॥ अत्र संभाव्यानि प्रायश्चित्तानि ॥
शिला-स्थाल्यादि-नाशे
शिला-स्थाल्यादि-नाशे
द्रव्य-वस्त्रादि-विपर्यासे च
अन्यद् गृहीत्वा
पूर्वदत्ताञ्जलीन् पुनर् दद्यात् ।।
उत्तरीय-शिला-पात्र-कर्तृ-द्रव्य-विपर्यये
उत्तरीय-शिला-पात्र-कर्तृ-द्रव्य-विपर्यये-
पूर्व-दत्ताञ्जलीन् पिंडान्
पुनर् इत्य् आह गौतमः
इत्य्-आदि वैद्यनाथीय-वचनात् ॥
तत्-क्रमश् चोक्तः कुंभकोण-प्रयोगे ।
शिला-नाशे
ऽन्यच्-छिला-त्रयं पूर्ववत् प्रतिष्ठाप्यावाह्य स्पृष्ट्वा जपेत् -
विश्वास-प्रस्तुतिः ...{Loading}...
आया॑तु दे॒वस् सु॒मना॑भिर् ऊ॒तिभि॑र्
य॒मो हवा+++(य्)++++इ॒ह प्रय॑ताभिर् अ॒क्ता ।
आसी॑दताँ सुप्र॒यते॑ह ब॒र्हिष्य्
ऊर्जा॑-यजात्यै मम॑ शत्रु॒-हत्यै॑ ।
+++(आरण्यक-स्वर-व्यत्ययः॥)+++
इति ॥
पूर्व-दत्तान् वासोदक-तिलोदक-पिंडांश् च
पुनर् दद्यात् ॥
ततो नष्ट-शिलानां पुनर्-लाभे
ता अप्य्
अत्रैव संस्थाप्य
उभयं स्पृष्ट्वा जपेत्-
०२ यमे इव ...{Loading}...
+++(सहोत्पत्त्या)+++ यमे᳓ इव य᳓तमाने य᳓दै᳓तं
प्र᳓ वाम् भरन् मा᳓नुषा देवय᳓न्तः ।
आ᳓सीदतँ स्व᳓म् उ लोकव्ँ᳓ वि᳓दाने
स्व्-आस-स्थे᳓ भवतम् इ᳓न्दवे नः ।
इति ।।
शिलानां नाशे पुनर्दर्शने च
लौकिकाग्नाव् आज्यं संस्कृत्य-
१३ यमाय सोमं ...{Loading}...
यमा᳓य सो᳓मँ सुनुत
यमा᳓य जुहुता हविः᳓ ।
यमँ᳓ ह यज्ञो᳓ गच्छत्य्
अग्नि᳓-दूतो अ᳓रङ्-कृतः ।
१४ यमाय घृतवद्धविर्जुहोत ...{Loading}...
यमा᳓य घृत᳓वद्-धवि᳓र्
जुहो᳓त प्र᳓ च तिष्ठत ।
स᳓ नो देवे᳓ष्व् आ᳓यमद्
दीर्घ᳓म् आ᳓युः प्र᳓ जीव᳓से ।
१५ यमाय मधुमत्तमं ...{Loading}...
यमा᳓य म᳓धुमत्तमँ
रा᳓ज्ञे हव्य᳓ञ् जुहोतन ।
इद᳓न् न᳓म ऋ᳓षिभ्यः पूर्वजे᳓भ्यः
पू᳓र्वेभ्यः पथि-कृ᳓द्भ्यः ।
इति तिस्रः युवाहुतीर् जुहोति ॥ " यमायेदं॰" ॥
पिण्ड-द्रव्य-चरु-स्थाल्योर् विपर्यासे
ऽन्यद् गृहीत्वा
पूर्वदत्त-पिण्डान् बलींश्च
पुनर् दद्यात् ॥
वस्त्र-विपर्यासे
पूर्व-दत्त-वासोदकादि सर्वं
पुनर् दद्यात्
इति ॥
दहन-काले श्मशानाऽग्निविनाशे
॥ दहन-काले श्मशानाग्नि-नाशे–
दह्यमाने शवे वह्निर्
नष्टो, वर्षा भवेद् यदि ।
चितिकाष्ठं तु निर्मथ्य
तेन प्रेतं पुनर् दहेत् ।।
अभावे चिति-काष्ठानां
प्रायश्चित्ते कृते ऽग्निना ।
दाहयेत् तानि शिष्टानि
शेषं वाप्सु विनिक्षिपेत् ॥
अस्थि-नाशे
॥ अस्थि-नाशे –
पूर्णे दग्धे तथा कुर्याज्
ज्वालौघेनास्थि-नाशने ।
नदी-तीरे सरित्-तीरे
तन्मन्त्रांस् तु जपेद् बुधः ।।अस्थि-सञ्चयनात् पूर्वं
प्रमादापहृतं यदि ।
अस्थि-प्रतिकृतिं कृत्य
तद्-देशान् मृदम् आहरेत् ॥
अस्थिवच् चिनुयाद् विद्वान्
लोष्ठं वा भस्म वा ततः ।
प्रमाणम् अस्थिवत् कृत्वा
तन्-मन्त्रांस्तु जपेद् बुधः ॥
इत्यादि वचनैर् अस्थि-नाशे
ऽग्न्य्-अनुगत-प्रायश्चित्तं कृत्वा
तिस्रो ऽवसर्जनीयाश् च हुत्वा
भस्मादि सञ्चिनुयात् ॥
भस्माद्य्-अभावे
केवलं मन्त्रजपः ॥
अस्थिसञ्चयात् पूर्वं श्मशानाग्नाव् अनुगते
अथास्थिसंचयनात्पूर्वं श्मशानाग्नावनुगते प्रायश्चित्तम् ।।
अमुक॰ प्रेतस्यास्थिसंचयनात् पूर्वं श्मशानाग्न्यनुगतप्रायश्चित्तं करिष्ये
इति संकल्प्य,
अप॑हता॒ असु॑रा॒ ...{Loading}...
अप॑हता॒ असु॑रा॒ रक्षाँ॑सि
पिशा॒चा ये क्षय॑न्ति पृथि॒वीम् अनु॑ ।
अ॒न्यत्रेतो॑ गच्छन्तु॒ यत्रैषां॑ गतं॒ मनः॑ ॥
इत्य् अद्भिश्चितां प्रोक्ष्य
19 अयन्ते योनिर् ...{Loading}...
अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम् ।
इति तद्भस्म समिधि समारोप्य
दहनदेशाद् दक्षिणतः उद्धत्यावोक्ष्य
लौकिकाग्निं प्रतिष्ठाप्य
तां समिधम् आदधाति -
07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...
आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्त् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत ।
45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वँस् त्वा॑ पि॒तरय्ँ॒ युवा॑नम्
अ॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।
इति द्वाभ्याम् ।।
अथैनम् उपसमाधाय-
प्रायश्चित्त-होमः कर्म,
पैतृकं तन्त्रं,
चित्तिर् नामाग्निः,
अग्न्यादयो देवताः,
आज्यं हविः,
सद्यो यक्ष्ये
इत्यादि संकल्प्यान्वाधानादि स्रुक्संमार्जनान्तं कृत्वा
ऽग्निम् अपसव्यं परिषिच्यालंकृत्य
समिधमाधायाज्याहुतीर्जुहोति-
१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...
अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++
“अग्नये अयस इदं॰” । स्रुचि चतुर्ग्रहीत गृहीत्वा जुहोति
०३ पश्चात् अग्निर् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः
1पश्चाद् उदञ्चं पञ्चहोतारम् उपदधाति - अग्निर्होतेति ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर् होता॑ ।
भट्टभास्कर-टीका
देवानां आह्वातृत्वादग्नेर्होतृत्वम् ।
मूलम्
अ॒ग्निर्होता॑ ।
विश्वास-प्रस्तुतिः
अ॒श्विना॑ऽध्व॒र्यू ।
भट्टभास्कर-टीका
कर्मठत्वात् अश्विनौ अध्वर्यू अध्वरस्य नेतारौ अध्वर्युः प्रतिप्रस्थाता च ।
मूलम्
अ॒श्विना॑ऽध्व॒र्यू ।
विश्वास-प्रस्तुतिः
त्वष्टा॒ऽग्नीत् ।
भट्टभास्कर-टीका
त्वष्टा अग्नीत् आग्नीध्रः उत्तेजनहेतुत्वात्, अग्नीधश्च विहरणादिकृत्त्वात् ।
मूलम्
त्वष्टा॒ऽग्नीत् ।
विश्वास-प्रस्तुतिः
मि॒त्र उ॑पव॒क्ता ।
मूलम्
मित्र उपवक्ता ब्रह्मा, कर्मसाक्षित्वात् ॥
मूलम्
मि॒त्र उ॑पव॒क्ता ।
ग्रहेष्टका
भास्करोक्त-विनियोगः
2अथ ग्रहेष्टकाम् उपदधाति ॥
विश्वास-प्रस्तुतिः
सोम॒स् +++(वल्ली-रूपेण)+++ सोम॑स्य पुरो॒-गाः ।
शु॒क्रश् शु॒क्रस्य॑ पुरो॒-गाः ।
श्रा॒तास्+++(=पक्वाः)+++ त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्+++(←वात+आप्)+++ हवन॒-श्रुत॒स् +++(←श्रुत् ←श्रु [त इन्द्र])+++ स्वाहा॑ ।
भट्टभास्कर-टीका
सोमो वल्ली सोमस्य पुरोगाः प्रधानभूतः ओषधीशत्वात् ।
शुक्रः सोमरसः सर्व-रस-प्रधान-भूतः
शुक्र एव वा ।
ताभ्यामेव ते सोमाः श्राताः पक्वाः साधुसम्पादिताः हे इन्द्र !
वातापेः वात-तुल्य-गमनस्य हवनश्रुतः अह्वानस्य श्रोतुः, भक्तवत्सलस्येति यावत् । एवं भूतस्य तवेति । स्वाहेति गतम् । चातुर्मास्यादिषु विनियोगः ॥
इत्यारण्यके तृतीये तृतीयोनुवाकः ॥
मूलम्
सोम॒स् सोम॑स्य पुरो॒गाः ।
शु॒क्रश्शु॒क्रस्य॑ पुरो॒गाः ।
श्रा॒तास्त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्हवन॒श्रुत॒स्स्वाहा॑ ।
(3)
“वाचस्पतये ब्रह्मण इदं॰” +++(कथं त्यागः सङ्गच्छते??)+++॥
ततः स्रुवेण-
ब्राह्मण एकहोता । स यज्ञः। स मे ददातु प्रजां पशून्पुष्टिं यशः । यज्ञश्च मे भूयात्स्वाहा ॥ ब्रह्मण इदं॰ ॥ अग्निर्द्विहोता। स भर्ता । स मे ददातु॰ यशः। भर्ता च मे भूयात्स्वाहा । अग्नय इदं॰ ॥ पृथिवी त्रिहोता। स प्रतिष्ठा । स मे ददातु॰ यशः। प्रतिष्ठा च मे भूयात्स्वाहा ॥ पृथिव्या इदं॰ ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे॰ यशः । विष्टाश्च मे भूयात्स्वाहा ॥ अन्तरिक्षायेदं॰ ॥ वायुः पञ्चहोता । स प्राणः। स मे॰ यशः। प्राणश्च मे भूयात् स्वाहा ॥ वायव इदं॰ ॥ चन्द्रमाः षढ्ढोता । स ऋतून्कल्पयाति । स मे॰ यशः। ऋतवश्च मे कल्पन्ता स्वाहा । चन्द्रमस इदं॰ ।। अन्नँ सप्तहोता । स प्राणस्य प्राणः। स मे॰ यशः। प्राणस्य च मे प्राणो भूयात्स्वाहा ॥ अन्नायेदं॰ ॥ द्यौरष्टहोता। सोऽनाधृष्यः । स मे॰ यशः । अनाधृष्यश्च भूयासँ स्वाहा ।। दिव इदं। आदित्यो नवहोता। स तेजस्वी। स मे॰ यशः। तेजस्वी च भूयासँ स्वाहा ॥ आदित्यायेदं॰ । प्रजापतिर्दशहोता। स इद सर्वम् । स मे॰ यशः । सर्वं च मे भूयात्स्वाहा । प्रजापतय इदं॰ [[TODO: परिष्कार्यम्]]
मनस्वती,
मनो ज्योतिर् ...{Loading}...
मनो॒ ज्योति॑र् जुषता॒म्, आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु ।
बृह॒स्पति॑स् तनुताम् इ॒मन् नो॒,
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥
मिन्दाहुती,
विश्वास-प्रस्तुतिः ...{Loading}...
यन् म॑ आ॒त्मनो॑ मि॒न्दा+++(=हिंसा)+++ ऽऽभू॑द्,
अ॒ग्निस् तत् पुन॒र् आहाः॑ +++(=आहर)+++।
जा॒तवे॑दा॒ विच॑र्षणिः+++(विचक्षणः)+++॥
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑र् अ॒ग्निश् चक्षु॑र् अदा॒त्
पुन॒र् इन्द्रो॒ बृह॒स्पतिः॑।
पुन॑र् मे अश्विना यु॒वं
चक्षु॑र्+++(=दर्शनशक्तिम्)+++ आ धत्तम् अ॒क्ष्योः ॥
+++(अग्नीन्द्राबृहस्पत्यश्विभ्य इदं न मम॥)+++
महाव्याहृतीः,
०२ भूर् अग्नये महाव्याहृतयः ...{Loading}...
सायणोक्त-विनियोगः
अथ होमार्थान् महाव्याहृतिसंज्ञकान्मन्त्रानाह।
अत्र द्रव्यविशेषस्यानुक्तत्वात्
सर्व-होम-साधारणम् आज्यम् एव द्रव्यम् इत्य् अवगन्तव्यम्।
फल-विशेषस्यानुक्तत्वात् पापक्षयोऽत्र साधारणं फलं द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नय इदं न मम)
मूलम्
भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
विश्वास-प्रस्तुतिः
भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायव इदं न मम)
मूलम्
भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥
सायण-टीका
भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि।
तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां प्रतिपद्याग्न्यादिदेवताप्रतिपादकानि।
तथा सत्ययमर्थः संपद्यते। भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै पृथिव्यै च स्वाहा सुहुतमिदं द्रव्यमस्त्विति। एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम्।
विश्वास-प्रस्तुतिः
सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्यायेदं न मम)
मूलम्
सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥
विश्वास-प्रस्तुतिः
भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥
(चन्द्रमस इदं न मम)
मूलम्
भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥
सायणोक्त-विनियोगः
चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य इति मन्त्रेणोपतिष्ठेत।
पश्चाद् दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत।
विश्वास-प्रस्तुतिः
नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर् भुव॒स् सुव॒रोम् । (12) - । 2 ।
मूलम्
नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर्भुव॒स्सुव॒रोम् । (12) - । 2 ।
सायण-टीका
स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते। भूर्भुवः सुवरिति लोकत्रयेऽपि पापरहितो भवामि। ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्था-ङ्गीकारं प्रतिपादयति।
नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वाद् अयं प्रपाठको नारायणीयः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः॥ २॥
व्याहृतीश्च हुत्वा ।।
भूर्भुवः सुवः स्वाहा ॥
इति सर्वप्रायश्चित्तं हुत्वा
पुनर् अपसव्यं परिषिच्य
होम-शेषं समापयेत् ॥