११ अस्थिसञ्चयनविधिः

॥ अस्थिसञ्चयनविधिः ।।

अथातोऽस्थिसञ्चयनं व्याख्यास्यामः

(बो. पि. सू. ३.१० ) अथातोऽस्थिसञ्चयनं व्याख्यास्यामः - निवृत्तेऽग्नौ करणे व्द्यहे त्र्यहे चतुरहे सप्ताहे वा नवकुम्भमादाय श्मशानं नीत्वा तं देशं गत्वा पलाशशङ्कून् वौदुम्बरशङ्कून् वा निहत्य अङ्गुष्ठेनोपकनिष्ठिकया मध्यमया वा सर्वाभिरङ्गुलीभिस्सर्वास्थीनि समुच्चित्य क्षीरेण प्रक्षाळ्य कुम्भेऽवधाय क्षीरेण प्लावयित्वा घृतं निनयेत् -

इदन्त आत्मनश्शरीरमयन्त आत्मा आत्मनस्त आत्मानं शरीराद्ब्रह्म निर्भिनत्ति भूर्भुवस्सुवरसौ स्वाहा

इति। व्याहृतिभिरपि वा ॥ त्रिवृताऽम्नेन कुम्भमभ्यर्चाऽथ यदि न दहेयुरुल्मुकात्पुनर्दहेयुः-

अस्मात्वमधिजातोऽस्ययं त्वदधिजायताम् ।
अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ।।

इति ।। तथैवाऽपिधानात्कृत्वाऽस्थिकुम्भमादाय नदीतीर्थसमुद्रेषु वाऽभ्यवहरन्त्यपि वा पुरुषसंमितं गर्तं खात्वा तस्मिन्कुम्भमवधाय पुनरभ्यर्च्य पुरीषेण प्रच्छादयेत् । एतद्यावद्वसति तावत्स्वर्गे महीयते ॥ ( बो. पि. सू. १. १४ ) अथातस्सञ्चयनम्- एकस्यां व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु नवसु एकादशसु वाऽयुग्मा रात्रीरर्धमासान्मासानृतून्संवत्सरं वा सम्पाद्य सञ्चिनुयुरिति ॥ स उपकल्पयते- सतश्च क्षीरञ्चाऽऽज्यञ्चोदकुम्भञ्च दर्भांश्च परिस्तरणीयान्नीललोहिते सूत्रे बृहतीफलञ्चाश्मानञ्चापामार्गञ्च वेतसशाखाञ्च सिकताञ्च शुल्बञ्च पर्णशाखे च ।। अत एवादहनादङ्गारान्निर्वर्त्य तिस्रोऽवसर्जनीया जुहोति-

अवसृज पुनरग्ने पितृभ्यः, सङ्गच्छस्व पितृभिः, यत्ते कृष्णश्शकुन आतुतोद

इति ॥ अथैतस्मिन्सते क्षीरञ्चोदकुम्भञ्च निषिच्य वेतस शाखयाऽवोक्ष्यन्सम्पादयत्यप्रक्वाथयञ्च्छरीराणि- ‘यन्ते अग्निममन्थाम’ इति षड्भिः ॥ प्रथमां वोत्तमां वा द्विरभ्यावर्तयेयुः ।। अथैनदादहनमुदकुम्भैः स्ववोक्षितमवोक्ष्य याऽस्य स्त्रीणां मुख्या सव्ये पाणौ बृहतीफलं नीललोहिताभ्यां सूत्राभ्यां विग्रथ्याश्मानमन्वास्थायापामार्गेण सकृदुपमृज्याऽनन्वीक्षमाणा पत्तश्शिरस्तो वाऽस्थि गृह्णाति-

उत्तिष्ठातस्तनुवँ सम्भरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवस्सविता दधातु

इति । ‘इदन्त एकं’ इति द्वितीयम् । ‘पर ऊत एकम्’ इति तृतीयम् । ‘तृतीयेन ज्योतिषा संविशस्व’ इति चतुर्थम् । ‘संवेशनस्तनुवै चारुरेधि’ इति पञ्चमम् । ‘प्रियो देवानां परमे सधस्थे’ इति षष्ठम् । अथैनं सुसञ्चितं सञ्चित्य भस्म पिण्डं करोति तं तथा करोति यथाऽस्य कपोतश्छायायां नोपविशेदिति ॥ अथैनमपरिमितैः क्षुद्रमिश्रैरश्मभिः परिचिनोति न तेन परिचिनुयात् यथाऽस्य कपोतश्छायायामुपविशेदिति ॥ अथैतान्यस्थान्यद्भिः प्रक्षाळ्य कुम्भे वा सते वा कृत्वाऽऽदायोपोत्तिष्ठति ।। ( बो. पि. सू. १. १५ )

उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम्

इति ॥ तं गर्तदेशं कुम्भं निधाय जघनेन कुम्भं तिस्रो दक्षिणा प्राचीः कर्षूः कुर्वन्तीति तत्पुरस्ताद्व्याख्यातम् ।। जघनेन कर्षूः पर्णशाखे निहत्याऽबलेन शुल्बेन बध्वा विनिस्सर्पन्तीति तत्पुरस्ताद्व्याख्यातम् ।। यत्राऽपस्तद्यन्त्यनवेक्षमाणा अपस्सचेला दक्षिणामुखास्समृत्तिका आप्लवन्ते-

धाता पुनातु सविता पुनातु

इति ॥ नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याऽऽचम्याऽऽदित्यमुपतिष्ठठते–‘उद्वयं तमसस्परि’ इति ॥ अथ गृहानायान्ति । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ॥ (बो. पि. सू. २. ३. २ ) कुम्भान्तमनाहिताग्नेः स्त्रियाश्च निवपनान्तं हविर्यज्ञयाजिनः पुनर्दहनान्तं सोमयाजिनश्चित्यन्तमग्निचितो यदीतरमघोदकमुत्सिच्य दशरात्रमाशौचम् ।। यमः-

अस्थिसञ्चयनादर्वाग्भर्तुः पत्नी मृता यदि ।
तस्मिन्नेवाऽनले दाह्या यदि चाऽग्निर्न शाम्यति

इति ।। अस्थिसञ्चयने वारादिविशेष उक्तः स्मृत्यन्तरे-

बुधसोमौ शुभौ ज्ञेयौ मध्यमौ गुरुभार्गवौ।
अर्कारमन्दा निन्द्याः स्युः प्रशस्तं विषमेऽहनि ॥
द्वितीयश्च चतुर्थश्च शुभदौ युग्मवासरौ।
वर्जयेदेकपादर्क्षे द्विपादर्क्षेऽस्थिसञ्चयम् ।।
प्रदातृजन्मनक्षत्रे त्रिपादर्क्षे विशेषतःं

इति ॥ एवं वैद्यनाथीयादिग्रंथे वारनक्षत्रादिदोषा अपि विविधाः प्रोक्ताः। तथा च - मृताहाद्वितीयादियुग्मदिनेषु तृतीये सप्तमे वा दिने सञ्चयनं कुर्यात् । कुजशुक्रशनिवारान् सम्भवेऽर्कवारञ्च धनिष्ठापञ्चकं त्रिपान्नक्षत्रं जन्मविपत्प्रत्यरवधभञ्च वर्जयेत् । चतुर्थेऽह्नि वारनक्षत्रादिदोषो नास्तीति केचित् । असम्भवे विप्रानुज्ञया कार्यम्, दशाहं न लङ्घयेत्, दशाहेऽतीते पुनर्दाहादिसर्वं कुर्यात् । दशाहमध्ये दर्शसङ्क्रान्तिसम्भवे मातापितृव्यतिरिक्तानां सञ्चयनं तदानीमेव कुर्यात् ।। अस्थ्नां श्वसूकरचण्डालादिस्पर्शे पञ्चगव्यशालग्रामतुलस्युदकैः प्रोक्षेत् । प्राजापत्यकृच्छ्रत्रयं चरेत् ॥

सञ्चयनप्रयोगः

अथ सञ्चयनप्रयोगः ॥ आदौ नित्यविधिं निर्वर्त्य स्नात्वा सतं क्षीरमाज्यमुदकुम्भं दर्भान्नीललोहिते सूत्रे बृहतीफलमश्मानमपामार्गं वेतसशाखां सिकताः शुल्बं पर्णशाखे च पिण्डबल्यर्थमोदनमपूपतिललाजदधिमधुक्षीरघृतगुडनाळिकेरदीप पताकछत्रपादुकागन्धाक्षतपुष्पहरिद्राकुङ्कुमादिसम्भारान्सङ्ग्रह्य, श्मशानं गत्वा दक्षिणाप्राङ्मुख उपविश्यैकदर्भपवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, प्राचीनावीती

अमुकगोत्रस्य॰ प्रेतस्य प्रेतत्वनिवृत्त्याऽक्षय्यपुण्यलोकप्राप्त्यर्थमस्थिसञ्चयनं करिष्ये

इति सङ्कल्प्य दहनाऽग्निं दक्षिणतो निरूह्य ( दहनाऽग्न्यनुगते लौकिकाऽग्निमुपसमाधाय पूर्वोक्तप्रायश्चित्तं कृत्वा)

सञ्चयनहोमः कर्म, पैतृकं तन्त्रम्, कव्यादो नामाऽग्निः, अग्निर्जातवेदा इत्यादयो देवताः, आज्यं हविः, सद्यो यक्ष्ये

इत्यादि सङ्कल्प्याऽन्वाधायाऽऽज्यस्थालीं स्रुवं प्रोक्षणीं समिधञ्चेत्यैकैकशस्सादयित्वैकदर्भपवित्रकरणादि स्रुवसम्मार्जनान्तं कृत्वाऽग्निमपसव्यं परिषिच्य समिधमाधाय स्रुवेण तिस्रोऽवसर्जनीया जुहोति -

अवसृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उपयातु शेषँ सङ्गच्छतां तनुवा जातवेदः स्वाहा । अग्नये जातवेदस इदं॰ ॥ सङ्गच्छस्व पितृभिस्सँ स्वधाभिस्समिष्टापूर्तेन परमे व्योमन् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवस्सविता दधातु स्वाहा । देवाय सवित्र इदं॰ ।। ( ‘यत्ते कृष्ण’ इति स्त्रीणां वर्ज्यम् ) यत्ते कृष्णः शकुन आतुतोद पिपीलस्सर्प उत वा श्वापदः । अग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मणमाविवेश स्वाहा ।। अग्निषोमाभ्यामिदं॰ [[TODO : परिष्कार्यम्]]

इति ॥ मिन्दाहुती व्याहृतीश्च हुत्वा पुनरपसव्यं परिषिच्य होमं समापयेत् ॥ अथ सते क्षीरमुदकञ्च निषिच्य वेतसशाखयाऽस्थीन्यवोक्षति-‘यन्ते अग्निममन्थाम’ इति षड्भिः (प्रथमां वोत्तमां वा द्विरभ्यावर्तयेत्)

यन्ते अग्निममन्थाम वृषभायेव पक्तवे । इमन्तँ शमयामसि क्षीरेण चोदकेन च ॥ १ ॥ यन्त्वमग्ने समदहस्त्वमु निर्वापया पुनः । क्याम्बूरत्र जायताम्पाकदूर्वाव्यल्कशा ॥ २ ॥ शीति के शीतिकावति ह्लादुके ह्लादुकावति। मण्डूक्यासु सङ्गमयेमँ स्वग्निँ शमय ॥ ३ ॥ शन्ते धन्वन्या आपः शमुते सन्त्वनूक्याः । शन्ते समुद्रिया आपः शमु ते सन्तु वर्ष्याः ॥ ४ ॥ शन्ते स्रवन्तीस्तनुवे शमुते सन्तु कूप्याः । शन्ते नीहारो वर्षतु शमु पृष्वाऽवशीयताम् ॥ ५ ॥ शन्ते सर्वन्तीस्तनुवे॰ शीयताम् ॥ ६ ॥ [[TODO : परिष्कार्यम्]]

इति । तमग्निमयुग्मैरुदकुम्भैस्सर्वतः शमयित्वा याऽस्य स्त्रीणां मुख्या तदभावे कर्ता वा वामपाणौ बृहतीफलं नीललोहिताभ्यां सूत्राभ्यां बध्वाऽश्मनि वामपादं निधायाऽपामार्गेण करौ सकृत्समृज्य नेत्रे निमील्य शिरस्तोऽस्थि गृण्हाति-

उत्तिष्ठातस्तनुवँ सम्भरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु [[TODO : परिष्कार्यम्]]

इत्यादायाऽद्भिः प्रक्षाळ्य कुम्भे निदधाति । एवं - ‘इनन्त एकम्’ इति द्वितीयमुरस्तः । ‘पर ऊत एकम्’ इति तृतीयं जठरतः । ‘तृतीयेन ज्योतिषा संविशस्व’ इति चतुर्थमूरुभ्याम् । ‘संवेशनस्तनुवै चारुरेधि’ इति पञ्चमं बाहुभ्याम् । ‘प्रियो देवानां परमे सधस्थे’ इति षष्ठं पद्भ्याम् । तूष्णीमितराणि च गृह्णीयात् । अथैतद्भस्म सर्वमेकीकृत्याऽरत्निमात्रां समचतुरस्रां वेदिकां कृत्वा तत्र दक्षिणाग्रान्दर्भानास्तीर्य तेषूत्तरतो दक्षिणामुखं पाषाणत्रयं प्रतिष्ठाप्य तिलोदकं दत्वा मध्यमे पाषाणे ‘प्रेतराजमावाहयामि’ तस्य दक्षिणपार्श्वस्थे ‘प्रेतसखं यममावाहयामि’ उत्तरपार्श्वस्थे ‘प्रेतसखं रुद्रमावाहयामि’ इत्यावाह्य ‘प्रेतराजाय, प्रेतसखाय यमाय, प्रेतसखाय रुद्राय’ इति प्रत्येकं ‘पाद्यमुपतिष्ठतु, आसनमुपतिष्ठतु’ इत्येवमर्घ्यं वस्त्रं गन्धाऽक्षतपुष्पाणि धूपदीपनैवेद्यं ताम्बूलञ्च दत्वा दक्षिणाऽग्रेषु दर्भेषु तिलोदकं दत्वा

प्रेतराजायाऽयं पिण्ड उपतिष्ठतु, प्रेतसखाय यमायाऽयं पिण्ड उपतिष्ठतु, प्रेतसखाय रुद्रायाऽयं पिण्ड उपतिष्ठतु, पिण्डस्योपरि तिलोदकमुपतिष्ठतु

इति पिण्डं तिलोदकञ्च दत्वा, तत्रैव वेदिकायां पिष्टमयास्तिस्रस्तिस्रो रेखा विलिख्य तन्मध्ये पलाशपर्णेषु तिलोदकं दत्वा बलिं दद्यात्- ओदनं लाजाऽपूपदधिमधुक्षीरघृतगुडसहितं नाळिकेरफलोदक मञ्जनाऽभ्यञ्जनदशासूत्राणि पिष्टमये छत्रपादुके हरिद्राकुङ्कुमगन्धरक्तपुष्पदीपपताकादि निधाय

श्मशानदेवतासहिताय सपरिवाराय प्रेतराजायाऽयं सव्यञ्जनस्सोपस्करो बलिरुपतिष्ठतु

इति बलिं दत्वा ‘बलेरुपरि तिलोदकमुपतितु’ इति तिलोदकश्च दत्वा प्रार्थयेत् -

ये श्मशानस्थिता देवा भगवन्तस्सनातनाः ।
ते मत्सकाशादगृह्णन्तु बलिमष्टाङ्गमक्षयम् ॥
प्रेतस्याऽस्य शुभान्लोकान्प्रयच्छन्तु च शाश्वतान् ।
अस्माकमायुरारोग्यं सुखं ददतु ते चिरम् ।।

इति ॥ ततः पिण्डबल्यादीन् काकेभ्यो दद्यात् ॥ अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कुम्भे निधाय क्षीरेण प्लावयित्वा घृतं निनयेत् -

इदन्त आत्मनः शरीर मयन्त आत्मा आत्मनस्त आत्मानं शरीराद्ब्रह्म निर्भिनत्ति भूर्भुवस्सुवरसौ स्वाहा

इति, व्याहृतिभिरपि वा । हिरण्यशकलं क्षिप्त्वाभ्यर्च्य वस्त्रेणाऽऽच्छाद्याऽस्थिकुम्भमादायोपोत्तिष्ठति -

उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् [[TODO : परिष्कार्यम्]]

इति (स्त्रीणामयम्मन्त्रो वर्ज्यः) नदीसमुद्रेषु वाऽभ्यवहरन्त्यपि वा पुरुषसम्मितं गर्तं कृत्वा तस्मिन्कुम्भमवधाय पुनरभ्यर्च्य मृत्तिकाभिः प्रच्छादयेत् । एतद्यावद्वसति तावत्स्वर्गे महीयते ॥ अथ जघनेन कुम्भं त्रीणि गर्तानि खात्वाऽद्भिः पूरयित्वा सिकता विकीर्य कनिष्ठप्रथमास्तदुदकं स्पृशन्तस्सङ्गाहन्ते – “अश्मन्वती॰ वाजानुत्तरेम” इति ॥ तत्पश्चिमे पर्णशाखे निहत्याऽबलं रज्जुं बध्वा तोरणाकारं कृत्वा तदन्तरेण कनिष्ठप्रथमा निर्गच्छन्ति – “यद्वै देवस्य॰ पुनामि" इति । पश्चाद्गन्ता रज्जुं छित्वा पर्णशाखे व्युदस्यति — “या राष्ट्रत्पन्नात्॰ सँ सृजाथ” इति । तन्देशमनवेक्षमाणास्तीर्थं गत्वा । मृत्तिकाभिस्सर्वाङ्गमालिप्य दक्षिणामुखाः सचेलास्स्नाङ्कुर्वन्ति – “धाता पुनातु॰ वर्चसा” इति । ततस्तिलोदकं त्रिवारं दत्वा पुनस्स्नात्वाऽऽचम्य ‘उद्वयन्तमसस्परि॰ रुत्तमम्’ इत्यादित्यमुपस्थाय गृहमागत्य निम्बपत्रप्राशनसुवर्णादिस्पर्शनं कुर्युः ।। सञ्चयनाङ्गश्राद्धं सङ्कल्पपूर्वकं नवश्राद्धवदामेन कुर्यात् ॥