०४ पितृमेधः

॥ अथ पितृमेधः॥
पुत्रादिः पित्रादेः संस्कार्यस्य मरणसंशये धर्मशास्त्रज्ञमाचार्यमाहूय सम्पूज्यानुज्ञाप्य संस्कार्यं स्नानेन मन्त्रजलप्रोक्षणेन गंगाजलप्राशनादिना वा शुद्धं विधाय स्वयमपि शुद्धो भूत्वा दर्भपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य

मम आसन्नमरणस्य पित्रादेः जन्मप्रभृत्येतावत्कालपर्यन्तं ज्ञानतोऽज्ञानतः कामतोऽकामतः सकृदसकृद्वा कृतकायिक-वाचिक-मानसिक-सांसर्गिक-स्पृष्टास्पृष्ट-भुक्ताभुक्त-पीतापीत-संकरीकरण-मलिनीकरण-पात्रीकरण-जातिभ्रंशकर-प्रकीर्णकान्त-पातकानुपातकोपपातक-लघुपातकादि-नानाविधपातकानां समूलनिवर्हणपूर्वकमुत्तमलोकप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्मृत्युक्तं सर्वप्रायश्चित्तप्रत्याम्नायभूतं शक्तेरनुरूपं (द्वादशाब्दषडब्दत्र्यब्दसार्धाब्दैकाब्दान्यतमं ) कृच्छ्र-तत्प्रत्याम्नायगोनिष्क्रयसुवर्णदानद्वारा रजतदानद्वारा वा करिष्ये

इति संकल्प्य तावत्प्रमाणं सुवर्णं रजतं वा

यज्ञसाधनभूताया विश्वस्याघौघनाशिनी ।
अस्यामूल्यप्रदानेन प्रीयतां विश्वरूप धृकू ।
पातकानां विशुध्यर्थ धेनुमूल्यं ददाम्यहम् ।
तस्मादस्य प्रदानेन सर्वपापं व्यपोहतु

इति पठन् जलधाराविसर्गपूर्वकं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दद्यात् ॥ ॥ अथ ब्रह्मकूर्चविधानं कूष्माण्डहवनं चोभयं यथानुकूलमेकैकं वा प्रायश्चित्तं कारयित्वा गोदानादि दशदानानि तिलाद्यष्टदानानि च एकादशाहकृत्येषु वक्ष्यमाणदानमन्त्रैः कारयेत् ॥ ॥ अथ तिलपात्रदानविधिः ॥ कांस्यपात्रे ताम्रपात्रे वा तिलान् सुवर्णं च निक्षिप्य यथाशक्ति दक्षिणां निधाय

यानि कानि च पापानि ब्रह्महत्यासमान्यपि ।
तिलपात्रप्रदानेन तानि नश्यन्तु केशव ॥

मम (पित्रादेः) जन्मप्रभृतिमरणान्तमाचरितसमस्तपापापनोदनार्थमिदं तिलपात्रं सदक्षिणं तुभ्यमहं संप्रददे, न मम ॥ इति विप्रहस्ते जलविसर्गपूर्वकं दद्यात् ॥ ॥ उत्क्रान्तिगोदानविधिः ॥

मम (पित्रादेः) प्राणानां सुखोत्क्रमणप्रतिबन्धकसकलपापक्षयद्वारा सुखोत्क्रमणसिद्ध्यर्थमुत्क्रान्तिगोदानं करिष्ये

इति संकल्प्य गां विप्रं च संपूज्य

अत्युत्क्रान्तौ प्रवृत्तस्य सुखोत्क्रमणसिद्धये ।
तुभ्यं संप्रददाम्येनां गामत्रोत्क्रान्तिसंज्ञिताम् ॥

मम (पित्रादेः) सकलपापक्षयपूर्वकं सुखोत्क्रमणसिद्धये इमामुत्क्रान्तिधेनुं रुद्रदैवत्यां तुभ्यमहं संप्रददे, न ममेति पुच्छे गृहीत्वा विप्रहस्ते जलविसर्गपूर्वकं दद्यात् । एतत्सर्वं मुमूर्षुः शक्तश्चेत्स्वयमेव कुर्यात् । यदि पित्रादिरकृतप्रायश्चित्त एव म्रियेत तदानीं पुत्रादिरेवोक्तं प्रायश्चित्तं दानं वाऽऽशौचान्ते करिष्ये इत्यधुना संकल्पमात्रं कृत्वाऽऽशौचान्ते कुर्यात् । ततो भगवन्नामसंकीर्तनम् उपनिषद्भागवतपुराणगीतापुरुषसूक्तविष्णुसूक्तादि श्रावयेत् ॥

अथ प्राणोत्क्रमणकाले भूमिं गोमयेनोपलिप्य सिकतास्तिलांश्च संप्रकीर्य दक्षिणाग्राान्दर्भान् संस्तीर्य तेष्वेनं

सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित ।
स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः

इति दक्षिणाशिरसं निपात्य देशकालौ संकीर्त्य

अस्य पुण्यलोकावाप्त्यर्थं कर्णे (सूक्त) मन्त्रपठनं करिष्ये

इति संकल्प्य दक्षिणे कर्णे जपति -

आयुषः प्राणँ सन्तनु । प्राणादपानँ सन्तनु । अपानाद्व्यानं सन्तनु । व्यानाच्चक्षुः सन्तनु । चक्षुषः श्रोत्रँ सन्तनु । श्रोत्रान्मनः सन्तनु । मनसो वाचँ सन्तनु । वाच आत्मानँ सन्तनु । आत्मनः पृथिवीँ सन्तनु । पृथिव्या अन्तरिक्षँ सन्तनु । अन्तरिक्षाद्दिवँ सन्तनु । दिवः सुवः सन्तनु ॥ ॥ संज्ञानं विज्ञानं प्रज्ञानं जानदभि जानत् । संकल्पमानं प्रकल्पमानमुपकल्पमानमुपकॢप्तं कॢप्तम् । श्रेयो वसीय आयत्संभूतं भूतम् । चित्रः केतुः प्रभानाभान्त्संभान् । ज्योतिष्माँस्तेजस्वानातपँस्तपन्नभितपन् । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना । आप्यायमाना प्यायमाना प्याया सूनृतेरा । आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी । दाता प्रदाता नन्दो मोदः प्रमोदः । आवेशयन्निवेशयन्त्संवेशनः स[[??]शान्तः शान्तः । आभवन्प्रभवन्त्संभवन्त्संभूतो भूतः । प्रस्तुतं विष्टुतंँ सँस्तुतं कल्याण विश्वरूपम् । शुक्रममृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन्मरीचिमदभितपत्तपस्वत् । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः । ज्वलन्ज्वलिता तपन्वितन्त्संतपन् । रोचनो रोचमानः । शुंभूः शुभमानो वामः । सुता सुन्वती प्रसुता सूयमानाभिषूयाणा । पीती प्रपा संपा तृप्तिस्तर्पयन्ती । कान्ता काम्या कामजातायुष्मती कामदुघा । अभिशास्तानुमाँता नन्दो मोदः प्रमोदः । आसादयन्निषादयन्त्सँसादनः सँसन्नः सन्नः । आभूर्विभूः प्रभूः शंभूर्भुवः । पवित्रं पवयिष्यन्पूतो मेध्यः । यशो यशस्वानायुरमृतः । जीवो जीविष्यन्त्स्वर्गो लोकः । सहस्वान्त्सहीयानोजस्वान्त्सहमानः । जयन्नभिजयन्त्सुद्रविणो द्रविणोदाः । आर्द्रपवित्रो हरिकेशो मोदः प्रमोदः । अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजित् । आर्द्रः पिन्व॑मानोऽन्नवान् रसवानिरावान् । सर्वौषधः संभरो महस्वान् । राजत्काजोऽवत्काः । क्षुल्लकाः शिपिविष्टकाः। सरिस्रराः सुशेरवः । अजिरासो गमिष्णवः । इदानीन्तदानीमेतर्हि क्षिप्रमजिरम् । आशुनिमेषः फणो द्रवन्नतिद्रवन् । त्वरँस्त्वरमाण आशुराशीयाञ्जवः । अग्निष्टोम उक्थ्योऽतिरात्रो द्विरात्रस्त्रिरात्रश्चतूरात्रः। अग्निर्ऋतुः सूर्य ऋतुश्चन्द्रमा ऋतुः । प्रजापतिः संवत्सरो महान्कः

इति । एवमुत्तरे कर्णेऽपि जपति ॥

अथ प्राणेषूत्क्रान्तेषु मृतस्यास्ये हिरण्यशकलं निधाय कर्ता स्नात्वार्द्रवासा एकदर्भपवित्रपाणिराचम्य प्राणानायम्य देशकालौ स्मृत्वा ममात्मशुद्धिद्वारा मृतस्य (पित्रादेः) पैतृमेधिकसंस्कारं कर्तुमधिकारसिध्यर्थं कृच्छ्रत्रयप्रत्याम्नायगोनिष्क्रयहिरण्यमाशौचान्ते दास्ये । आदौ ब्रह्मदण्डं वपनं च करिष्ये इति संकल्प्य ॥

समस्त संपत्

इति ब्रह्मदण्डं निधाय पित्रादेः पैतृमेधिकसंस्कारं कर्तुं मम अधिकारसिद्धिरस्त्विति भवन्तो बुवन्तु। अधिकारसिद्धिरस्त्विति प्रतिवचनम् ।

मेरुमन्दरतुल्यानि पापानि विविधानि च ।
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम्

इत्युक्त्वा कण्ठादुपरि वापयित्वा स्नात्वा पुनरेकदर्भपवित्रं धृत्वा देशकालौ संकीर्त्यामुकगोत्रस्यामुकशर्मणः ( पित्रादेः ) प्रेतस्याधिव्याधिवशात्स्नानसन्ध्यादि कर्मलोपऊर्ध्वोच्छिष्टाधरोच्छिष्टीभयोच्छिष्टाभक्ष्यभक्षणास्पृश्यस्पर्शनान्तरालमरण-खट्वामरणादिजनित-समस्तपापपरिहारार्थं कृच्छत्रयप्रत्याम्नायगोनिष्कयहिरण्यदानमाशौचान्ते करिष्ये, इति संकल्प्याशौचान्ते कुर्यात् ॥ शवे पर्युषितेऽपि कृच्छ्रत्रयं कृत्वा शवं पञ्चगव्येन

पवमानः सुवर्जनः

इत्येतेनानुवाकेन स्नापयेत् ॥ ॥