०७ नग्नप्रच्छादनश्राद्धम्

॥ अथ नग्नप्रच्छादनश्राद्धम् ॥

वैद्यनाथीये चन्द्रिकायाम् -

नग्नप्रच्छादनश्राद्धं स्नानान्ते तु मृतेऽहनि ।
घटे तण्डुलसम्पूर्णे वाससा परिवेष्टिते ॥
पिधाय कांस्यपात्रेण तस्मिन्नाज्यं विनिक्षिपेत् ।
हिरण्यं तत्र निक्षिप्य यथाविभवसारतः ।
कुलीनाय दरिद्राय विष्णुञ्च मनसा स्मरन् ।
प्रेतमुद्दिश्य सम्पूज्य ब्राह्मणन्तु विसर्जयेत्

इति ॥ व्यासः -

वासस्तण्डुलमत्पात्रं प्रदीपं कांस्यभाजनम् ।
दहनानन्तरं दद्यान्नग्नप्रच्छादनं हि तत्

इति ॥ जातकर्णिः -

तिलोदकं तथा पिण्डं नग्नपच्छादनं नवम् ।
रात्रौ न कुर्यात्सन्ध्यायां यदि कुर्यान्निरर्थकम्

इति ॥

अथ नग्नपच्छादनश्राद्धप्रयोगः ॥ आचमनादि देशकालकीर्तनान्ते ( प्राचीनावीती )

अमुकगोत्रस्य० प्रेतस्य क्षुत्तृष्णाजनिततापोपशमनार्थं नग्नत्वविमोचनार्थं नग्नपच्छादनश्राद्धं करिष्ये

इति सङ्कल्प्य उदङ्मुखं दर्भबटुमुपवेश्य, अमुकगोत्र° प्रेत इदं ते आसनमुपतिष्ठतु, अमुक० प्रेत अयन्ते क्षण उप० । एवमेव आवाहनम्, अर्चनम्, अर्घ्यम्, वासः, उपवीतम्, अलङ्करणम्, गन्धः, अक्षताः, पुष्पाणि, इत्यादिभिरुपचारैरभ्यर्च्य, वाससा परिवेष्टितं कांस्यपात्रेणापिहितं साज्यं सदीपं सहिरण्यं तण्डुलपूर्णघटं

अमुकप्रेतस्य° नग्नत्वविमोचनार्थं क्षुत्तृष्णादाहतापोपशमनार्थं तण्डुलपूर्णघटाद्युपतिष्ठतु

इत्युक्त्वा जलधारापूर्वकं दद्यात् । तद्दिने उपवासः ॥ ॥ दशाहपर्यन्तमक्षारलवणाशनमधःशय्याब्रह्मचर्यादयएते कर्तृनियमाः ॥