०८ नित्यविधिः

॥ नित्यविधिः ॥

(बो. गृ. शे. सू. ४.३ ) अथाऽतो मृतबलिं व्याख्यास्यामः ॥ प्राग्दक्षिणायतनं चतुरस्रं गोमयेनोपलिप्य प्राचीनावीती दक्षिणामुखस्सव्यं जानुं निपात्य सकृदुल्लिख्याऽद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्याऽद्भिर्मार्जयित्वोपस्तीर्णाभिधारितं सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्कुटाण्डप्रमाणं वा हस्तेन

अमुकगोत्रायैतत्ते ओदनस्स्वधा नमः

इति ॥ अथाऽगुष्ठेनाऽभिमृश्याथाऽञ्जनाऽभ्यञ्जने मधु वासो दशोर्णा वा गन्धपुष्पधूपदीपैर्हस्ताविपरीतात् सायं प्रातर्दशरात्रं कृत्वा स्वस्तिग्रामं भोजयित्वा दशम्यां विकृताहारं सायं बलिं दत्वाऽथैकादश्यामेकोद्दिष्टं कुर्वन्ति ॥ न जातु श्येनकाकादीन् पक्षिणः । प्रतिषेधयेत्

तद्रूपास्तस्य पितरस्समायान्तीति वैदिकाः

इति विज्ञायते ॥ ( बो. पि. शे. सू. २ ) अथ कर्ता ज्ञातयश्च कनिष्ठप्रथमा ग्रामं प्रयान्ति । मृतदेशे सर्षपतण्डुलान्विकीर्य नग्नपच्छादनश्राद्धं कृत्वा नदीतीरं तटाकान्तं वा गत्वा स्नात्वा सार्द्रवस्त्रो दक्षिणामुख उपविश्य शिलां स्थापयेद्दक्षिणान्ताम् -

ब्रह्मात्मकं यमाकारममुं प्रेतमावाहयामि, विष्ण्वात्मकमन्तकाकारममुं प्रेतमावाहयामि, शिवात्मकं वैवस्वताकारममुं प्रेतमावाहयामि

इत्यावाह्य क्षुत्तृष्णादाहोपशमनार्थं तिलोदकवासोदकप्रदानानि कुर्युः । कनिष्ठप्रथमास्सपिण्डा ज्ञातयस्त्रिस्त्रिरेकैकोत्तरमग्निदः समानोदकास्तृप्यन्तु । नित्यमेकैकमञ्जलिमिति वस्त्राणि च संपीड्य जलघटं शिरसि निधाय गृहं गत्वा वामपार्श्वे पूर्ववत्तिस्रश्शिलाः स्थाप्य तासु वस्त्राणि संपीड्य सायमारभ्य बलिं दत्वा पिण्डं काकेभ्यो दत्वाऽप्सु वा प्रक्षिप्यैकोत्तरवृद्धिश्राद्धं दत्वा नवश्राद्धदिवसे नवश्राद्धञ्च स्नात्वा सपिण्डान्तं ब्रह्मचारी भवति । द्वितीयदिवसेऽस्थिसञ्चयनं कुर्यात् । दशाहमध्ये सङ्क्रान्तिर्वा दर्शो वा भवेत्तदानीमेवौरसदत्तकव्यतिरिक्तानां समापयेत् ॥ (बो. पि. सू. ३. ४. २२) एकरात्रमुपोष्य तेषामक्षारलवणभोजनमधःशयनं ब्रह्मचर्यं चादशरात्रात् । सायंप्रातस्तूष्णीमुपलेषु पिण्डं निपृणुयात् । सायंप्रातः सकृदुदकक्रिया ॥ अथैषा पत्नी नाश्नीयात्पक्वान्नस्य ।

अथ प्रयोगः ॥ नदीतीरं तटाकान्तं वा गत्वा स्नात्वाऽऽर्द्रवस्त्र एकदर्भपवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य प्राचीनावीती

अमुकगोत्रस्य प्रेतस्य क्षुत्तृष्णादाहोपशमनार्थं मूर्धाद्यवयवनिष्पत्त्यर्थं प्रेताऽऽप्यायनार्थञ्च प्रथमेऽहनि प्रातः (सायङ्काले तु ‘सायं’ अशक्तः ‘तन्त्रेण प्रातस्सायं’) तिलोदकवासोदकपिण्डबलिप्रदानानि करिष्ये, आदौ अद्यप्रभृतिदशमदिनान्तकर्मसु प्रेतसान्निध्यार्थं शिलास्थापनं करिष्ये

इति सङ्कल्प्य शुचौ देशे अवटं खात्वा दक्षिणामुख उपविश्य नातिस्थूलं नातिसूक्ष्ममस्फुटं सुदर्शनं श्लक्ष्णं श्यामलं लोहितं वा प्रक्षाळितं दर्भवेष्टितं शिलात्रयं दक्षिणाऽपवर्गमवटे निधाय तासु क्रमेण तिलैरावाहयेत् -

ब्रह्मात्मकं यमाकारममुकगोत्रममुकशर्माणं प्रेतमावाहयामि, विष्ण्वात्मकमन्तकाऽऽकारममुक° शर्माणं प्रेतमावाहयामि, रुद्रात्मकं वैवस्वताकारममुक° शर्माणं प्रेतमावाहयामि

इत्यावाह्य

अत्र सन्निहितस्तिलोदकादि स्वीकुरु

इति प्रार्थ्य गन्धादिभिरभ्यर्च्य

अमुकगोत्राऽमुकशर्मन्प्रेत अद्य प्रातरेतत्ते तिलोदकमुपतिष्ठतु, अमुकगोत्राऽमुकशर्मन्प्रेत सायमेतत्ते तिलोदकमुपतिष्ठतु

इति प्रत्येकं त्रिस्त्रिस्तिलोदकं दद्यात् । वस्त्रखण्डं त्रिगुणीकृतं गृहीत्वा प्रथमेऽहनि त्रीणि द्वितीये चत्वारि तृतीये पञ्च चतुर्थे षट् पञ्चमे सप्त षष्ठेऽष्टौ सप्तमे नव अष्टमे दश नवमे एकादश दशमे द्वादश वासोदकं दद्यात् । अथ शिलाग्रतः सकृदुद्धत्याऽद्भिरवोक्ष्य सव्यंं जानु निपात्य दक्षिणामुखो दक्षिणाऽग्रान्दर्भान्संस्तीर्य

मार्जयताममुक° प्रेतः

इति तेषु तिलोदकं दत्वा तत्र

अमुक° प्रेत अद्य प्रथमेऽहनि प्रातरयन्ते पिण्ड उपतिष्ठतु, अमुक° प्रेत सायमयन्ते पिण्ड उपतिष्ठतु

इति तिलदधिमधुक्षीरघृतसंयुतमोदनपिण्डद्वयं दत्वा,

मार्जयताममुक° प्रेतः

इति तिलोदकं दद्यात् । अथाऽङ्ष्ठेनाऽभिमृश्य

अमुक° प्रेत एतत्ते अञ्जनमुपतिष्ठतु, अभ्यञ्जनमुपतिष्ठतु, वास उप°, गन्ध उप°, अक्षताः°, पुष्पं°, नेवेद्यमुपतिष्ठतु

इत्यञ्जनादि दत्वा, तत्पूर्वभागे दक्षिणाग्रदर्भेषु

अमुक° प्रेत अयन्ते बलिरुपतिष्ठतु

इति सव्यञ्जनमोदनं दत्वा पिण्डबल्योरुपरि तिलोदकमुपतिष्ठतु, इति तिलोदकं दत्वा स्थाळीसंक्षाळनेन पिण्डमपसव्यं परिषिच्य

अनादिनिधमे[[??]]शान शङ्खचक्रगदाधर ।
अक्षय्यपुण्डरीकाक्ष प्रेतमुक्तिप्रदो भव

इति प्रार्थ्य पिण्डं बलिञ्चोद्वास्य पिण्डं जले प्रवाह्य बलिं काकेभ्यो दद्यात् ॥ द्वितीयदिने सङ्कल्पे

ग्रीवास्कन्धाद्यवयवनिष्पत्त्यर्थं, तृतीये-हृदयादि, चतुर्थे-पृष्ठादि, पञ्चमे-नाभ्यादि, षष्ठे-कटिगुह्यादि, सप्तमे–सक्थिनी इत्यादि, अष्टमे-जान्वाद्यवयवनिष्पत्त्यर्थं, नवमे-पाद्याद्यवयवनिष्पत्त्यर्थं, दशमे दिने-सर्वाऽवयवनिष्पत्त्यर्थम्

इति विशेषः ॥ एवं प्रत्यहं सायञ्च तिलोदकवर्जं वासोदकपिण्डबलिप्रदानानि कुर्यात् ॥ नित्यश्राद्धानन्तरं ( विषमदिने नवश्राद्धात्पूर्वं ) प्रत्यहमेकोत्तरवृद्धिश्राद्धं नवश्राद्धवदामेन कुर्यात् ॥ प्रथमदिने नित्यविधिं समाप्य जलघटं शिरसि निधाय गृहद्वारि वामपार्श्वे पूर्ववत्तिस्रः शिलाः स्थापयित्वा तासु कनिष्ठपूर्वाः उदकदानमन्त्रेण वासः पीडयन्ति ॥