१२ दशमदिनविधिः

दशमदिनविधिः

(बो. पि. शे. सू. ३ ) अथ दशमेऽहनि कर्ता ज्ञातयश्च प्रकोष्ठभूशिखावर्जं सर्वाङ्गवपनं कुर्युः । पिण्डान्ते प्रभूतबलिं दत्वा सुवस्त्रोपरि कंसे उदकवास आस्तीर्य तस्मिन्पिण्डौ निक्षिप्य शिला उद्वास्य पिण्डे निक्षिप्य जपादिभिरभ्यर्च्य शिरसि निधाय तटाकान्तं गत्वा तत्र शिला अन्यपिण्डे निक्षिप्य जलं गत्वाऽनवेक्षमाण उदङ्मुखो दक्षिणतः प्रसृज्य स्नात्वा वापयित्वा शान्तिहोमं कृत्वा श्वोभूते वृषमुत्सृज्य नवश्राद्धं कृत्वाऽऽद्यश्राद्धं द्विजेऽग्नौ वा कृत्वा वृद्धिश्राद्धं षोडशश्राद्धं वा कुत्वा द्वादशेऽहनि वा पञ्चदशश्राद्धं सोदकुम्भश्राद्धञ्च दत्वा सपिण्डीकरणं कृत्वाऽत ऊर्ध्वं पार्वणेन मासिकानि कुर्यादाब्दिकपर्यन्तं दर्शादिश्राद्धं न कुर्यात् । सोदकुम्भादिनित्यश्राद्धञ्च कुर्यात् ज्येष्ठ औपासने पित्रोस्सपिण्डीकरणं कुर्यात् ॥

(बो. पि. सू. १. २१) अथ गृहानेष्यन्नुपकल्पयते-वारणं स्रुक्स्रुवञ्च वारणान्परिधीन्कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्माऽनडुहं नवञ्च सर्पिराञ्चनञ्चाश्मानञ्चाऽनङ्वाहञ्च शमीशाखाञ्च कुशतरुणकानि च दर्भस्तम्बञ्चाऽञ्जनञ्च यवांश्चेति ॥ अथान्तरेण ग्रामञ्च स्मशानञ्च तद्वृथा (लौकिका)ऽ ग्निमुपसमाधाय कुशमयं बर्हिस्तीर्त्वा वारणान्परिधीन्परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाऽभ्याधायाऽथैतद्रोहितं चर्माऽनडुहं जघनेनाऽग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति ॥ तदाऽऽरोहन्ति यावन्तोऽस्य ज्ञातयो भवन्ति— ‘आरोहताऽऽयुर्जरसं गृणानाः’ इति ॥ अथैनाननुपूर्वं कल्पयति- ‘यथाऽहान्यनुपूर्वं भवन्ति’ इति ।। अथ वारणेन स्रुवेण वारण्यां स्रुचि चतुर्गृहीतं गृहीत्वा जुहोति-

न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः। कपिर्बभस्ति ते जनं पुनर्जरायु गौरिव। अपनश्शोशुचघमग्ने शुशुध्या रयिम् । अप नश्शोशुचदघं मृत्यवे स्वाहा

इति ॥ अथ वारणेन स्रुवेणोपघातं जुहोति- ‘अप नश्शोशुचदधम्’ इति द्वादश स्रुवाहुतीः ॥ अथोपोत्थायाऽनड्वाहमन्वारभन्ते–

अनड्वाहमन्वारभामहे स्वस्तये ।
स न इन्द्र इव देवेभ्यो वह्निस्सम्पारणो भव ।।

इति ॥ प्राञ्चो यान्ति- ‘इमे जीवा विमृतैः’ इति ॥ जघन्यश्शमीशाखया पदानि संलोपयते- ‘मृत्योः पदम्’ इति ॥ अथाऽन्तरेणाऽग्निञ्च श्मशानञ्चाऽश्मानमुपदधाति- ‘इमञ्जीवेभ्यः परिधिं दधामि’ इति ॥ अथैताः पत्नयो नवेन सर्पिषा सम्मृशन्ति- ‘इमा नारीरविधवाः’ इति ॥ कुशतरुणकैस्त्रैककुदेनाऽञ्चनेनाऽङ्क्ते-

यदाऽञ्जनं त्रैककुदं जातं हिमवतस्परि

इति । अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति- ‘यथा त्वमुद्भिनत्स्योषधे’ इति ॥ प्रत्येत्य गृहानासन्दीं प्रोष्ठावित्यारोहन्ति-

अनश्रवो अनमीवास्सुशेवा आरोहन्तु जनयो योनिमग्रे

इति ॥ अजञ्चैतदहः पचन्ते यवोदनञ्च ॥ अजस्याऽश्नन्ति- ‘अजोऽस्यजास्मदघाद्द्वेषांसि’ इति ॥ यवोदनस्य च प्राश्नन्ति

यवोऽसि यवयाऽस्मदघाद्द्वेषाँसि

इति ॥ ( बो. पि. सू. २. ४. १८-१९ )

“यथो एतत् गृहानेष्यन्नुपकल्पयत” इति “स्वान् स्वान् गृहस्थधर्मान्प्रतिपत्स्यन्नि"त्येवेदमुक्तं भवति । नाऽशुचिः काम्यं तप आतिष्ठेन्न यजेन्न स्वाध्यायमधीयीतान्यत्राग्निहोत्रदर्शपूर्णमासाभ्यां न दद्यात्काममृत्विग्भ्यो दद्यात् ।। स्मृत्यन्तरे -

तिलोदके च पिण्डे च प्रदत्ते दशमेऽहनि ।
अश्मनोत्थापनं कृत्वा ततःप्रेतं विसर्जयेत्” ।।

दशमदिनप्रयोगः

दशमदिनप्रयोगः॥ कर्ता स्नात्वा नित्यपिण्डदानादिकं प्रातःसायं करिष्यमाणं समानतन्त्रेण निर्वर्त्य पिण्डौ सुरक्षितं स्थापयेत् । प्रभूतबल्यर्थमाज्यं दधि मधु क्षीरं कार्पासं वस्त्रमुपवीतं पिष्टमयछत्रपादुके लोहितसूत्रमञ्जनं पक्कमोदनं लाजाऽपूपभक्ष्यादि हरिद्राकुङ्कुमतिलाक्षतपुष्पाणि दीपं पताका नाळिकेरमुदकुम्भं कांस्यपात्रञ्च, शान्तिहोमार्थं वारणौ स्रुक्स्रुवौ वारणान् परिधीन्कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्माऽनडुहं नवञ्च सर्पिराञ्जनञ्चाऽश्मानं शमीशाखां कुशतरुणकानि दर्भस्तम्बञ्चेति सम्भारान्सगृह्य । आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य प्राचीनावीती-

अमुकगोत्रस्य॰ प्रेतस्य महाक्षुत्तृण्णिवृत्त्याऽक्षय्यतृप्त्यर्थं प्रभूतबलिं करिष्ये,

इति सङ्कल्प्य, गोमयेनोपलिप्ते शुचौ देशेऽरत्निमात्रां समचतुरस्रा वेदिकां कृत्वा चतुर्दिक्षु तिस्रस्तिस्रः पिष्टमया रेखा लिखित्वा तन्मध्ये मण्डलत्रयं कृत्वा दक्षिणामुख उपविश्य मण्डलशिरोभागे दक्षिणाऽग्रेषु दर्भेषु शिलात्रयं प्रतिष्ठाप्य, मध्ये- ‘प्रेतराजाय’ पश्चिमे- ‘प्रेतसखाय यमाय’ पूर्वे-‘प्रेतसखाय रुद्राय’ एवं क्रमेण ‘इदमासनमुपतिष्ठतु’ ॥ एवमेव

आवाहनं, पाद्यं, अर्घ्यं, आचमनं, स्नानं वस्त्रं, उपवीतं, गन्धः, ( अक्षताः, तिलाः, पुष्पाणि उपतिष्ठन्तु ) छत्रं, पादुके उपतिष्ठतः

इति दत्वा तत्पुरस्ताद्दक्षिणाग्रेषु दर्भेषु ‘तिलोदकमुपतिष्ठतु’ इति तिलोदकं दत्वा, तदुपरि

प्रेतराजाय, प्रेतसखाय यमाय, प्रेतसखाय रुद्राय

इति मध्ये पश्चिमे पूर्वे ‘अयं पिण्ड उपतिष्ठतु’ इति दधिमधुक्षीरसर्पिस्तिलमिश्रांस्त्रीन्पिण्डान्दत्वा तदुपरि पूर्ववत्तिलोदकं दद्यात् । “अथाऽञ्जनमुपतिष्ठतु, अभ्यननं॰, वासः॰",इत्यञ्जनाभ्यञ्जनवासांसि दत्वा, ओदनलाजापूपभक्षादिकं दधिमधुक्षीरघृतसहितं नीलहरिद्राकुङ्कमनाळिकेरोदकमुदकुम्भदीपपताकाश्च पिण्डसमीपे निधाय

अमुकगोत्र॰ अमुकशर्मन् प्रेत महाक्षुत्तृण्णिवृत्त्यर्थमयन्ते प्रभूतबलिरुपतिष्ठतु

इति प्रभूतबलिं तिलोदकञ्च दत्वा, सर्वे दूरतो गत्वा पिण्डादि काकेभ्यो दद्यात् । ततः सुवस्त्रोपरि कांस्यपात्रं निधायाऽऽर्द्रवास आस्तीर्य तस्मिन्पूर्वमुद्वास्य स्थापितौ नित्यपिण्डौ निक्षिप्य सर्वाः शिला उद्वास्य तिलतैलेनाऽभ्यज्य प्रथमपिण्डोपरि निक्षिप्य जलसमीपं गत्वा तत्रस्थाः शिला द्वितीयपिण्डे निक्षिप्याऽनवेक्षमाण उदङ्मुखो दक्षिणतो जले विसर्जयेत्-

शिलादेवि महापुण्ये प्रेतलोकं विमुच्यतु ।
कल्यादौ यत्र सञ्जाता जले त्वं तिष्ठ सर्वदा ।।

इति ॥

शान्तिहोमप्रयोगः

शान्तिहोमप्रयोगः ॥ कर्ता कृतसर्वाङ्गवपनो नद्यादौ स्नात्वा ग्रामश्मशानयोर्मध्ये शुचौ देशे प्राङ्मुख उपविश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य ( यज्ञोपवीत्येव )

ज्ञातीनां मम च सर्वेषामघनिर्हरणार्थं शान्तिहोमं करिष्ये,

इति सङ्कल्प्य स्थण्डिलोल्लेखनादि लौकिकाऽग्निमुपसमाधाय,

शान्तिहोमः कर्म, अपूर्वं तन्त्रं, पवमानो नामाऽग्निः अग्निर्मृत्युश्च देवता, नवं सर्पिर्हविः, सद्यो यक्ष्ये,

इत्यन्वाधानाद्याग्निं परिस्तीर्य,

उत्तरतः प्रागग्रेषु दर्भेषु आज्यस्थालीं, वारणं स्रुवं, वारणं स्रुचं, प्रोक्षणीं वारणान्परिधीन्, पालाशमिध्मं, कुशमयं बर्हिरिति

पात्राण्यासाद्य नवं सर्पिः संस्कृत्य स्रुक्स्रुवसम्मार्जनान्तं कृत्वा वारणान्परि धीन्परिधाय प्रदक्षिणमग्निं परिषिच्य पालाशमिध्ममभ्यज्य स्वाहाकारेणाऽभ्याधायाऽऽज्येन व्याहृतीर्हुत्वा जघनेनाऽग्निं रोहितं चर्माऽनडुहं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्मिन्सर्वे ज्ञातयः क्रमेणाऽन्वारोहन्ति-

आरोहताऽऽयुर्जरसं गृणाना अनुपूर्वं यतमाना यतिष्ठ। इह त्वष्टा सुजनिमा सुरत्नो दीर्घमायुः करोतु जीवसे वः [[TODO : परिष्कार्यम्]]

इति ॥ अथैनाननुपूर्वं यथाज्येष्ठं कर्तॄन् स्त्रीरग्रे यथावृद्धं ज्ञातीन्क्रमेणोपवेशयति-

यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति क्लृप्ताः । यथा न पूर्वमपरो जहात्येवा धोतरायूँषि कल्पयैषाम् [[TODO : परिष्कार्यम्]]

इति ।। अथ स्रुचि चतुर्गृहीतं गृहीत्वा जुहोति-

न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः। कपिर्बभस्ति तेजनं पुनर्जरायुगौरिवो ३ मप नः शोशुचदघमग्ने शुशुध्या रयिम् । अपनश्शोशुंचघं मृत्यवे स्वाहा [[TODO : परिष्कार्यम्]]

“अग्नये मृत्यव इदं॰” ॥ अथ द्वादश स्रुवाहुतीर्जुहोति-

अप नः शोशुचद्घगमग्ने शुशुध्या रयिम् । अप नः शोशुचदघँ स्वाहा । ( अग्नय इदं॰, इति सर्वत्र त्यागः) । सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचदघँ स्वाहा ॥ प्रयद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः । अप नः॰ दघँ स्वाहा ॥ प्रयदग्नेः सहस्वतो विश्वतो यन्ति सूरयः। अप॰ दघँ स्वाहा ॥ प्रयत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप॰ दघँ स्वाहा ॥ त्वँ हि विश्वतोमुख विश्वतः परिभूरसि । अप॰घँ स्वाहा ॥ द्विषो नो विश्वतोमुखाऽतिनावेव पारय । अप॰घँ स्वाहा । स नः सिन्धुमिव नावयाऽतिपर्षा स्वस्तये । अप॰घँ स्वाहा ॥ आपः प्रवणादिव यतीरपास्मत्स्यन्दतामघम् । अप॰घँ स्वाहा ॥ उद्वनादुदकानीवाऽपास्मत्स्यन्दतामघम् । अप॰घँ स्वाहा ॥ आनन्दाय प्रमोदाय पुनरागाँ स्वान्गृहान् । अप॰ घँ स्वाहा ॥ न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनायकमप॰ घँ स्वाहा” [[TODO : परिष्कार्यम्]]

इति ॥ ततो मिन्दाहुती व्याहृतीर्यदस्यकर्मण इति स्विष्टकृतञ्च हुत्वा परिस्तरणान् परिधींश्चाऽनुप्रहृत्य सँस्रावं हुत्वोत्तरपरिषेकादि होमशेषं समापयेत् ॥ अथ सर्वे उत्थायाऽग्रेणाऽग्निं प्राङ्मुखमनड्वाहमन्वारभन्ते –

अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः सम्पारणो भव [[TODO : परिष्कार्यम्]]

इति ॥ अनड्वाहं पुरस्कृत्य प्राञ्चो यान्ति -

इमे जीवा विमृतैराववर्तिन्नभूद्भद्रा देवहूतिन्नो अद्य । प्राञ्जोगामानृतये हसाय द्राधीय आयुः प्रतरां दधानाः [[TODO : परिष्कार्यम्]]

इति ॥ पश्चाद्गन्ता शमीशाखयाऽनडुहः पदानि सम्मार्जयते-

मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः [[TODO : परिष्कार्यम्]]

इति ॥ ग्रामश्मशानयोर्मध्येऽश्मानमुपदधाति-

इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन [[TODO : परिष्कार्यम्]]

इति । अथैताः पत्नयो नवेन सर्पिषा नयने सम्मृशन्ति-

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सम्मृशन्ताम्

इति ॥ अथ पुरुषा कुशतरुणकैस्त्रैककुदेनाऽञ्जनेनाऽञ्जते-

यदाञ्जनं त्रैककुदं जातँ हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि [[TODO : परिष्कार्यम्]]

इति ।। कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति-

यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि। एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन [[TODO : परिष्कार्यम्]]

इति ॥ गृहं सम्मृज्य गोमयेनोपलिप्य पञ्चगव्येन प्रोक्ष्य स्त्रीपुरस्सराः प्रविश्य खट्वादिमारोहन्ति–

अनश्रवो अनमीवाः सुशेवा आरोहन्तु जनयो योनिमग्रे [[TODO : परिष्कार्यम्]]

इति ॥ यवोदनं प्राश्नन्ति-

यवोऽसि यवयास्मधा द्वेषाँसि [[TODO : परिष्कार्यम्]]

इति ॥ स्त्रीणान्तु नामान्ते ‘दा’ शब्दं ‘दायी’ शब्दं वा स्त्रीलिङ्गविभक्त्यनुरूपमनुसन्धाय वर्ज्यमन्त्रान्विहाय सर्वं यथोक्तं कुर्यात् ।।