन सघृतपायसेनाऽग्नावेव कुर्यादिति विज्ञायते ।। अथ कर्ता स्नात्वा शुचौ देशे ब्राह्मणानाहूयाऽनुज्ञाप्य पूर्ववत्प्रेतावाहनान्तं कृत्वाऽग्निंप्रेताकारं ध्यात्वाऽऽसनं पाद्यमाचमनीयं तिलोदकं चाऽग्निसमीपे दक्षिणतो दत्वाऽथ तिलगन्धपुष्पमाल्यैरग्निमभ्यर्च्य तथा तिलोदकम् । अथ ब्राह्मणैरनुज्ञातोऽग्निं परिषिच्य व्याहृतीभिर्तुत्वा प्रेताहुतिं जुहुयात्। तस्मिन्हविषि मुष्टिप्रमाणं घृततिलमिश्रमुपस्तीर्णाऽभिघारितं द्वात्रिंशत्कवळं दर्व्या जुहोति-
यमाय सोमं, यमाय घृतवत्
इति द्वाभ्याम् ॥ अथ दर्वीं प्रहृत्याऽभिहुत्य तिलोदकं चरुशेषेण पिण्डञ्च दत्वा तिलोदकपात्रमानीय ‘तृप्तिरस्तु’ इति परिषिच्यापसव्यमथ ब्रह्मसमूहमग्निञ्च प्रदक्षिणीकृत्य यथाशक्ति दक्षिणां दत्वा ‘प्रेततृप्तिरस्तु’ इति वाचयित्वाऽऽशिषो वाचयित्वाऽथ व्याहृतीभिर्तुत्वा दर्भान्प्रहृत्याऽग्निं परिषिच्य पिण्डमप्सु प्रक्षिप्य स्नात्वा पुण्याहं वाचयित्वा प्रोक्षति ॥ अथाप्युदाहरन्ति-
आद्यश्राद्धे तु सम्प्राप्ते विप्राभावे कथं भवेत् ।
द्रव्याभावे तु कुर्वीत चरुणा पायसेन तु ॥
अग्नौ हुत्वा यमायेति द्वाभ्यां द्वात्रिंशदाहुतीः।
प्रेतस्तृप्तिमवाप्नोति पुण्यलोके महीयते॥
इति ॥ अथ नवश्राद्धं विच्छिद्येतैतस्मिन्नह्नि कुर्यात्, अथाप्युदाहरन्ति-
चतुर्थे पञ्चमे चैव नवमैकादशेहनि ।
यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते॥
एकोद्दिष्टे नवश्राद्धे यदि विघ्नः प्रवर्तते ।
तिथिवारादिभिः कुर्यात्प्राप्तमेकादशेऽहनि ॥
इति ॥ बोधायनः –
एकोद्दिष्टान्त एवस्यात्संस्कर्तुः शुद्धता त्वघात् ।
पिण्डोदकप्रदानैश्च पुण्याहोक्त्या विशुध्यति॥
एकोद्दिष्ट आद्यश्राद्धप्रयोगः
एकोद्दिष्ट आद्यश्राद्धप्रयोगः। तच्चेदानीं भोक्तृविप्राभावात्प्रायः सर्वत्राऽग्नावेव क्रियते । प्रातः कृतवृषोत्सर्गो मध्याह्ने नदीतीरादौ शुचौदेशे दर्भेष्वासीन एकदर्भपवित्रपाणिराचम्य प्राणानायम्य (प्राचीनावीती) देशकालौ सङ्कीर्त्य
अमुकगोत्रस्य॰ ॥ प्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थमद्यैकादशेऽहनि अग्नावाद्यश्राद्धं करिष्ये
इति सङ्कल्प्य कलशार्चनं ब्रह्मदण्डञ्च कृत्वा दक्षिणाप्रत्यक्प्रवणं स्थण्डिलं कृत्वा सकृदुल्लिख्याऽद्भिरवोक्ष्य लौकिकाऽग्निं प्रतिष्ठाप्य
एकोद्दिष्टहोमः कर्म, पैतृकं तन्त्रम्, क्रव्यादो नामाग्निः, प्रेतो यमश्च देवता, सविशेषमन्नं हविः, सद्यो यक्ष्ये,
इत्यादि सङ्कल्प्याऽन्वाधायाऽग्निं परिसमूह्य पर्युक्ष्य पुरस्ताद्दक्षिणाग्रेरुत्तरतः प्रागग्रैः पश्चाद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैरपसव्यं परिस्तीर्योत्तरान्दर्भान्पूर्वपश्चिमपरिस्तरणयोरुपरि कुर्याद्दक्षिणांस्तयोरधः। दक्षिणेनाग्निं दक्षिणाग्रेषु दर्भेषु आज्यस्थालीमौदुम्बरं स्रुवमौदुम्बरीं दर्वीं तिलोदकपात्रं प्रोक्षणीपात्रमुद्धरणीयं पात्रं सविशेषान्नपात्रं समेक्षणञ्चैकैकशः सादयित्वा, एकदर्भपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि सकृत्प्रोक्ष्य सिद्धमन्नं सविशेषमानीय सकृन्निरुप्य दक्षिणतो निधाय सकृत्प्रोक्ष्य दक्षिणत आज्यं निरुप्य तत्रैव भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रित्याऽभिद्योतनेनाऽभिद्योत्य दर्भाग्रं प्रत्यस्य पुनरभिद्योत्याऽप्रदक्षिणमुभयं पर्यग्निकृत्वा आज्यं दक्षिणत उद्वास्य उत्पूय स्रुवं दर्वीं मेक्षणञ्च सम्मृज्य सविशेषमोदनमभिघार्य दक्षिणत उद्वास्य प्रतिष्ठिताऽभिधारणान्तं कृत्वा तिलोदकपात्रे दक्षिणाग्रं पवित्रं निधायाऽप आनयति-
आम आगच्छतु प्रेतो देवयानान् समुद्रान् सलिलान् सवर्णान् । अस्मिन्यज्ञे सर्वकामं लभतेऽक्षीयमाणामुपदुह्यताम्, इमा अमुकप्रेताय वो गृह्णामि
इति ।। (स्त्रीणाञ्चेत्-
आम आगच्छतु प्रेता देवयानान्॰ दुह्यताम्, इमा अमुकप्रेतायै वो गृह्वामि
इति ) । पवित्रमपोद्धृत्य तिलानावपति-
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः प्रत्नयेहि प्रेतमिमान् लोकान् प्रीणयाहि नः
इति ॥
(“प्रेतामिमान्”, इति स्त्रीणाम् ) तिरः पवित्रं मध्वानयति-
मधुवाता॰ माध्वीर्गावो भवन्तु नः
इति तिसृभिः प्रत्यृचम् । अथैनत्सर्वाभिरङ्गुलीभिः समुदायुत्याऽभिमृशति-
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि [[TOTO : परिष्कार्यम्]]
इति ॥ तस्मिन्यत्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन महानाम्न्या चोपसङ्गृह्यमां दिशं निरस्यति –
अवेष्टा दन्दशूका निरस्तं नमुचेः शिरः [[TODO : परिष्कार्यम्]]
इति ॥ अप उपस्पृश्य पुनरेवाऽभिमृशति-
शन्नो देवीरभिष्टये॰ स्रवन्तु नः [[TODO : परिष्कार्यम्]]
इति ॥ अथैनद्गन्धपुष्पैरभ्यर्च्य दक्षिणाग्रैर्दर्भैः प्रतिच्छाद्य भोजनस्थानेष्वासनेषु ससिकततिलान्सम्प्रकिरति-
अपहता असुरा रक्षाँसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्राऽस्य गतं मनः
इति ॥ ( “यत्राऽस्या गतं मनः”, इति स्त्रीणाम् ) अथाऽद्भिरवोक्षति -
उदीर्तामवर उत्पर उन्मध्यमः प्रेतः सोम्यः ।
असुं य इयायाऽवृक ऋतज्ञः सनोऽवतु प्रेतो हवेषु
इति॥ ( स्त्रीणान्तु –
उदीर्तामवरोत्परोन्मध्यमा प्रेता सोम्या ।
असुं येयायाऽवृकर्तज्ञा सा नोऽवतु प्रेता हवेषु
इति) अथाऽग्नौ प्रेतमावाहयति–
आयाहि प्रेत सोम्य गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददद्रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च, अमुकगोत्रममुकशर्माणं प्रेतमग्नावावाहयामि
इति । (स्त्रीणान्तु
आयाहि प्रेते सोम्ये गम्भीरैः॰ प्रजामस्मभ्यं ददती रयिञ्च॰ शारदञ्च, अमुकां प्रेतामावाह्यामि
इति) अग्निं प्रेताकारं ध्यात्वा
अमुकगोत्र॰ प्रेत स्वागतम् । इन्ते आसनम् । अयन्ते क्षणः । एवमेव पाद्यम् । आचमनीयम् । तिलोदकपात्रादुद्धरणीयेनाऽऽदाय
प्रेताय अमुष्मै॰ तृप्तिरस्तु
(स्त्रीणान्तु-
प्रेतायै अमुष्यै तृप्तिरस्तु )
इत्यर्घ्यं चाऽग्निसमीपे दक्षिणतो दत्वा
अमुक॰ प्रेत (प्रेते ) अयन्ते गन्धः । इमे ते तिलाक्षताः । इदन्ते पुष्पम् ।
इत्यग्नौ गन्धादिभिरभ्यर्च्य, पुनस्तथैव तिलोदकपात्रादादायाऽर्घ्यं “इदन्ते अर्घ्यं” इति तिलोदकं दत्वा, “अग्नौ करिष्यामि” इति पृष्ट्वा “कुरुष्व” इति ब्राह्मणैरनुज्ञातोऽग्निमपसव्यं तूष्णीं परिषिच्य, समिधमाधाय व्याहृतीभिराज्यं हुत्वा स्रुवेण दर्व्यामुपस्तीर्य सर्वस्मात् (सव्यञ्जनादन्नात् ) सकृत्सकृदवदायाऽभिधार्य दक्षिणतो भस्ममिश्रानङ्गरान्निरूह्य तेषु पुरस्तात्स्रुवाऽऽहुतिं हुत्वा जुहुयात्-
प्रेताय अमुकगोत्रायाऽमुकशर्मणे यमाय च स्वाहा
इति (स्त्रीणान्तु-
प्रेतायै अमुकगोत्रायै॰ दायै यमाय च स्वाहा
इति ) यथालिङ्गं त्यागः ॥ उपरिष्टात्स्रुवाहुतिं हुत्वाऽथैतेनाऽवशिष्टेन हविषा मुष्टिप्रमाणं घृततिलमिश्रमुपस्तीर्णाऽभिघारितं द्वात्रिंशत्कवळं दा जुहोति-
यमाय सोमं, यमाय घृतवत्,
इति द्वाभ्यां (षोडशाऽऽवृत्ताभ्याम् )
यमाय सोमँसुनुत यमाय जुहुता हविः। यमँ ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः स्वाहा ॥ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे स्वाहा [[TODO : परिष्कार्यम्]]
इति ॥ यमायेदं॰ ॥ प्रत्येकं पुरस्तादुपरिष्टाच्च स्रुवाहुतिं जुहुयात् ॥ अथ दर्वीं प्रहृत्याऽभिहुत्याऽग्निसमीपे दक्षिणाग्रेषु दर्भेषु “मार्जयताममुकप्रेतः” इति तिलोदकं दत्वा
अस्मिन्नाद्यश्राद्धे अमुकप्रेतायाऽयं पिण्ड उपतिष्ठतु
इति चरुशेषेण पिण्डं दत्वा ‘मार्जयताममुकप्रेतः’
(अमुकप्रेतायै अयं पिण्डः मार्जयताममुकप्रेता
इति स्त्रीणाम् ) इति ॥ तिलोदकमञ्जनाऽभ्यञ्जनादिकं दद्यात् ॥ अथाऽर्घ्यपात्रोदकं पात्रसङ्क्षाळनेन सम्मिश्र्य"तृप्यस्व" इति सकृदपसव्यं पिण्डं परिषिच्याऽग्नौ व्याहृतीर्हुत्वा हामशेषं समाप्य ब्राह्मणेभ्यो यथाशक्ति दक्षिणां दत्वा, तान् प्रदक्षिणीकृत्य “प्रेततृप्तिरस्तु, श्राद्धमक्षय्यमस्तु” इत्याशिषो वाचयित्वा पिण्डादिकमन्नशेषञ्चाऽप्सु निक्षिप्य स्नात्वा गृहं गत्वा “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा तज्जलं प्रोक्षेत् ।।