॥ पितृमेधप्रयोगः॥
अग्नेः पश्चाद्दक्षिणाऽग्रेषु दर्भेषु दक्षिणाशिरसं प्रेतं शाययित्वा सर्वोषधं ( तिलमाषव्रीहियवगोधूमाऽणुप्रियङ्गवश्यामाकनीवारजर्तिलगवोधुकगार्मुतकुरुविन्दवेणुयवंं ) उदकुम्भमहतं वासः समूलं बर्हिर्हिरण्यशकलानग्निपात्रं परशुमश्मानं शुक्लसूत्रमूर्णासूत्रमनः प्रेतासन्दीं द्वे शुल्बे तिस्रः पर्णशाखाः समिधश्चतुरश्शङ्कून् रज्जुं दधि मधु घृतं तिलांस्तण्डुलानाज्यं स्रुक्स्रुवादि याज्ञिककाष्ठानि चान्यांश्चोपयुक्तान्सम्भारान्सम्भृत्य -
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, प्राचीनावीती -
अमुकगोत्रममुकशर्माणं ( पित्रादिं ) प्रेतममुकाऽग्निना पैतृमेधिकविधिना संस्करिष्यामि इति सङ्कल्प्य यथोक्तमग्निमुपसमाधाय, मृतसंस्कारहोमः कर्म, पैतृकं तन्त्रं, कव्यादो नामाग्निः, यमो देवता, प्रेतशरीरं हविः, आज्यञ्च, आज्यस्य मान्त्रवर्णिक्यो देवताः, सद्यो यक्ष्ये, इत्याद्यन्वाधायाऽपसव्यं परिसमूहनादि स्रुक्स्रुवसम्मार्जनान्ते तूष्णीमप्रदक्षिणमग्निं परिषिञ्च्य, समिधमाधाय स्रुचि चतुर्गृहीतं गृहीत्वा -
ॐ सन्त्वा सिञ्चामि यजुषा प्रजामायुर्धनञ्च । ॐ शान्तिः शान्तिः शान्तिः
इति शान्तिं पठित्वा प्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति -
परेयुवाँसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतँसङ्गमनं जनानां यमँराजानँ हविषा दुवस्यत स्वाहा
इति । वैवस्वताय यमाय राज्ञ इदं॰ । अथैनं सम्भारेण सह बहिरानीय सर्वोषधेनोदकुम्भं पूरयित्वाऽनेन विस्रस्तकेशः पादमारभ्य स्नापयति -
चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः। आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः। सामाऽध्वर्युः । वाचस्पते विधेनामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोमं पिबतु । आस्मासु नृम्णं धात्स्वाहा
[[865]]
इति ॥ एवं संस्नाप्य ग्राम्यैरलंकारैरलङ्कृत्य शिरस्तो नलदमालां बध्वाऽऽसन्द्यां दक्षिणाशिरसमुत्तानं संवेश्य शुक्लसूत्रेण हस्तपादाङ्गुष्ठौ दृढं बध्वा उदग्दशेनाहतेन वाससा ( तस्य चतुर्थभागं छित्त्वाऽऽत्मन उत्तरीयं कृत्वा ) पादादिकेशान्तं प्रच्छादयति -
इदं त्वा वस्त्र प्रथमं न्वागन्न्
इति ॥
पूर्वधृतं प्रेतवस्त्रमपोहति -
अपैतदूह यदिहाविभः पुरा । इष्टापूर्तमनुं सम्पश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु
इति । तस्य पुत्रोऽन्तेवासी वा पत्नी वा परिदधीत । एतस्मिन्कालेऽस्य भार्या पुत्रादयो ज्ञातयो विकीर्णकेशाः पांसून् तिसृभिरङ्गुलीभिरादायाऽत्मनोंऽसेष्वावपन्ते
खल्वघं न्वास्यादघन्नो एवाघन्
इति ॥ अथैनमासन्द्याऽनसा वा दासाः प्रयवसो वा निवीतिनो वहेयुः ॥ अनसा प्रेतवहनपक्षे -
इमो युनज्मि ते वह्वी असुनीथाय वोढवे । याभ्यां यमस्य सादनँसुकृताञ्चाऽपि गच्छतात्
इति अनङ्वाहौ युनक्ति । अनसोऽभावेऽनेनैव मन्त्रेण वाहकाननुमन्त्रयते । वाहकैरादीयमानमनुमन्त्रयते -
पूषा त्वेतश्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । सत्वैतेभ्यः परिददात् पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः
इति ॥ अग्निं सम्भारांश्चाग्रतः कृत्वा सर्वेऽनुगच्छेयुः। तृतीयमेतस्याध्वनो गत्वा दक्षिणाऽग्रेषु दर्भेषु दक्षिणाशिरसं प्रेतं निधाय तस्य पाददेशे दक्षिणामुखो भूमिं प्रोक्ष्य दक्षिणाग्रेषु दर्भेषु तिलोदकं ददाति -
अमुकगोत्राऽमुकशर्मन्प्रेत अध्वनस्तृतीयभागे इदन्ते तिलोदकमुपतिष्ठतु
इति । कनिष्ठप्रथमाः पुत्रादयः प्रकीर्णकेशाः सिग्वातेन (परिहितवस्त्रैः) उपवीजयन्तस्त्रिरप्रदक्षिणं परियन्ति -
वातास्ते वान्तु पथि पुण्यगन्धा मनःशुभा गात्रशुभा अनुलोमाः । त्वचःसुखा मांससुखा अस्थिसौख्या वहन्तु त्वा मरुतः सुकृतां यत्र लोकाः
इति ॥ अथ वद्धशिखा ज्येष्ठप्रथमास्तूष्णीं त्रिः प्रदक्षिणं प्रतिपरियन्ति। पुनर्विस्त्रस्य केशा वाहकैरादीयमानमनुमन्त्रयते -
पूषेमा आशा अनुवेद सर्वास्सो अस्माँअभयतमेननेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान्
[[866]]
इति । अथाऽध्वनोऽर्धभागं गत्वा पूर्ववत्प्रेतं निधाय पाददेशे दक्षिणाऽग्रेषु दर्भेषु
अमुकगोत्र॰ शर्मन् प्रेत अध्वनोऽर्धभागे इदन्ते तिलोदकमुपतिष्ठतु
इति तिलोदकं दत्वा, अप्रदक्षिणं प्रदक्षिणञ्च पूर्ववत्त्रिः परीत्य पुनस्तथैवाऽदीयमानमनुमन्त्रयते -
आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु
इति । दहनदेशं गत्वा तत्र पश्चाद्दक्षिणाऽग्रेषु दर्भेषु दक्षिणाशिरसं प्रेतं निधाय तस्य पाददेशे दक्षिणामुखो दक्षिणाऽग्रेषु दर्भेषु –
अमुकगोत्र॰ प्रेत समस्ताऽध्वनो भागे इदन्ते तिलोदकमुपतिष्ठतु
इति तिलोदकं दत्वा पूर्ववदप्रदक्षिणं प्रदक्षिणञ्च त्रिः परीत्य, दहनदेशं दक्षिणाप्रत्यक्प्रवणं गोचर्ममात्रं विमाय हिरण्येन परिक्रीय चतुर्दिक्षु शंकून निहत्य रज्वा परिवेष्ट्य मध्ये उद्धत्यावोक्ष्य हिरण्यं निधाय पर्णशाखयौदुम्बरशाखया शमीशाखया वा दक्षिणापवर्गं सम्मार्ष्टि
अपेत वीत वि च सर्पतातो येत्र स्थ पुराणा ये च नूतनाः
इति ॥ दक्षिणतः शाखां निरस्याद्भिरवोक्षति -
अदादिदं यमोवसान पृथिव्या अकन्निमं पितरो लोकमस्मै
इति ॥ तत्र हिरण्यशकलं निदधाति -
अपसर्पत प्रेता ये के चेह पूर्वजाः स्वस्ति नः कुरुत माश्रुपातः पुनरागमिष्यामहे
इति। स्फ्येन वा परशुना वा दक्षिणापवर्गास्तिस्रः कः खात्वा तासु मुष्टिपरिमिततिलतण्डुलान् निवपति -
यमाय दहनपतये पितृभ्यः स्वधा नमः
इति प्रथमायां
कालाय दहनपतये पितृभ्यः स्वधा नमः
इति मध्यमायां
मृत्यवे दहनपतये पितृभ्यः स्वधा नमः
इति दक्षिणायां निवपति । अवशिष्टांस्तिलतण्डुलान् सर्वतस्त्रिरपसव्यं प्रकिरति -
यथा पिता पुत्रं पश्यति । सखा वा सखिमागतम् । एवमिमं पूर्वसंक्लिन्नाः प्रेताः पश्यतमान्यथा
इति । तत्र दक्षिणाग्रान दर्भान् संस्तीर्य तेषु दक्षिणाग्रैर्याज्ञिकैः काष्ठैश्चितां कल्पयित्वा तत्र दक्षिणाग्रीवमधरलोम कृष्णाजिनमास्तीर्य दक्षिणाशिरसमुत्तानं प्रतं निधायाऽपकृष्य रज्जुमासन्दीमपविध्य चितामूर्णासूत्रेणाऽपसव्यं संवेष्ट्य तत्पश्चादग्निं निधाय दर्भेरग्निं चिताञ्चाऽप्रदक्षिणं परिस्तीर्याऽग्नेर्दक्षिणतो दक्षिणाऽग्रेषु दर्भेषु आज्यस्थालीं नुवं स्रुवं प्रोक्षणीञ्चैकैकशः सादयित्वा एकदर्भपवित्रेण प्रोक्षणीः संस्कृत्य प्रेतं पात्राणि चिताञ्च प्रोक्ष्याऽऽज्यसंस्कारादि स्रुक्सम्मार्जनान्तं कृत्वा स्रुचि चतुर्गृहीतं गृहीत्वा व्याहृतीविंग्राहं हुत्वा
(प्रेतस्य भार्यामुपसंवेशयति -
इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम् । विश्वं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणञ्चेह धेहि
[[867]]
इति । तां प्रतिहितः ( देवरः ) सव्ये पाणावभिपात्योत्थापयति -
उदीर्ष्व नार्यभि जीव लोकमितासुमेतमुपशेष एहिं । हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभि सम्बभूव
इति ॥ इदं प्रेतस्य भार्योपसंवेशनमुत्थापनञ्च नानुष्टेयम्, कलौ निषिद्धत्वात् ॥)
प्रेतस्य दक्षिणवामहस्तौ क्रमेण सुवर्णेन सम्माष्टिं -
सुवर्णँहस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयँसुशेवा विश्वाः स्पृधो अभिमातीर्जयेम
इति ॥ स्त्रीणां तूष्णीं सम्मृजेत् ॥
अथास्य प्रच्छादनवस्त्रमपास्य आस्ये नासिकयोरक्ष्णोः कर्णयोरिति सप्त प्राणायतनेषु सप्त हिरण्यशकलानाज्यबिंदून्वा प्रत्यस्य, स्रुचि चतुर्गृहीतं गृहीत्वा दक्षिणेऽक्षिण जुहोति -
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः स्वाहा
इति ॥ पुनश्चतुर्ग्रहीतेन वामेऽक्षिण —
आप्रा द्यावापृथिवी अन्तरिक्षँसूर्य आत्मा जगतस्तस्थुषश्च स्वाहा
इति ॥ सूर्यायेदं॰ ॥ दधिमधुघृतं तिलतण्डुलांश्च समुदायुत्य शवमुखे निवपति ॥ शम्याप्रणीतास्थालीदर्व्यादिस्मार्तपात्रसंग्रहणपक्षे तानि प्रेतस्योपरि निदधाति -
इममग्ने चमसं माविजीह्वरः प्रियो देवा नामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम्
इति ॥ तं बान्धवाः सिग्वातेनोपवीजयन्ति ॥ अथोदकुंभं शिरसि वामांसे वा निधाय प्रेतं चितां चाप्रदक्षिणं पर्येति । तमश्मना परशुना वा कश्चिदधस्तात्प्रहरति -
यश्चिद्धिते विशो यथा प्रदेव वरुण व्रतम् । मिनीमसिद्यविद्यवि
[[868]]
इति। तां धारामनुमन्त्रयते
इमा आपो मधुमत्योऽस्मिँस्ते लोक आदुह्यंताम्इ
इति ॥ एवं द्वितीयं पर्येति । तं तथैव प्रहरति
यत्किंचेदं॰ रीरिषः
इति । तां धारामनुमन्त्रयते
इमा आपो मधुमत्योंतरिक्षे ते लोक उपदुह्यन्ताम्
इति ॥ एवमेव तृतीयं पर्येति। तथैव प्रहरति
कितवासी॰ प्रियासः
इति । तां धारामनुमन्त्रयते-
इमा आपो मधुमन्यः स्वर्गे ते लोक उपदुह्यन्ताम्
इति ॥ प्रेतशिरोदेशे उदङ्मुखस्तिष्ठन् पृष्ठभागे तं कुंभं भिनत्ति ॥ तत्रैवोपविश्यार्द्रतृणगुल्मादिकं स्पृष्ट्वोपोत्थाय भिन्नकुंभकपालस्थजलमादाय प्रेतस्यास्यनासिकाश्रोत्रेषु निनयति -
दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्ता नः शुन्धन्तु शुन्धनीः
इति ॥ गां ब्राह्मणं च दृष्ट्वा हिरण्यं स्पृशति ॥ अथैनं प्रेतम् अहतेनोदीचीनदशेन वाससा कृष्णाजिनेन दक्षिणाग्रीवेणोत्तरलोम्ना वा आच्छाद्यांगुष्ठबंधनं विस्रस्याग्निनोपोषति
भूः पृथिवीं गच्छतु
इति शिरोदेशे ।
भुवोंतरिक्षं गच्छतु
इति नाभिदेशे।
सुवर्दिवं गच्छतु
इति पाददेशे ॥
अथैनमादीपयति ।
आदीप्यमानमनुमन्त्रयते -
मैनमग्ने विदहो माभिशोचो मास्यत्वचं चिक्षिपो मा शरीरम् । यदाशृतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः
इति । प्रज्वलितमनुमन्त्रयते -
शृतं यदा करसि जातवेदोऽथेमेनं परिदत्तात् पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति
इति
मैनमग्ने, शृतं यदा
इति मन्त्रद्वयं स्त्रीणां वर्जयेत् ॥ अत्र षड्ढोतारं व्याचष्टे -
सूर्य ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः
इति ॥ अथावलेन शुल्बेन (दर्भमयं वा ) अजं चितासमीपे बध्नाति यथास्वयमेव छित्वा गच्छेत्-
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेम सुकृतां यत्र लोकाः
इति ॥ स्त्रीणामजबन्धनं न विद्यते ।
[[869]]
अथ दहनाग्नौ पर्णमयेन स्रुवेणाज्याहुतीर्जुहोति-
य एतस्य पथो गोप्तारस्तेभ्यस्स्वाहा । पथो गोप्तृभ्य इदं॰ ॥ य एतस्य पथो रक्षितारस्तेभ्यः स्वाहा । पथो रक्षितृभ्य इदं॰ ॥ य एतस्य पथोऽभिरक्षितारस्तेभ्यः स्वाहा । पथोऽभिरक्षितृभ्य इदं॰ ॥ आख्यात्र स्वाहा, यथालिंगं त्यागः । अपाख्यात्रे स्वाहा । अभिलालपते स्वाहा । अपलालपते स्वाहा । अग्नये कर्मकृते स्वाहा ॥ यमत्र नाधीमस्तस्मै स्वाहा । अनधीताय तस्मा इदं॰ ॥ अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमँसुकृतां यत्र लोकाः स्वाहा ॥ अग्नये वैश्वानराय जातवेदस इदं॰ ॥
अत्र स्त्रीणां
अयं वै त्वं॰
इत्येकं वर्जयेत् । अत्रैव स्रुवमग्नौ प्रहरति॥ अथ जघनेन चितां दक्षिणाभिमुखस्तिष्ठन्नवर्चेन याम्येन सूक्तेनोपतिष्ठते ॥ आसीनः पराचानुशंसति वा ।
(अनुशंसनकमः)
प्रकेतुना बृहता भात्यग्निराविर्विश्वानि वृषभो रोरवीति । दिवश्चिदन्तादुप मामुदानडपामुपस्थे माहिषो वैवर्धो ३ मिदं त एकं पर ऊत एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थों ३ नाके सुपर्णमुपयत्पतंतँहृदा वेनेतो अभ्यचक्षत त्वा। हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्यो ३ मतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा।
अथा पितॄन्त्सुविदत्राँअपीहि यमेन ये सधमादं मदंतों ३ यौ ते श्वानौ यमरक्षितारौ चतुरक्षौ पथि रक्षी नृचक्षसा। ताभ्याँराजन्परिदेह्येनँस्वस्ति चास्मा अनमीवं च धेहो ३ मुरुणसावसुतृपावुलुंबलौ यमस्य दूतौ चरतो वशाँअनु । तावस्मभ्यं दृशये सूर्याय पुर्नर्दत्तावसुमद्येह भद्रों ३ सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताँश्चिदेवापिगच्छतों ३ ये युध्यंते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्रदक्षिणास्ताँश्चिदेवापिगच्छतों३ तपसा ये अनाधृष्यास्तपसा ये सुवर्गताः। तपो ये चक्रिरे महत्ताँश्चिदेवापिगच्छतों ३ ” इति ॥
अत्र
इदं त एकं, यौ ते श्वानौ
इति द्वयं स्त्रीणां वर्जयेत् ॥
(स्त्रीणां शंसनकमः)
प्रकेतुना॰ ववर्घों ३ नाके सुपर्ण॰ भुरण्यो ३ - मतिद्रव सारमेयौ॰ मदन्तो ३ मुरुणसा॰ भद्रों ३ सोम एकेभ्यः॰
[[870]]
इत्यादि ॥ सुसमिद्धेष्वग्निषु यज्ञियकाष्ठमाधाय तं धर्ममुपतिष्ठते
यं धर्मो अग्निमभिजिहतिं होमान्यां गतिं यान्ति वै युधि युद्धशूराः। तनुत्यजो मोक्षविदो मनीषिणो विधूतपापा विरजा विशोकास्तान् लोकान्गच्छ सुगतिं नाकपृष्ठेँस्वधा नमः
इति ॥
अथ जघनेन चितां त्रीणि गर्तानि खात्वाद्भिः पूरयित्वा सिकताभिरनुप्रकीर्य कनिष्ठप्रथमास्तदुदकं स्पृशन्तः संगाहन्ते -
अश्र्भन्वती रेवतीः सँरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमभि वाजानुत्तरेम
इति ॥ गर्तपश्चिमे पर्णशाखे निहत्याऽबलं शुल्बं तोरणाकारेण बध्वा तदन्तरेण कनिष्ठप्रथमाः निर्गच्छन्ति-
यद्वै देवस्य सवितुः पवित्रँसहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाऽहं माँसर्वतनुं पुनामि
इति ॥ पश्चाद्गन्ता शुल्वं छित्वा पर्णशाखे व्युदस्यति –
या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः। धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान् रय्या वर्चसा सँसृजाथ
इति ॥ तन्देशमनवेक्षमाणा उदङ्मुखास्तीर्थं गच्छन्ति। राजपुरुषाः स्वगोत्रबान्धवो वा पर्णशाखामादाय “मावतरत" इति तान्निवारयेत् । “न पुनःपुनरागमिष्यामहे” इति प्रतिब्रूयुः । ततो मृत्तिकाभिः सर्वाङ्गमालिप्य दक्षिणामुखा एकैकवाससो विस्रस्तकेशा आप्लवन्ते-
धाता पुनातु सविता पुनातु । अग्नेस्तेजसा सूर्यस्य वर्चसा
इति ॥
अथ प्राचीनावीतिनो दक्षिणामुखाः
अमुकगोत्राऽमुकशर्मन्प्रेत दाहजनिततापोपशमनार्थमयन्ते जलाञ्जलिरुपतिष्ठतु
इति त्रींस्त्रीञ्जलाञ्जलीन्दद्युः ॥ पुत्रादयः पुनस्सकृन्निमज्योत्तीर्य शिखां बध्वाऽऽचम्य प्राचीनावीतिनो दक्षिणाग्रान्दर्भान्त्सँस्तीर्य प्रेतशिलां निधाय सव्यं जानु निपात्य दक्षिणमुध्द्वत्य तिलदूर्वामिश्रजलमञ्जलौ गृहीत्वा
अमुकगोत्र॰ प्रेत एतत्ते तिलोदकमुपतिष्ठतु
इति त्रिस्त्रिस्तिलाञ्जलीन्दत्वा यज्ञोपवीतिनः पुनः स्नात्वाऽऽचम्य
सन्त्वा सिञ्चामि॰ धनं च
इति शान्तिं पठित्वाऽऽदित्यमुपतिष्ठन्ते -
उद्वयन्तमसस्परि॰ रुत्तमम्
[[871]]
इति । कनिष्ठप्रथमा ग्रहानायान्ति । गृहद्वारि निम्बपत्रं प्राश्र्याऽऽचम्य गोमयं सुवर्णमपोऽग्निं गौरसर्षपांश्च स्पृष्ट्वा कनिष्ठपुरस्सरमश्मनि पदं कृत्वा मृतस्थाने उदकमिश्रांस्तिलसर्षपतण्डुलान्सम्प्रकिरति-
स्वस्त्यस्तु वो गृहाणामशेषे शिवं वास्त्वास्ताम्
इत्युक्त्वा दीपं प्रज्वाल्य गृहं प्रविशन्ति ॥