१४ वृषोत्सर्गविधिः

वृषोत्सर्गविधिः

(बो. गृ. शे. सू. ३.१६ ) कार्तिक्यां पौर्णमास्यां क्रियेताऽपि वाऽऽश्वयुज्यां वैशाख्यां वा गोष्ठे गवां मध्ये। अथ देवयजानोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्काज्जुहोति-‘पूषा गा अन्वेतु नः’ इति पुरोनुवाक्यामनूच्य ‘शुकन्ते अन्यत्’ इति याज्यया जुहोति ।। अथाऽऽज्याहुतीरुपजुहोति-

इह धृतिः स्वाहा, इह विधृतिः स्वाहा, इह रन्तिः स्वाहा, इह रमतिः स्वाहा, उपसृजन्मात्रे वत्सं धारयन्धरुणो धयन् रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा

इति । ‘आ गावो अग्मन्’ इत्येतेन सूक्तेन ‘नमस्ते रुद्र मन्यवे’ इत्यान्तादनुवाकस्य ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथ रुद्रं जपित्वा गोमिथुनमध्वर्यवे ददाति ॥ लाजमन्त्रेण त्रिः प्रदक्षिणं परिक्रमयेदेकवर्षो द्विवर्षो वा यूथं छादयति । यूथस्य मुख्याश्चतस्रो वत्सतर्यः स्नाप्याच्छाद्य तिलोदकं गृह्णाति-‘ऋचां प्राची’ इति ॥ अवधूनुयुर्जलबिन्दून्पीत्वा- ‘तृप्ता यान्तु पितरः’ इति । अथैनं मध्ये गोष्वपिसृजति ‘एतं युवानं परि वो ददामि’ इति॥ अपियन्तमनुमन्त्रयते- ‘त्वां गावः’ इति ॥ मध्यस्थमनुमन्त्रयते-‘मयाभूर्वातो अभिवातूस्राः’ इति ॥ सर्वासां। पयसि पायसं श्रपयित्वा ब्राह्मणान्सम्पूज्याऽऽशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ॥ तिर्यग्योनिगताञ्ज्ञातीञ्ज्ञात्यन्तरे वर्तमानान्दुष्कृतैरपरुद्धान्दशपूर्वान्दशाऽपरानात्मानञ्चैकविंशतिपङ्क्तिश्च पुनाति न च पुनरावर्तते न च पुनरावर्तत इति । अथाप्युदाहरन्ति-

एष्टव्या बहवः पुत्रा योद्येकोऽपि गयां व्रजेत् ।
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥
लोहितो यस्तु वर्णेन श्वेतलाङ्गूललक्षणः।
खुरे ककुदि च श्वेतस्स वै नीलवृषः स्मृतः॥

॥ बोधायनः-अथ वृषोत्सर्जनं । तच्च द्विविधम् । काम्यं नैमित्तिकमिति । नैमित्तिकमेकादशाह्निकम् । काम्यं कार्तिक्यां वैशाख्यां ग्रहणे सङ्क्रमेऽपि वा ॥ प्रचेतः–

विहिते च वृषोत्सर्गे त्वलाभे शक्त्यसम्भवे।
प्रेतत्वस्य विमोकार्थं रुद्रानेकादशाऽर्चयेत् ॥

॥ बोधायनः-

तासां पयसि पायसं श्रपयित्या एकादश ब्राह्मणान्भोजयेत् ॥

॥ शातातपः-

एकादशसु विप्रेषु रुद्रानुद्दिश्य भोजयेत् ।
प्रेतत्वस्य विमोकार्थं मधुक्षीरघृताशनैः ॥

स्मृतिरत्ने-

शूलं चक्रमथान्यद्वा लाञ्छनं कारयेत्ततः।
यस्य देवस्य यो भक्तस्तस्य चिन्हं समालिखेत् ॥

स्मृत्यन्तरे -

वृषोत्सर्गे तदा शुक्रबालमौढ्यं न दोषकृत् ॥

॥ वृषाऽभावे स्मृत्यन्तरे-

वृषोत्सर्जनवेलायां वृषाऽभावे कथञ्चन ।
वृष दर्भमयं कृत्वा मन्त्रैः कर्म समाचरेत् ॥

गार्ग्यः–

न प्रेतार्थवृषोत्सर्गे वृद्धिश्राद्धं विधीयते ।
एकोद्दिष्टविधानेन स्वशक्त्या भोजयेद्विजान ॥

वृषोत्सर्गप्रयोगः

वृषोत्सर्गप्रयोगः ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

अमुकगोत्रस्य॰ शर्मणः प्रेतस्य प्रेतत्वविमुक्त्या उत्तमलोकप्राप्त्यर्थं श्रीरुद्रप्रीत्यर्थं वृषोत्सर्गं करिष्ये

इति सङ्कल्प्य “पूषा प्रीयताम्" इति पुण्याहं वाचयित्वा, गोष्ठे गवां मध्ये वा स्थण्डिलोल्लेखनादि लौकिकाऽग्निं प्रतिष्ठाप्य

वृषोत्सर्गहोमः कर्म, आघारमापूर्विकं वा तन्त्रं, पञ्चदश चतस्रो वा सामिधेन्यः, अग्नीषोमावाज्यभागौ, चित्तिर्नामाऽग्निः, पूषा देवता, चरुर्हविः, उपहोमश्च ‘इह धृतिः स्वाहा’ इत्यादिमन्त्रैः सकृत्सकृदाज्येन, अग्निः स्विष्टकृत्, आज्यस्य मान्त्रवर्णिक्यो देवताः

इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वा, स्थाल्यां तण्डुलं सिद्धमोदनं वा निर्वपति

देवस्य त्वा॰ हस्ताभ्यां पूष्णे जुष्टं निर्वपामि

इति त्रिर्यजुषा सकृत्तूष्णीं निरुप्य

देवस्य त्वा० पूष्णे वो जुष्टं प्रोक्षामि

इति । सकृन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्य, आज्यनिर्वापाद्यग्निमुखान्तं कृत्वा पक्काज्जुहोति-

पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः। पूषा वाजँ सनोतु नों३ शुक्रन्ते॰ रातिरस्तु स्याही [[TODO : परिष्कार्यम्]]

इति, पूष्ण इदं॰ ॥ स्विष्टकृतमयदायान्तः परिधौ निधायाऽऽज्याहुतीरुपजुहोति -

इह धृतिः स्वाहा । धृत्या इदं॰ ॥ इह विधृतिः स्वाहा । विधृत्या इदं॰ ॥ इह रन्तिः स्वाहा । रन्त्या इदं॰ ॥ इह रमतिः स्वाहा । रमत्या इदं॰ ॥ उपसृजन्मात्रे वत्सं धारयन्धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्याहा । पुष्टिपतय इदं॰ ॥ आगावों अग्मन्॰ दुहानाः स्वाहा ॥१॥ (अष्टसु, गोभ्य इदं॰ ) इन्द्रो यज्वने॰ देवयँ स्वाहा ॥२॥ न तानशन्ति॰ सह स्वाहा ॥३॥ न ता अर्वा॰ यज्वनः स्वाहा ॥४॥ गावो भगो॰ चिदिन्द्रँ स्वाहा ॥५॥ यूयं गायो॰ सभासु स्वाहा ॥६॥ प्रजावतीः॰ वृञ्ज्यात्स्वाहा ॥७॥ उपेदमुप॰ तव वीर्य स्वाहा ॥८॥ नमस्ते रुद्र॰ मुत ते नमः स्वाहा ॥१॥ ( पञ्चदशसु, रुद्रायेदं॰ ) यात इषुः॰ मृडय स्वाहा ॥२॥ या ते रुद्र शिवा॰ चाकशीहि स्वाहा ॥३॥ यामिषुं॰ जगत्स्वाहा ।।४॥ शिवेन वचसा॰ असत्स्वाहा ॥ ५॥ अध्यवो॰ धान्यः स्वाहा ॥६॥ असौ यस्ताम्रो॰ ईमहे स्वाहा ॥७॥ असौ योऽव॰ हार्यः । उतैन॰ मृडयाति नः स्वाहा ॥८॥ नमो अस्तु॰ करन्नमस्स्वाहा ॥९॥ प्रमुञ्च॰ वप स्वाहा ॥१०॥ अवतत्य॰ भव स्वाहा ॥११॥ विज्यं धनुः॰ निषङ्गथिः स्वाहा ।।१२॥ या ते हेति॰ भुज स्वाहा ॥१३॥ नमस्ते अस्त्वा॰ धन्वने स्वाहा ॥ १४ ॥ परि ते॰ धोहि तँ स्वाहा ॥१५॥ [[TODO : परिष्कार्यम्]]

इति ॥ स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निमर्कपर्णेषु हुतशेषं[^१] निदधाति । -

[१]: हुतशेषनिधानं‌ गृह्यकारिकायामुक्तम् ।।

यो रुद्रो अग्नौ॰ नमो अस्तु [[TODO : परिष्कार्यम्]]

इति । उत्तरपरिषेकादि होमशेषं समाप्य रुद्रजपं कृत्वाऽध्वर्यवे गोमिथुनं दद्यात् ॥ अथ वृषभं प्रदक्षिणमग्निं पर्याणयति-

इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिर्जीवातु शरदः शतम् [[TODO : परिष्कार्यम्]]

इति ॥ अथ वृषभं वत्सतरीश्चोतकेन ‘आपो हि ष्ठादिभिः’ स्नापयित्वा वस्त्रगन्धपुष्पादिभिरलङ्करोति -

शिवस्त्वष्टरिहागहि विभुः पोष उतत्मना । यज्ञे यज्ञेन उदव ॥ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा विष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः [[TODO : परिष्कार्यम्]]

इति द्वाभ्याम् ॥ अथ वृषस्य दक्षिणोरौ शिवालङ्गं त्रिशूलं चाऽग्नितप्तेनाऽयसा विलिख्य तत्र रुद्रं षोडशोपचारैरभ्यर्च्य

भवं देवं तर्पयामि। शर्वं देवं॰ । ईशानं देवं॰ । पशुपतिं देव॰ । रुद्रं देवं॰ । उग्रं देवं॰ । भीमं देवं॰ । महान्तं देवं तर्पयामि

इत्यष्टभिस्तर्पयित्वा प्रार्थयेत् —

सौरभेय सुपुष्टाङ्ग गोपते गतिसाधन ।
हरस्य वहतो भूत्वा विहरस्व यथासुखम् ॥
देवदेव महादेव सर्वदेवोत्तमोत्तम ।
प्रसीद सर्वभावेन त्वामहं शरणं गतः ।
त्वद्रूपिणं वृषमिमं तवाऽग्रेऽभ्युत्सृजाम्यहम् ।
त्वल्लिङ्गचिह्नितं देव तन्मेऽनुज्ञातुमर्हसि ॥
मातः पार्वति शर्वाणि सर्वलोकैकसुन्दरि ।
प्रसादं कुरु मे देवि शान्ते शङ्करवल्लभे ।।

इति ॥ अथ सँशास्त्येनं वृषं स्थापयित्वा

ऋचां प्राचीमहतीदिगुच्यते ॥ दक्षिणामाहुर्यजुषामपाराम् ॥ अथर्वणामङ्गिरसां प्रतीची ॥ साम्नामुदीची महती दिगुच्यते ॥ ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेद तिष्ठति मध्ये है अह्नः ॥ सामवेदे नास्तमये महीयते ॥ वेदैरशून्यस्त्रिभिरेति सूर्यः ॥ ऋग्भ्यो जाताँ सर्वशो मूर्तिमाहुः । सर्वा गतिर्याजुषी हैव शश्वत् ॥ सर्वं तेजः सामरूप्य हशश्वत् । सर्व ँहेदं ब्रह्मणा हैव सृष्टम् ॥ ऋग्भ्यो जातं वैश्यं वर्णमाहुः । यजुर्वेदं क्षत्रियस्याऽहुर्योनिम् ।। सामवेदो ब्राह्मणानां प्रसूतिः । पूर्वे पूर्वेभ्यो वच एतदूचुः ॥ आदर्शमाग्निं चिन्वानाः । पूर्वे विश्वसृजो मृताः ॥ शतं वर्षसहस्राणि । दीक्षिताः सत्रमासत ॥ तप आसीद्गृहपतिः । ब्रह्म ब्रह्माऽभवत्स्वयम् ॥ सत्यँह होतैषामासीत् । यद्विश्वसृज आसत ॥ अमृतमेभ्य उदगायत् । सहस्रं परिवत्सरान् ।। भूत ँ ह प्रस्तोतैषामासीत् । भविष्यत्प्रतिचाऽऽहरत् ॥ प्राणो अध्वर्युरभवत् । इद ँ सर्व ँ सिषासताम् ॥ अपानो विद्वानावृतः । प्रतिप्रातिष्ठदध्वरे ॥ आर्तवा उपगातारः। सदस्या ऋतवोऽभवन् ॥ अर्घमासाश्च मासाश्च । चमसाऽध्वर्यवोऽभवन् ॥ अशँसद्ब्रह्मणस्तेजः। अच्छावाकोऽभवद्यशः ॥ ऋतमेषां प्रशास्ताऽऽसीत् ।। यद्विश्च सृज आसत ॥ ऊर्ग्राजानमुदवहत् । ध्रुवगोपः सोऽभवत् ॥ ओजोभ्यष्टौद्ग्राव्णः । यद्विश्व सृज आसत ।। अपचितिः पोत्रीयामयजत् । नेष्ट्रीयामयजत्त्विषिः ॥ आग्नीधाद्विदुषी सत्यम् । श्रद्धा हैवाऽयजत्स्वयम् ॥ इरापत्नी विश्वसृजाम् । आकूतिरपिनड्ढविः ॥ इध्मँह क्षुच्चैभ्य उग्रे । तृष्णाचावहतामुभे ॥ वागेषाँ सुब्रह्मण्यासीत् । छन्दोयोगान्विजानती ॥ कल्पतन्त्राणि तन्वानाहः । सँस्थाश्च सर्वशः ॥ अहोरात्रे पशुपाल्यौ । मुहूर्ताः प्रेष्या अभवन् ॥ मृत्युस्तदभवद्धाता । शमितोग्रो विशां पतिः ॥ विश्वसृजः प्रथमाः सत्रमासत । सहस्रसमं प्रसुतेनयन्तः ॥ ततोह जज्ञे भुवनस्य गोपाः । हिरण्मयः शकुनिर्ब्रह्मनाम ॥ येन सूर्यस्तपति तेजसेद्धः । पिता पुत्रेण पितृमान्योनियोनौ ॥ नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानँ सम्पराये ॥ एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् ॥ तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । ॐ [[TODO : परिष्कार्यम्]]

इति जपित्वा ।।

अमुक प्रेत॰ गोत्र एतत्ते तिलोदकमुप॰

इति तिलोदकं दत्वा जलबिंदून् वृषस्य पाययित्वा गात्राण्यवधूनुयुः। प्राचीनावीती ‘तृप्तायान्तु पितरः’ इत्युक्त्वा

धर्मस्त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ।
तवोत्सर्गप्रदानेन तारयस्व भवार्णवात्

इति संप्रार्थ्य

अमुक गोत्रस्य॰ प्रेतस्य प्रेतत्वविमोचनद्वारा अक्षय्यपुण्यलोकाऽवाप्त्यर्थं मयायं वृष उत्सृष्टः

भो वृषभराज तृणं खात्वा जलं पीत्वा देवस्वं ब्रह्मस्वं विहाय गोवृन्दमध्ये यथासुखं विहर

इत्युत्सृजेत् ॥ अथैनं मध्ये गोष्वपिसृजति -

एतं युवानं परि वो ददामि तेन कीडन्तीश्चरत प्रियेण । मा नः शाप्त जनुषा सुभागा रायस्पोषेण समिषा मदेम ॥ नमो महिम्न उत चक्षुषे ते मरुतां पितस्तदहं गृणामि । अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम् । देवानामेष उपनाह आसीदपां गर्भ ओषधीषु न्यक्तः । सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवत्तदेषाम् ॥ पिता वत्सानां पतिरघ्नियानामथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा मस्तु घृतमस्य रेतः [[TODO : परिष्कार्यम्]]

इति । गच्छन्तमनुमन्त्रयते -

त्वां गावो वृणत राज्याय त्वाँहवन्त मरुतः स्वर्काः । वर्ष्मन्क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो विभजा वसूनि [[TODO : परिष्कार्यम्]]

इति ॥ गोमध्यस्थमनुमन्त्रयते -

मयोभूर्वातो अभिवातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम् । पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृड ॥ याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद । या आङ्गिरसस्तपसेह चकुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥ या देवेषु तनुवमैरयन्त यासाँ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्रगोष्ठे रिरीहि ॥ प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः । शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सँ सदेम [[TODO : परिष्कार्यम्]]

इति ॥

अथोत्सृष्टस्य वृषस्य लोमत्वचादिदाहजनितदोषपरिहारार्थं तिलवस्त्राहिरण्योदकुम्भदानानि करिष्ये

इति सङ्कल्प्य - “तिलाः काश्यप॰ केशव" इति तिलान् । “शीतवातोष्ण॰ प्रयच्छ मे” इति वस्त्रम् । “हिरण्यगर्भ॰ प्रयच्छ मे” इति हिरण्यम् ।

तृप्तिदं सर्वभूतानामतिशैत्यकरं सदा ।
प्राणरूपं जलं यस्मादतः शान्तिं प्रयच्छ मे

इत्युदकुम्भञ्च सदक्षिणाकं दद्यात् ।। सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्सम्पूज्याऽऽशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ।।