॥ पितृमेधे प्रायश्चित्तानि ॥
प्रेतस्य विच्छिन्नाग्निपुनःसन्धानम्
प्राचीनावीती दक्षिणाप्राङ्मुखः सर्वकर्माणि कुर्यात् ॥
आचम्य प्राणानायम्य (आचमनप्राणायामयोः सर्वत्रोपवीतम्) देशकालौ सङ्कीर्त्य
अमुकगोत्रस्यामुकशर्मणो मम (पित्रादेः) प्रेतस्य पैतृमेधिकविधिना संस्कारं कर्तुं विच्छिन्नाग्निं पुनः सन्धास्ये
इति सङ्कल्प्य याज्ञिकशकलेन भूमिं सकृदुद्धत्यावोक्ष्य स्थण्डिलं कृत्वा प्रागग्रा दक्षिणाग्राश्च तिस्रस्तिस्रो रेखास्तूष्णीं विलिख्याद्भिरभ्युक्ष्याग्निं व्याहृतिभिर्नियुप्यान्वादध्यात् । प्रेतपुनःसन्धानहोमः कर्म, पैतृकं तन्त्रं, क्रव्यादो नामाग्निः, अग्न्यादयो देवताः, आज्यं हविः, सद्यो यक्ष्ये, इत्याद्यन्वाधायाग्निमपसव्यं परिसमूह्य पर्युक्ष्य दक्षिणाग्रप्रागग्रैर्दभैः ( पुरस्ताद्दक्षिणाग्रान् उत्तरतः प्रागग्रान्पश्चाद्दक्षिणाग्रान्दक्षिणतः प्रागग्राानुत्तरानुत्तरान्दक्षिणानधरानित्येवं ) परिस्तीर्य दक्षिणेनाग्निं दर्भेषु आज्यस्थालीं स्रुवं स्रुचं प्रोक्षणीमित्येकैकशः सादयित्वा एकदर्भपवित्रेण प्रोक्षणीः संस्कृत्योत्तानानि पात्राणि कृत्वा सकृत्प्रोक्ष्यापरेणाग्निमाज्यं निरूप्य दक्षिणतोंगारान्निरूह्य तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य दर्भाग्रं प्रच्छिद्य प्रक्षाळ्य प्रत्यस्य पूर्वाभिद्योतनेनैव पुनरभिद्योत्याऽप्रदक्षिणं सकृत्पर्यग्नि कृत्वा दक्षिणत उद्धास्यांगारान्प्रत्यूह्याज्यं सकृदुत्पूय पवित्रं विस्रस्याप उपस्पृश्याग्नावनुप्रहरति । अथ स्रुक्स्रुवौ निष्टप्य सम्मृज्य सम्मार्गदर्भानद्भिः सँस्पृश्य प्रहृत्याग्निमपसव्यं परिषिञ्च्य समिधमाधाय स्रुचि चतुर्गृहीतं गृहीत्वा (पञ्चावत्तिनां पञ्चगृहीतं) पूर्णाहुतिं जुहोत्यन्वारब्धे यजमाने-
सप्त ते अग्ने समिधः सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि । सप्त होात्रास्सप्त धात्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदं॰ ।
पुनश्चतुगृहीतेन सप्तव्याहृतीविग्राहं जुहोति-
ॐ भूस्स्वाहा । अग्नय इदं॰॥ ॐ भुवस्स्वाहा। वायव इदं॰ ॥ ॐ सुवस्स्वाहा । सूर्यायेदं॰ ।। ॐ महस्स्वाहा । वागीशायेदं॰ ॥ ॐ जनस्स्वाहा । वरुणायेद॰ ॥ ॐ तपस्स्वाहा । इन्द्रायेदं॰ ॥ ॐ सत्यँस्वाहा । विश्वेभ्यो देवभ्य इद॰ ॥
पुनश्चतुर्गृहीतेन द्वे आहुती विग्राहं जुहोति-
पूर्वं देवा अपरेणानु पश्यञ्जन्मभिः । जन्मान्यवरैः पराणि । वेदानि देवा अयमस्मीतिमाम् । अहँहित्वा शरीरं जरसः परस्तात्स्वाहा। देवेभ्य इदम् ॥ प्राणापानौ चक्षुः श्रोत्रम् । वाचं मनसि सम्भृताम् । हित्वा शरीरं जरसः परस्तात् । आभूतिं भूतिं क्यमश्नवामहै स्वाहा। प्राणादिभ्य इदं॰ ।।
[[857]]
पुनश्चतुर्ग्रहीतेन द्वे आहुती विग्राहं जुहोति-
मा त्यो वृक्षौ सम्बोधिष्टा मा माता पृथिवि त्वम् । पितॄन्ह्यत्र गच्छास्ये धासं यमराज्ये स्वाहा । वैवस्वतायेदं॰ ॥ मा त्वा वृक्षौ सम्बधेियां मा माता पृथिवी मही। वैवस्वतँ हि गच्छासि यमराज्ये विराजसि स्वाहा । वैवस्वतायेदम् ॥
पुनश्चतुर्गृहीतेन द्वे आहुती विग्राहं जुहोति-
अग्नेभ्यावर्तिन्॰ धनेन स्वाहा ॥ अग्ने अङ्गिरः॰ कृधि स्वाहा" ।
आहुतिद्वयेऽपि अग्नयऽभ्यावर्तिन इदं॰॥ स्रुवेण अनाज्ञातादित्रयं मिन्दाद्वयं भूरादिचतुष्टयञ्च हुत्वा होमशेषं समापयेत् ॥ ॥औपासनविच्छित्तिदिनादारभ्यैतावत्कालपर्यन्तं सायंप्रातरौपासनाऽकरणप्रायश्चित्तार्थं कृप्रत्याम्नायहिरण्यदानमाशौचान्ते करिष्ये, इति सङ्कल्प्य ह्यस्तनसायमौपासनाऽद्यतनप्रातरौपासनार्थं तण्डुलं संस्कृत्याऽग्निमपसव्यं । परिषिच्य समिधमाधाय ‘अग्नये स्वाहा, प्रजापतये स्वाहा’ (यथालिङ्गं त्यागः) इति तण्डुलैराहुतिद्वयं हुत्वा, पुनः समिधमाधाय ‘सूर्याय स्वाहा, प्रजापतये स्वाहा’ (यथालिङ्गं त्यागः ) इति तण्डुलैराहुतिद्वयं हुत्वा पुनरपसव्यमग्निं परिषिञ्चेत् ॥ ॥ यदि शुक्लपक्षे रात्रौ म्रियेत तदा रात्रिमरणप्रायश्चित्तं वक्ष्यमाणप्रकारेण कृत्वाऽद्यतनसायमौपासनं श्वस्तनप्रातरौपासनं चाऽपकृष्य तण्डुलैर्होष्ये, इति सङ्कल्प्य पूर्ववदाहुतिचतुष्टयं जुहुयात् ॥
दक्षिणायनमरणे
दक्षिणायनमरणप्रायश्चित्तम् ॥
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य प्राचीनावीती -
अमुकगोत्रस्याऽमुकशर्मणो मम | (पित्रादेः) प्रेतस्य दक्षिणायनमरणजनितसमस्तदोषपरिहारार्थं उत्तरायणसम्पत्तिद्वारा उत्तमलोकप्राप्त्यर्थं ‘ता सूर्याचन्द्रमसा’ इत्यादिषण्मन्त्रैः प्रायश्चित्ताज्याहुतीोप्ये
इति सङ्कल्प्याऽग्निमपसव्यं परिषिञ्च्य स्रुचि चतुर्गृहीतं गृहीत्वोत्तरतो दक्षिणामुख उपविश्य सकृज्जुहोति - ‘मृत्योरधिष्ठानाय स्वाहा’ । मृत्योरधिष्ठानायेदं॰ ॥ ततः पृथक्पृथक्चतुर्ग्रहीतेन षण्मन्त्रैर्जुहोति -
ॐ ता सूर्याचन्द्रमसा॰ जातु देवयोः स्वाहा । सर्वत्र सूर्याचन्द्रमोभ्यामिदं॰ ॥ उभावन्तौ॰ हतामती स्वाहा ॥ पती धुमत्॰ महिव्रता स्वाहा ॥ विश्ववपरी॰ सन्दिवँ स्वाहा ॥ अस्य श्रवो॰ विचर्तुरँ स्वाहा ॥ पूर्वापरं॰ जायते पुनः स्वाहा
इति षड्भिर्हुत्वाऽग्निं पुनरपसव्यं परिषिञ्च्याऽमुकगोत्रस्य॰ प्रेतस्य दक्षिणायनमरणजनितसमस्तदोषपरिहारार्थं उत्तरायणमरणसम्पत्तिद्वारा उत्तमलोकप्राप्त्यर्थं अद्यप्रभृत्युत्तरायणाऽऽरम्भदिनपर्यन्तं भविष्यदौपासनाहुतिपरिमितद्रव्यं तन्निष्क्रयहिरण्यं वा आशौचान्ते दास्ये इति सङ्कल्प्याऽऽशौचान्ते दद्यात् ॥
[[858]]
कृष्णपक्षमरणे
कृष्णपक्षमरणप्रायश्चित्तम् ॥
अमुकगोत्रस्य॰ प्रेतस्य कृष्णपक्षमरणजनितसमस्तदोषनिवृत्त्या उत्तमलोकप्राप्त्यर्थं ‘ता सूर्याचन्द्रमसा’ इत्यादि षण्मन्त्रैः प्रायश्चित्ताज्याहुतीर्होष्ये
इति सङ्कल्प्याऽदौ चतुर्गृहीतेन ‘मृत्योरधिष्ठानाय स्वाहा’ (मृत्योरधिष्ठानायेदं॰ ) इति हुत्वा पृथक्पृथक्चतुर्गृहीतेन ता सूर्यादिषडाहुतीश्च हुत्वाऽमुकस्य प्रेतस्य शुक्लपक्षमरणसम्पत्यर्थमद्यप्रभृतिदर्शान्तान्सायमौपासनहोमान्शुक्लप्रतिपत्पर्यन्तान् प्रातरौपासनहोमांश्चाऽपकृष्य तन्त्रेण तण्डुलैर्होष्ये । दर्शस्थालीपाकसंपत्त्यर्थं पूर्णाहुतिञ्च होष्ये इति सङ्कल्प्य तण्डुलान् संस्कृत्याऽग्निमपसव्यं परिषिञ्च्यैकां समिधमभ्याधाय स्थाल्यां दर्शपर्यन्तं वृद्धिक्षयानुसारेण भविष्यत्तिथिसङ्ख्याकं सकृत्सकृत्तण्डुलमुष्टिं गृहीत्वा द्वेधा विभज्य प्रथमभागं ‘अग्नये स्वाहा’ द्वितीयभागं ‘प्रजापतये स्वाहा’ इति सकृत्सकृदुत्वा पुनः शुक्लप्रतिपत्पर्यन्तातिथिसङ्ख्यया सकृत्सकृद्गृहीत्वा द्वेधा विभज्य प्रथमं ‘सूर्याय स्वाहा’ द्वितीयं ‘प्रजापतये स्वाहा’ इति सकृत्सकृज्जुहुयात् ॥ दर्शस्थालीपाकस्थाने स्रुचि चतुर्गृहीतं गृहीत्वा ‘अग्निर्मूर्धा॰ जिन्वतों ३ भवो यज्ञस्य॰ हव्यवाहँ स्वाहा’ इति पूर्णाहुतिं जुहुयात् । मूर्धाग्नय इदं॰ ॥ पुनरग्निमपसव्यं परिषिञ्चेत् ॥
[[859]]
रात्रिमरणे
रात्रिमरणप्रायश्चित्तम् ॥
अमुकप्रेतस्य रात्रिमरणसम्भावितसमस्तदोषपरिहारार्थं ता सूर्याचन्द्रमसेत्यादिषड्भिः प्रायश्चित्ताज्याहुतीर्होष्ये
इति सङ्कल्प्य पूर्वोक्तवदुत्वा, कृष्णपक्षे चेत् पूर्वोक्तप्रकारेणौपासनहोमान्दर्शस्थालीपाकं च कुर्यात् ॥
विधवाविधुरयोरुत्तपनाग्निसन्धानम्
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य प्राचीनावीती
अमुकगोत्रस्याऽमुकशर्मणः (पित्रादेः) विधुरस्य प्रेतस्य (अमुकविधवायाः प्रेतायाः) पैतृमेधिकसंस्कारं कर्तुमुत्तपनाग्निसन्धानं करिष्ये
इति सङ्कल्प्य याज्ञिककाष्ठेन तूष्णीमुद्धत्याऽवोक्ष्य स्थण्डिलं कृत्वा दर्भाग्रे ‘दर्भाग्रे ज्वलितस्त्वन्यदर्भमुष्टिमुपाश्रितः । पुनर्मुष्ट्यन्तरारूढो वह्निरुत्तपनाह्वयः’ एवमुत्पादितमुत्तफ्नाऽग्निं व्याहृतिभिर्नियुज्य, उत्तपनाऽग्निसन्धानहोमःकर्म, पैतृकं तन्त्रं, ऋव्यादो नामाऽग्निः, अग्न्यादयो देवताः, आज्यं हविः, सद्यो यक्ष्ये, इत्यन्वाधानादि पूर्णाहुत्यन्तं कृत्वा स्रुचि द्वादशगृहीतमाज्यं गृहीत्वा
सहस्रशीर्षा पुरुषः॰ साध्यास्सन्ति देवाः स्वाहा
इति पुरुषसूक्तेन सकृज्जुहोति ॥ पुरुषाय नारायणायेदं॰ ॥ अनाज्ञातादि होमशेषं समापयेत् ॥ नात्रौपासनहोमः ॥ दक्षिणायनमरणकृष्णपक्षमरणप्रायश्चित्तादिकं यथासम्भवं कुर्यात् ॥
ब्रह्मचारिणः कपालाऽग्निसन्धानम्
देशकालसङ्कीर्तनान्ते प्राचीनावीती
अमुकगो॰ प्रेतस्य ब्रह्मचारिणः पैतृमेधिकसंस्कारं कर्तुं कपालाऽग्निसन्धानं करिष्ये
इति सङ्कल्प्य तूष्णीं स्थण्डिलं कृत्वा
अग्निवर्ण कपालन्तु कृत्वा तत्र विनिक्षिपेत् । करीषादि ततो वह्निर्जातो यः स कपालजः
एवमुत्पादितं कपालाऽग्निमुपसमाधाय कपालाऽग्निसन्धानहोमः कर्म, पैतृकं तन्त्रं, कव्यादो नामाऽग्निः, अग्न्यादयो देवताः, आज्य हविः, सद्यो यक्ष्ये, इत्यादि पूर्णाहुत्यन्तं कृत्वा स्रुचि द्वादशगृहीतमाज्यं गृहीत्वा ‘प्रजापतये स्वाहा’ इति मनसा ध्यायञ्जुहोति ।। प्रजापतय इदं॰ ॥ अनाज्ञातादि होमशेषं समापयेत् ॥ दक्षिणायनमरणादिप्रायश्चित्तञ्च कुर्यात् ॥
[[860]]
अप्सु मरणे
अथाप्सु मरणे प्रायश्चित्तम् ॥
जले1 मृतस्याऽस्य प्रेतस्याऽप्सु मरणप्रायश्चितं करिष्ये, इति सङ्कल्प्य चतुर्गृहीतेन
इमम्मे वरुण, तत्त्वा यामि
इति द्वाभ्यां जुहुयात् ॥
सर्पदष्टमरणे
॥ सर्पदष्टमरणे प्रायश्चित्तम् ॥
चतुर्गृहीतेनाऽऽज्येन
नमो अस्तु सर्पेभ्यः
इति तिस्र आहुतीर्जुहुयात्2 ॥
पश्वादिभ्यो मरणे
॥ पश्वादिभ्यो मरणे प्रायश्चित्तम् ॥
चतुर्गृहीतेनाऽऽज्येन
आ गावो अग्मन्, इन्द्रो यज्वने
इति द्वाभ्यां द्वे आहुती जुहुयात् ॥
दंष्ट्रिभ्यो मरणे
॥ दंष्ट्रिभ्यो मरणे प्रायश्चित्तम् ॥
चतुर्गृहीतेनाऽऽज्येन
दँष्ट्राभ्याम्मलिम्लूञ्जम्भ्यैस्तस्कराँ उत । हनूभ्याँस्तेनान् भगवस्ताँस्त्वं खाद सुखादितान् स्वाहा ॥ ये जनेषु मलिम्लवः स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताँस्ते दधामि जम्भयोः स्वाहा
इति द्वाभ्यां जुहुयात् ॥
समुद्रे मरणे
॥समुद्रे मरणे प्रायश्चित्तम् ॥
चतुर्गृहीतेनाऽऽज्येन
समुद्राय वयुनाय सिन्धूनां पतये नमः । नदीनाँसर्वासां पित्रे जुहुता विश्वकर्मणे विश्वाहामर्त्यँहविः स्वाहा
इत्येकयर्चा जुहुयात् ॥
अशनिपातमरणे
॥अशनिपातमरणे प्रायश्चित्तम् ॥
चतुर्गृहीतेनाऽऽज्येन
अग्निर्मूर्धा, भुवो यज्ञस्य
इति द्वाभ्यां
मूर्धानं दिवः
इत्येकया वा जुहुयात् ॥
भार्याया रजसि, प्रसूतौ वा पतिमरणे प्रेताऽग्निसन्धानम्
॥भार्याया रजसि प्रसूतौ वा पतिमरणे प्रेताऽग्निसन्धानम् ॥
मम पितुः॰ गोत्रस्य॰ शर्मणः प्रेतस्य मरणकाले भार्याया रजसि प्रसूतौ वा प्रेताऽग्निसन्धानं पितृमेधसूत्रोक्तप्रायश्चित्तं च करिष्ये, इति सङ्कल्प्य पूर्वोक्तप्रकारेणाऽभ्यावर्तिनी होमान्तं कृत्वा (चतुर्गृहीतेन ‘जातवेदसे॰ त्यग्निः स्वाहा। अग्नये जातवेदस इदं॰’ ॥ पुनश्चतुर्गृहीतेन ‘मनो ज्योतिः॰ घृतेन स्वाहा । मनसे ज्योतिष इदं॰’ ॥
[[861]]
पुनश्चतुर्गृहीतेन ‘तन्तुन्तन्वन्॰, उद्बुध्यस्वाग्ने, त्रयस्त्रिँशत्तन्तव॰’ इति त्रिभिः । अग्नये तन्तुमत इदं॰ ॥ पुनश्चतुर्गृहीतेन महाव्याहृतीर्हुत्वा ॥ पुनश्चतुर्गृहीतेन भूरादिचतुष्टयञ्च हुत्वा एवमग्निसन्धानं कृत्वा प्रायश्चितं द्वादशगृहीतेन स्रुचं पूरयित्वा ‘जातवेदसे’ इति पञ्च मनस्वतीं महाव्याहृतीः इत्येताः सन्ततमुक्त्वा एकामाहुतिं जुहुयात् ॥ पुनश्चतुर्गृहीतेन ‘अप पाप्मानं भरणीर्भरन्तु॰ यस्मिन्नक्षत्रे॰ भरन्तु स्वाहा’ (यमाय राज्ञ इदं॰) ॥ स्रुवेण अनाज्ञातादित्रयं, मिन्दाद्वयं, भूरादिचतुष्टयञ्च हुत्वा होमशेषं समापयेत् ।। गाञ्चैकामाशौचान्ते दद्यात् ॥
रजस्वलाऽवस्थायां सूतिकाऽवस्थायां वा मरणे
॥ रजस्वलाऽवस्थायां सूतिकाऽवस्थायां वा मरणे प्रायश्चित्तम् ॥
देशकालौ सङ्कीर्त्य अमुकगोत्राया अमुकदायाः प्रेताया रजस्वलाऽवस्थायां सूतिकाऽवस्थायां वा मरणाज्जनितसमस्तदुरितपरिहारद्वारा पैतृमेधिकसंस्कारयोग्यतासिध्यर्थं गोमूत्रमृद्भस्मपञ्चगव्यैस्स्नापनं3 आशौचान्ते चान्द्रायणकृच्छ्र्रत्रयप्रत्याम्नायगोनिष्क्रयहिरण्यदानं च करिष्ये, इति सङ्कल्प्य शुद्धजलेन स्नापयित्वा मृद्भस्ममिश्रितेन पञ्चगव्येन गोमूत्रेण वा कुशैः प्रोक्षेत् - सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति ॥ शतरुद्रीयेण, ‘अग्निमूर्धा’ इत्यनुवाकेन च ॥ पञ्चगव्येन योनिं प्रक्षाळ्याऽन्येन वाससाऽऽच्छाद्य विधिवद्दहेत् ॥
ब्रह्मचारिमरणे
अथ ब्रह्मचारिमरणे प्रायश्चित्तम् ॥
धर्मसिन्धौ - सङ्कल्पपूर्वकं द्वादश षट् त्रीणि वाऽब्दानि शक्त्यनुकूलं प्रायश्चित्तं चरित्वा, देशकालौ सङ्कीर्त्याऽमुकगोत्रस्य शर्मणो ब्रह्मचारिणो मृतस्य व्रतविसर्गं करिष्ये, इति सङ्कल्प्य हिरण्येन नान्दीश्राद्धं कृत्वाऽग्निप्रतिष्ठापनाद्याधारान्ते आज्येन व्याहृतीर्हुत्वा
अग्नये व्रतपतये स्वाहा । (यथालिङ्गं त्यागः ) अग्नये रतानुष्टानफलसम्पादनाय स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा
[[862]]
इति हुत्वा स्विष्टकृदादि होमशेषं समाप्य, पुनर्देशकालौ सङ्कीर्त्याऽमुकस्यौर्ध्वदेहिकाऽधिकारार्थमर्कविवाहं करिष्ये, इति सङ्कल्प्य हिरण्येन नान्दीश्राद्धं कृत्वा, अर्कसमीपे नीत्वाऽर्कशाखां वा गृहीत्वाऽर्कब्रह्मचारिणौ हरिद्रयाऽनुलिप्य पीतसूत्रेण संवेष्ट्य वस्त्रयुग्मेनाऽच्छाद्याऽग्निप्रतिष्ठापनाद्याधारान्ते आज्येन ‘अग्नये स्वाहा (यथालिङ्गं त्यागः) बृहस्पतये॰, विवाहविधियोजकाय॰, यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । कामायेदं॰ ‘। भूरादिचतुष्टयञ्च हुत्वा स्विष्टकृदादि होमशेषं समाप्याऽर्कशाखां ब्रह्मचारिशवञ्च तुषाऽग्निना विधिवद्दहेत् ॥ स्नातकमरणेऽप्येवमेवेति केचित् ॥ आशौचान्ते त्रिंशद्ब्रह्मचारिभ्यः कौपीनकृष्णाजिनयज्ञोपवीतगोपीचन्दनादि दत्वा भोजयेत् ॥
कुष्ठिमरणे
कुष्ठिमरणे ॥
कुष्ठादिमहारोगमृतस्यौर्ध्वदैहिकाधिकारसिध्यर्थमादौ षडब्दप्रायश्चित्तं चरित्वा दाहादि कुर्यात् । तत्र विशेषः - तूष्णीं स्नापनम् । तूष्णीं दहनदेशसम्मार्गः । तूष्णीं तिलतण्डुलनिवपनम् । चितायां प्रेतं निधायाऽपसलैः परिस्तीर्याऽऽज्यमास्ये निनयेत्-‘इदन्त आत्मनः॰ असौ स्वाहा’ इति । अपि वा ‘अस्मात्वमधि॰ लोकाय स्वाहा’ इत्यूचा ‘वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्यो मरुद्भ्य ऋभुभ्यः पितृभ्यः स्वाहा’ इत्यनेन यजुषा वा । अत्रैव मन्त्रेण सिग्वातेनोपवीजनम् । उदकुम्भेन तूष्णीं परिषेचनम् । कपालजलस्यास्यादिषु निनयनं नास्ति । उत्तपनाग्निना दहनम् । अन्यत्सर्वं समानम् ॥ एवमेवानुपेतोन्मत्तादीनां संस्कारः।।
धनिष्ठापञ्चकमरणे
धनिष्ठापञ्चकमरणप्रायश्चित्तम् ॥
धनिष्ठोत्तरार्धादि रेवत्यन्तसार्धचतुर्नक्षत्रेषु मरणे वंशारिष्टाद्यनिष्टफलोक्तेस्तत्प्रायश्चित्तमाचरणीयम् ॥ अमुकगोत्रास्याऽमुकशर्मणः प्रेतस्य (पित्रादेः) धनिष्ठापञ्चकमरणजनितसमस्तदोषपरिहारद्वारा प्रेतत्य पुण्यलोकावाऽप्त्यर्थं अस्माकं वंशारिष्टादिसर्वारिष्टपरिहारार्थं धनिष्ठापञ्चकमरणप्रायश्चित्तं करिष्ये, इति सङ्कल्प्य दर्भमयीर्यवपिष्टानुलिप्ता ऊर्णासूत्रवेष्टिताः पञ्च प्रतिमाः कृत्वा, तासु क्रमेण प्रेतवाहं, प्रेतसखं, प्रेतपं, प्रेतभूमिपं, प्रेतहर्तारञ्चाऽवाह्य
[[863]]
अष्टौ देवा वसवः॰, क्षत्रस्य राजा वरुणः॰, अज एकपादुद्गगात्॰, अहिर्बुध्नियः प्रथमानः॰, पूषा रेवत्यन्वेति॰
इति पञ्चभिर्मन्त्रैरभिमन्त्र्य गन्धपुष्पादिभिः सम्पूज्य, चितौ शवे स्थापिते ‘शिरसि प्रथमां, नेत्रयोर्द्वितीयां, वामकुक्षौ तृतीयां, नाभौ चतुर्थीं, पादयोः पञ्चमीं’ इति क्रमेण निधायाऽऽज्यं स्रुवेण जुहुयात्
प्रेतवाहाय स्वाहा, प्रेतसखाय॰, प्रेतपाय॰, प्रेतभूमिपाय॰, प्रेतहर्त्रे स्वाहा
(यथालिङ्गं त्यागः)
अस्मात्वमधि जातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ।
अग्नये वैश्वानराय सुवर्गाय लोकायेदं॰ ।। इति हुत्वा तिलोदकञ्च4 दद्यात् । ततः प्रेतमुखे पञ्चरत्नं, सुवर्णमाज्यबिन्दुं वा निक्षिप्य ताभिः प्रतिमाभिः सह दहेत्। | एकादशेऽह्नि शान्तिञ्च कुर्यात् ॥
त्रिपुष्करद्विपुष्करयोगमरणप्रायश्चित्तम्
॥त्रिपुष्करद्विपुष्करयोगमरणप्रायश्चित्तम् ॥
त्रिपुष्करयोगमरण (द्विपुष्करयोगमरण)जनितसमस्तदोषपरिहारद्वारा प्रेतस्य पुण्यलोकाऽवाप्यर्थं अस्माकं वंशारिष्टादिसर्वारिष्टपरिहारार्थं त्रिपुष्कर (द्विपुष्कर) मरणप्रायश्चित्तं करिष्ये, इति सङ्कल्प्य पञ्चकोक्तप्रकारेण तिस्रः प्रतिमाः कृत्वा तासु ‘प्रेतवाहं, प्रेतसखं, प्रेतपं च क्रमेणाऽऽवाह्य सम्पूज्य चितायां स्थापिते शवे शिरसि, नेत्रयोः, वामकुक्षौ च क्रमेण निधाय ‘प्रेतवाहाय स्वाहा’ इत्यादि त्रिभिराज्यं हुत्वा तिलोदकञ्च दत्वा शवमुखे सुवर्णं निक्षिप्य
अस्मात्वमाधि जातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ।
अग्नये वैश्वानराय सुवर्गाय लोकायेदं॰ ॥ इति प्रतिमाभिः सह शवं विधिवद्दहेत् ।। एकादशाहे शान्तिं कुर्यात् ॥
कालाख्यमृत्योः प्रवेशकाले मरणे
अथ कालाख्यमृत्योः प्रवेशकाले मरणे ॥
गृहस्थितानां द्विपदानां चतुष्पदानाञ्च सर्वेषामपमृत्युकालमृत्य्वादि (कालमृत्युप्रवेशसूचित) सर्वाऽनिष्टनिरसनद्वारा दीर्घायुरारोग्याऽभयप्राप्त्यर्थं सूतकान्ते कालशान्तिं करिष्ये, इति सङ्कल्पमात्रमिदानीं कृत्वाऽऽशौचान्ते कालशान्तिं कुर्यात् ।।
[[864]]
-
यदृच्छया प्रमादेन वा मरणे निर्णयसिन्धौ " प्रमादादपि निश्शङ्कस्त्वकस्माद्विधिचोदितः । शृङ्गिदष्ट्रिनखिव्यालविषविद्युज्जलादिभिः ॥ चण्डालेरथवा चोरैनिहतो वाऽपि कुत्रचित् । तस्य दाहादिकं कार्यं यस्मान्न पतितस्तु सः " इत्युक्तत्वात् ॥ बुद्धिपूर्वमृतानां स्मृत्युक्तकृच्छ्राचरणपरः सरमौर्ध्वदेहिकं कार्यम् ॥ ↩︎
-
" पञ्चम्यां पन्नगं हैमं स्वर्णैनेकेन कारयेत् । क्षीराऽऽज्यपात्रमध्यस्थं पूज्यविप्राय दापयेत् । प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुना " इति धर्मसिन्धौ विशेषः प्रोक्तः ॥ ↩︎
-
धर्मसिन्धौ - चान्द्रायणकृच्छत्रयं कृत्वा यवपिष्टेन प्रेतामनुलिप्य शूर्पोदकैरष्टोत्तरशतवारं संस्नाप्य भस्मगोमयमृत्पञ्चगव्याद्यैः स्नापयेत् इत्युक्तम् ॥ ↩︎
-
उदकदानान्ते - ‘यमाय सोमं सुनुत, त्र्यम्बकं यजामहे’ इति द्वाभ्यां प्रत्येकं प्रतिमास्वाज्याहुती जुहुयात् इति धर्मसिन्धौ ।। ↩︎