॥ अथैकादशाहकृत्यम् ॥
तत्रादौ ज्ञातव्यविशेषाः - वैद्यनाथीये स्मृतिरत्ने -
एकादशेऽह्नि सम्प्राप्ते स्नात्वा पुण्याहवाचनम् ।
कृत्वा चरेफद्वृषोत्सर्गं कुर्याच्छ्राद्धं ततः परम्
इति ॥
एकादशेऽह्नि कर्तव्यमेकोद्दिष्टं सदा द्विजैः ।
आद्यश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि ।
एकोद्दिष्टन्तु यच्छाद्धं दैवहीनं विधीयते ।
एकोद्दिष्टन्तु तत्प्रोक्तं मध्याह्ने तत्प्रकीर्तितम् ॥
गोतमः –
ब्राह्मणं भोजयेदाद्ये होमः कार्योऽथ वाऽनले ।
पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिह ॥
कालादर्शेऽपि -
आद्यश्राद्धं द्विजेऽग्नौ वा कुर्यात्पुनरपि द्विजे
इति ॥ निर्णयसिन्धौ -
पतिपुत्रवती नारी भर्तुरग्रे मृता यदि ।
वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विनीम् ॥
आशौचान्तरे प्राप्तेऽपि वृषोत्सर्गमाद्यमासिकञ्च कुर्यादेव
इति ॥ दशाहमध्ये संस्कारान्तरस्याऽऽशौचान्तरस्य वा सम्पाते वैद्यनाथीये -
अनिर्दशाहे तत्कर्तुः पुनः प्रेतस्य कर्मणि ।
पूर्वेणैव समाप्तिः स्यादेकोदिष्टं यथोदितम् ॥
तत्तदेकादशाहे एकोद्दिष्टमित्यर्थः । सपिण्डीकरणं तु द्वितीयमृतस्य द्वादशाहे प्रथममृतस्य त्रिपक्षे कार्यम्
इति ॥ दशमदिने रात्रौ अन्त्ययामे वाऽन्यमरणे
रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः
इति गौतमवचनाद्दशाहाशौचानन्तरं क्रमेण द्विदिनं त्रिदिनं चाधिकमाशौचमिति बो° धर्मसूत्रव्याख्यानादवगम्यते ॥
जनकस्य मृतेर्मध्ये जननीमरणं यदि ।
पित्राशौचे समाप्तिः स्यान्मात्राशौचन्तु पक्षिणी ॥
मात्राशौचस्य मध्ये तु पिता च म्रियते यदि ।
पितुर्मरणमारभ्य पुत्राणां दशरात्रकम्
इति मातापितृविषये विशेष उक्तो वैद्यनाथीये । तत्रैव जनकादि सामान्याशौचमध्ये परस्परसम्पाते -
जनकस्य जनन्याश्च भार्याया भर्तुरेव च ।
पुत्रस्य दुहितुश्चैव जनने मरणेऽपि वा ॥
स्वकालेनैव शुद्धिः स्याच्छेषन्यायो न विद्यते
इत्युक्तम् ॥ ॥ अथैकादशाहे गृहस्य सर्वतो गोमयेनाऽनुलेपनं, सम्मार्जनं, संस्पृष्टवस्त्राणां क्षाळनं, सचेलस्नानं, पञ्चगव्यहोमप्राशने, उपवीतधारणं, पुण्याहवाचनञ्च कुर्यात् । ततः पूर्वसङ्कल्पितकृच्छ्राणां परिपूर्त्यर्थं हिरण्यदानं, तिलहवनं च कृत्वा प्रेततृप्त्यर्थं गोदानादियथासम्भवदानानि, वृषोत्सर्गं, नवश्राद्धमाद्यश्राद्धं षोडश श्राद्धं सोदकुम्भश्राद्धं च कुर्यात् ॥ अपि वा नवश्राद्धानन्तरं द्विरावृत्त्याऽऽद्यश्राद्धं कृत्वा द्वादशेऽहनि पञ्चदश श्राद्धं सोदकुम्भश्राद्धं च कुर्यात् । ततः सपिण्डीकरणं कार्यम् ॥