॥ नवश्राविधिः ॥
( बो. पि. सू. ३. ६. ८-९ ) अयुग्मदिवसे त्रीन्पञ्च सप्त ब्राह्मणान्भोजयेदेकमपि वा ॥ भवत्यामैर्वा मूलफलैः प्रदानमात्रं हिरण्येन वा प्रदानमात्रं सर्वेषु होतृपरेषु स्वधास्थानेषु कुर्यात्
अमुष्मा उपतिष्ठतु
इति ॥ ( बो. पि. सू. २. १०. ६-७) अथ नवश्राद्धं विच्छिद्येतैतस्मिन्नह्नि कुर्यात् । अथाऽप्युदाहरन्ति –
चतुर्थे पञ्चमे चैव नवमैकादशेऽहाने ।
यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥
एकोद्दिष्टे नवश्राद्धे यदि विघ्नः प्रवर्तते ।
तिथिवारादिभिः कुर्यातप्राप्तमेकादशेऽहनि
इति ॥ स्मृत्यन्तरे -
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥
कण्वः -
नवश्राद्धं मासिकं च यद्यदन्तरितं भवेत् ।
तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्ष्यते ॥
अथ नवश्राद्धप्रयोगः ॥ प्रथमे, तृतीये, पञ्चमे, सप्तमे, नवमे, एकादशे चेति, षट्सु विषमदिनेषु कुर्यात् -
अमुक° प्रेतस्य प्रेतत्वनिवृत्त्यर्थम् अद्य प्रथमेऽहनि नवश्राद्धमामेन करिष्ये
इति संकल्प्य उदङ्मुखं दर्भबदु[[??]]मुपवेश्यासनादिभिरभ्यर्च्य
अमुक° प्रेतत्वनिवृत्त्यर्थमिदमामं सोपस्करं सदक्षिणमुपतिष्ठतु
इत्युक्त्वा भोजनद्विगुणमामं ब्राह्मणाय दद्यात् ॥ इति नवश्राद्धम् ॥ ॥ अथ स्नात्वा जलपूर्णं कुम्भं शिरसि निधाय गृहमागत्य यथाचारं मृतस्थाने उपरिसूत्रं लंबयित्वा शिक्यादौ जलपात्रं क्षीरपात्रं च निधाय
श्मशानानलदग्धोसि परित्यक्तोसि बान्धवैः ।
इदं नीरमिदं क्षीरमत्र स्नाहि इदं पिब
इति विज्ञापयेत् ॥ तदग्रे तिलोदकं दत्वा मुष्टिपरिमितमुपस्तीर्णाभिधारितमन्नं
अमुक° प्रेत क्षुत्तृड्दाहोपशान्त्यर्थम् इदमन्नमुपतिष्ठतु
इति दत्वा
अन्नस्योपरि तिलोदकमुपतिष्ठतु
इति तिलोदकं च दद्यात् ॥ रात्रौ दीपं क्षीरं चैवमेवादशरात्रं कुर्यात् । स्थालीशिलादिकं सुरक्षितं गोपायेत् ॥