०३ दहनविधिः

॥ दहनविधिः ॥ (बो. पि. सू. १. १७. ८ )

अथ यद्याहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च

इति विज्ञायते ।

पुरुषाहुतिर्ह्यस्य प्रियतमा इत्येतामनुव्याख्यां दहनस्य ब्रुवते।

अथाप्युदाहरन्ति

शरीरदायादा ह वा अग्नयो भवन्ति

इति ॥ (बो. पि शे. सू. १.१)
मरणसंशये ब्रह्म संस्मृत्य दशदानानि कृत्वा उत्क्रान्तिगां दद्यात्

अत्युत्क्रान्तौ प्रवृत्तस्य सुखोत्क्रान्तिविमुक्तये।
तुभ्यं सम्प्रददाम्येनां गामत्रोत्क्रान्तिसंज्ञिताम्

इति ॥
अथ पुत्रः पौत्रो दत्तको वा पत्नी दौहित्रो भ्राता तत्पुत्रः पिता स्वस्रीयस्सपिण्डो जामाता वा यथाक्रमं संस्कर्ता पितृमेधेन वा होतृकल्पेन वा ब्रह्ममेधेन वा यथाप्राप्तं संस्कुर्यात् ॥

ब्रह्म वै चतुर्होतारः

इति ब्रह्मचारिणं होतृकल्पेनैव । दुर्मृतानामुक्तकाले नारायणसंस्कारविधिना जडादीनां कन्याकुमाराणामेकर्चा ॥ अथ त्रिवर्षात्पूर्वं मृतानां व्याहृतीभिर्दहेदथवा निखनेत् ॥ दन्तजातानां प्रणवेन निखनेत् । अजातमृतानां तूष्णीं निखनेदिति ॥ यथाविधि संस्कुर्यात् ॥ अनुपनीतः पत्नी वा कर्ता चेद्दहनमन्यत्सर्वं कारयेत् ॥ द्विवर्षात्प्रागूढा बाला मृता स्यात्तां यामं भूमौ निक्षिप्य पितृमेधेन दहेदथ चिताम् ॥ ब्राह्मणा भर्तारः कर्तारश्च भवन्ति ॥ अथ ये तत्र प्रेतानुगास्ते सचैलं स्नात्वाऽग्निं स्पृष्ट्वाऽऽज्यं प्राश्य पुनरपि स्नात्वा पुनः प्राणानायम्योत्तीर्य शुष्कवस्त्रं परिधाय पुनरपि स्नात्वा ततश्शुद्धा भवन्ति ॥ कन्यामनुपनीतमनाथमनूचानं यज्वानं यदि प्रेतमनुव्रजन् घृताऽग्न्यादिकं न भवेदग्निघृताधसम्भवे गायच्याऽभिमन्त्र्य दशकृत्वोऽपः पीत्वा पुनस्स्नानेन शुद्धिर्भवति ॥ अथ वाहका ब्राह्मणाः परिषदं प्रदक्षिणीकृत्य नमस्कृत्वाऽसपिण्डशवहरणप्रायश्चित्तमभ्यनुज्ञाप्याऽहश्शेषं रात्रिशेषं वाऽतिक्रम्य ग्रामं प्रविश्य पञ्चगव्यं प्राश्य गोगसं दत्वा देवतादर्शनं कृत्वा यथाशक्ति गायत्रीं जपित्वा ततश्शुद्धा भवन्ति ॥ गायत्रीमेव वा जपयुरित्येके ॥ (वो. पि. सू. ३. १)

अथाऽतो द्विजातीनां दहनकल्पं व्याख्यास्यामः ॥ जातस्य वै मनुष्यस्य धुवं मरणमिति विजानीयात्तस्माज्जाते न प्रहृष्येन्मृते च न विषीदेत् ॥

अकस्मादागतं भूतमकस्मादेव गच्छति ॥
तस्माज्जातं मृतञ्चैव सम्पश्यन्ति सुचेतसः

इति ॥ तस्माज्जातस्य वै मनुष्यस्य द्वौ संस्कारावृणभूतौ भवतो जातसंस्कारो मृतसंस्कारश्चेति । विज्ञायते -

जातसंस्कारेणेमं लोकमभिजयति मृतसंकारेणाऽमुं लोकम्

तस्मान्मातरं पितरमाचर्यं पत्नीं पुत्रं शिष्यमन्तेवासिनं पितृव्यं मातुलं सगोत्रमसगोत्रं वा दायमुपयच्छेद्दहनसंस्कारेण संस्कुर्वन्ति ॥ त एव शवभर्तारोऽन्ये समानगोत्रा वा ॥ राजन्यस्य पुरोहितः सहस्रदक्षिणो ब्राह्मणः ॥ वैश्यरय सप्तगुना वा ॥ अथाऽहिताऽग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च ॥ ग्रहस्थमौपासनेन ॥ ब्रह्मचारिणं कपालसन्तपनाऽग्निना ॥ उत्तपनीयेनेतरान् ॥ एवं स्त्रियम् ॥ अथ यद्याहिताग्निर्भवति पौर्णमासेन हविषेष्ट्वा सायं हुत्वा वा प्रमीयेताऽथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतर्गृहीतं गृहीत्वोत्तरतो दक्षिणामुख उपविश्य गार्हपत्ये जुहोति

मृत्योरधिष्ठानाय स्वाहा

इति ॥
एवमेव प्रह्वोऽन्वाहार्यपचने तिष्ठन्नाहवनीये ॥ दक्षिणतस्सकृदतिवाल्य वंद्यै दक्षिणेंऽसे दक्षिणाग्रं स्रुचं निधाय प्राचीनावीतं कृत्वा दक्षिणोत्तानेन पाणिना दक्षिणतस्स्रुचं सम्मार्ष्टि –

पितृभ्यस्त्वा मृत्युं जिन्व

इति वा । तूष्णीं वा ॥ अथाऽप उपस्पृश्याऽङ्गुल्या सकृत्प्राश्याऽप आचम्य निर्णिज्य स्रुचं निष्टप्याऽद्धिः पूरयित्वा प्रेतस्य प्राणस्थानेषु निनीय यथायतन स्रुच विमुञ्चति ॥

सैव ततः प्रायश्चित्तिः

इति ब्राह्मणम् ॥ अथैनं मरणसंशये यजमानायतने सिकतास्सम्प्रकीर्य दक्षिणाग्रान् दर्भान् संस्तार्य तेषु दक्षिणशिरसमेनं निपात्य दक्षिणे कर्णे जपति

आयुषः प्राणं सन्तनु

इत्येतमनुवाकम् ॥

संज्ञानं विज्ञानम्

इति षोडशानुवाकानेवमुत्तरे ॥ अथ प्राणेषूत्क्रान्तेषु हिरण्यशकलमास्ये निधायाऽध्वर्युरुपकल्पयते - सर्वौषधं चोदकुम्भं चाहतञ्च वासस्समूलं बर्हिर्हिरण्यञ्च हिरण्यशकलांश्च गां रोहिणीं परशुमश्मानं चोर्णात्सूत्रमौदुम्बरं तल्पमौदुम्बरीं शाखां दधिमधुघृतमिति तिलतण्डुलांश्च याज्ञिकानि च काष्ठानि च स्पन्द्यां शङ्कूनित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति ॥ अथैषा पत्नी केशन्विस्त्रस्याऽद्भिरेनं स्नापयति भ्राता पुत्रो वा तूष्णीम् ॥ (बो. पि. सू. ३. २) अथाऽध्वर्युः प्राचीनावीती सर्वौषधेनोदकुम्भं पूरयित्वा तेन दशहोत्रा पत्तोऽग्रं स्नापयति -

चित्तिः स्रुक्

इत्यतेनाऽनुवाकेन । अथ ग्राम्येणाऽलङ्कारेणालङ्कृत्य शिरस्तो नळदमालामाबध्यौदुम्बरं तल्पं समारोप्याऽङ्गुष्ठबन्धं करोति ॥ अथैनमहतेनोदीचीनदशेन वाससा समुखं प्रच्छाद्य भर्तारो ग्रामादुपनिष्क्रम्याऽग्निभिस्सह यज्ञायुधानि च सम्भारांश्च तस्याऽग्रेण सम्भारान्दक्षिणतः पात्राणि पश्चादग्निमिति निधायाsपसलैः परिस्तीर्य तं बान्धवास्सिग्वातेनोपवीजयन्तस्त्रिरपसव्यं परियन्ति -

वातास्ते वान्तु पथि पुण्यगन्धा मनश्शुभा गात्रशुभा अनुलोमाः । त्वचस्सुखा मांससुखा अस्थिसौख्या वहन्तु त्वा मरुतस्सुकृतां यत्र लोकाः

इति॥ यथत [[?]] त्रिः पुनः प्रतिपरियन्ति । एवं पथि चितायाम् ॥ चितायामित्येके [[?]] ॥ श्मशानं नीत्वा दहनं जोषयते । तस्य दक्षिणाप्रत्यक्प्रवणमनिरिणमभङ्गुुरमसुषिरमवल्मीकमजागर्तिबहुळौषधि गोचर्ममात्रं स्थण्डिलं भवति ब्राह्मणस्य, धनुष्कोटिमात्रं राजन्यस्य, रथचक्रमात्रं वैश्यस्य, विमाय शङ्कुभिः परिणिहत्य समन्तं स्पन्द्यया परितनोति ॥ अथैनं मध्ये शकलेनोद्धत्याऽवोक्ष्यौदुम्बर्या शाखया पलाशशाखया शमीशाखया वा सम्मार्ष्टि -

अपेत वीत वि च सर्पत

इति । दक्षिणतश्शाखां निरस्याऽद्भिरवोक्षति –

अदादिदं यमोऽवसानं पृथिव्या अक्रनिमं पितरो लाकमस्मै

इति । हिरण्यशकलमवदधाति -

अपसर्पत प्रेता ये के चेह पूर्वजास्स्वस्ति नः कुरुत माऽश्रुपातः पुनरागमिष्यामहे

इति ॥ स्फ्येन वा परशुना वा दक्षिणापवर्गास्तिस्रः कर्षूः [[?]] खात्वा तिलतण्डुलानां मुष्टिं पूरयित्वा -

यमाय दहनपतये पितृभ्यस्स्वधा नमः

इति प्रथमायां निवपति ।

कालाय दहनपतये पितृभ्यस्स्वधा नमः

इति द्वितीयायाम् ।

मृत्यवे दहनपतये पितृभ्यस्स्वधा नमः

इति तृतीयायाम् ॥ प्रथमेनैव मन्त्रेण तिसृषु निवपतीत्येके॥ अथाऽवशिष्टान्तिलतण्डुलान्त्सर्वतस्त्रिरपसव्यं प्रकिरति ॥ ( बो. पि. सू. ३. ३)

यथा पिता पुत्रं पश्यति सखा वा सखिमागतम् । एवमिमं पूर्वसंक्लिन्नाः प्रेताः पश्यत माऽन्यथा

इति दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु दक्षिणग्रैर्याज्ञिकैः काष्ठैश्चितां कल्पयित्वा चितायां दक्षिणाग्रेषु दर्भेषु कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तृणाति ॥ तस्मिन्दाक्षिणाशिरसमुत्तानं प्रेतं निधायाऽपसलैः परिस्तीर्य चितामूर्णासूत्रेणाऽपसलैः परिवेष्टयति ॥ तमग्निमपसलैः परिस्तृणाति ॥ दक्षिणेनाऽग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रेतं पात्राणि दारुचिताञ्च प्रोक्ष्याऽज्यं संस्कृत्य स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रचि चतुर्गृहीतं गृहीत्वा व्याहृतीर्जुहोति । अथास्य सप्तप्राणायतनेषु सप्तहिरण्यशकलान्प्रत्यस्यत्यास्ये नासिकयोरक्ष्णोः कर्णयोरिति ॥ अलाभ आज्यबिन्दून्वा ॥ मुखे प्रथममाज्यमानीय दधि मधु घृतमिति तिलतण्डुलांश्च समुदायुत्याऽस्ये निवपति ॥ अथ दशहोतारमेवाग्रे नासिकयोर्द्विर्जपेत् ॥ ‘आसीत् ’ इति सर्वेषु होतृपदेष्वनुषजत्यन्यत्र षड्ढोतृपदेभ्यः। ‘आस्ताम्’ इति द्वित्ववाचिषु ॥ चतुर्होतारं मुखे । अक्षिकटकयोर्द्विः पञ्चहोतारम् । कर्णयोर्द्विष्षड्ढोतारम् । कीकसासु द्विस्सप्तहोतारमिति ॥ (बो. पि. सू. १. १) अथ यद्याहिताग्निनिर्मारं गच्छत्युपतपता वा जरया वाऽग्निष्ठ एवाऽस्य यजमानायतने शयनं कल्पयेयुर्जघनेन गार्हपत्यम् । तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते ॥ स यद्यु हाऽगदो भवति पुनरेति ॥ यद्यु वै प्रैति न पयस्समासिञ्चति । अथैतदग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमित्याचार्या ब्रुवते ॥ तत्रोदाहरन्ति - स यदि सायं हुतेऽग्निहोत्रे प्रेयात्प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् ॥ अथ यदि प्रातरग्निहोत्रे हुते कुशलम् ॥ अथेमौ दर्शपूर्णमासौ पौर्णमास्युपक्रमावमावास्यासंस्थावित्याचार्या ब्रुवते ॥ तत्रोदाहरन्ति - स यदि पौर्णमास्यां वृत्तायां प्रेयात्प्रतिकृष्याऽमावास्यां यजेत ॥ अथ यद्यमावास्यायां वृत्तायां कुशलम् ॥ अथ यस्योभे पर्वणी अतिपन्नेे स्यातामतिपन्नप्रायश्चित्तं कुर्वीत ॥ अथ यद्यार्तस्याऽग्निहोत्रं विच्छिद्येत यद्यस्य पुत्रो वाऽन्तेवासी वाऽलं कर्मणस्स्यात् । सोऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाऽग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति शरावं दक्षिणां ददाति सा प्रसिद्धेष्टिस्सन्तिष्ठते ॥ [(वो. पि. सू २. ८ १०,११) अथाऽनाहिताग्नेरौपासनं सायमुपकमं प्रातरपवर्गमित्यादि समानं भवति ॥ अथ यद्यार्तस्स्यादौपासनं विच्छिद्येत द्वादशाहादूर्ध्वमिष्टिं वा कर्तुमशक्तः आज्यं संस्कृत्य चतुर्गृहीतेनाज्येन यावदाम्नातमाज्याहुतीर्जुहोति ॥] अथ यदि विप्रक्रान्ते प्रेयात्तूष्णीमेतत्तन्त्रं संस्थाप्याऽपो भक्षानभ्यवहरेयुः ॥

अपो भक्षानभ्यवहरन्ति

इति विज्ञायते ॥ अथाऽस्याऽग्नीनुपनिर्हृत्येमां दिशं विहारं कल्पयित्वा दक्षिणाप्राचीम् -

एषा हि पितॄणां प्राची दिक्

इति विज्ञायते ॥ अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रेतस्य दक्षिणं बाहुमन्वारभ्याऽऽहवनीये जुहोति ॥ ( बो. पि. सू. १. २)

परेयुवांसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्यत स्वाहा

इति ॥
अपि वा सपुरीषमेवाऽऽप्लाव्याऽऽच्छाद्याऽलङ्कृत्याऽथैनमादायाऽन्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमासन्द्यां कृष्णाजिने दक्षिणाशिरसं संवेश्य शिरस्तो नळदमालां प्रतिमुच्य पत्तोऽदशेनाहतेन वाससा प्रोर्णोति ॥ (बो. पि. सू. १. ३ )

इदं त्वा वस्त्रं प्रथमं न्वागन्

इति ॥ अथैतदपोहति -

अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसम्पश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु

इति । तस्य पुत्रोऽन्तेवासी वा पत्नी वा परिदधीत तदुहाजरसमेव वसीताऽहश्शेषं वा ॥ ( बो. पि. सू. १. ४ ) । एतस्मिन्कालेऽस्याऽमात्यास्तिसृभिस्तिसृभिरङ्गुळीभिरुपहत्य पांसूनंसेष्वावपन्ते -

खल्वघं न्वा स्यादघं नो एवाघम्

इति ॥ अस्य भार्याः कनिष्ठप्रथमा प्रकीर्णकेश्यो व्रजेयुः पांसूनंसेष्वावपमानाः -

खल्वघं न्वा स्यादघ नो एवाघम्

इति ॥ अथैनमेतयाऽऽसन्द्या तल्पेन कटेन वा संवेष्ट्य दासाः प्रवयसो वा वहेयुः ॥ अथैनमनसा वहन्तीत्येकेषाम् ॥ अनश्चेद्युञ्ज्यात् -

इमौ युनज्मि ते वह्नी अनुनीथाय वोढवे । याभ्यां यमस्य सादनं सुकृतां चापि गच्छतात्

इति समारोप्याऽग्नीन् हरन्ति । समारोप्य वाऽन्तरेण वा कृत्वाऽग्नीन् हरन्त्यथैनमाददते ॥ आदीयमानमनुमन्त्रयते -

पूषा त्वेतश्च्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यस्सुविदत्रेभ्यः

इति ॥ तृतीयमेतस्याऽध्वनो गत्वा निदधाति ॥ कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः ॥ एवममात्या एवं स्त्रियः ॥ संयम्य केशान्यथेतं त्रिः पुनः प्रतिपरियन्ति । अथैनमाददते ॥ आदीयमानमनुमन्त्रयते ॥ ( बो. पि. सू. १. ५ )

पूषेमा आशा अनुवेद सर्वास्सो अस्मा [[??]] अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान्

इति ॥ अर्धमेतस्याध्वनो गत्वा निदधाति ॥ कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्ति ॥ एवममात्या एवं स्त्रियः ॥ संयम्य केशान्यथेतं त्रिः पुनः प्रतिपरियन्त्यथैनमाददते ॥ आदीयमानमनुमन्त्रयते -

आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवस्सविता दधातु

इति ॥ समस्तमेतस्याध्वनो गत्वा निदधाति ॥ कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिम्भिरुपवातयन्तः ॥ एवममात्या एवं स्त्रियः ॥ संयम्य केशान्यथेतं पुनः प्रतिपरियन्ति ॥ (बो. पि. सू. १. ६ ) अथास्थाऽवकाशं जोषयते- पश्चादुदकमनूषरमनुपहतमविस्रग्दार्यमनिरिणमसुषिरमभङ्गुरमजागर्तिबहुलौपधि यत्र क्षीरिणो वृक्षा ओषधयो वाऽभ्याशे न स्युर्यस्माद्दक्षिणाप्रतीच्य आपश्शनैर्गत्वा प्रतिष्ठेरंस्ताः प्रदक्षिणमभिपर्यावृत्य महानदीमभ्यवेत्य प्राच्यस्सम्पद्येरन् दक्षिणाप्रत्यक्प्रवणमित्येकेषामुदक्प्रत्यक्प्रवणमित्येकेषामपि वा यस्समभूमिः ॥ तस्माद्वीरुध उद्धारयन्ति - काळाञ्च पृश्निपर्णीञ्च तिल्वकां चापारकां चापामार्गश्च शुण्ठीञ्च बहुपुत्रिकाञ्च विस्रंसिकाञ्च राजक्षपणीञ्च याश्चान्याः क्षीरिण्य ओषधयो भवन्ति ॥ अथैनं मध्ये शकलेनोद्धत्यावीक्ष्य हिरण्येन परिकीर्य पर्णशाखयाऽपकर्षति –

अपेत वीत विच सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै

इति ॥ तद्दारुचितां कुर्वन्ति दक्षिणाप्राचीम्

एषा हि पितॄणां प्राची दिक्

इति विज्ञायते ॥ जघनेन चितां दक्षिणाप्राचीं विहारं कल्पयित्वा दभैरग्निं चितां चापसलैः परिस्तीर्य दक्षिणेन विहारं दक्षिणाग्रान्दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि संसादयति ॥ एकपवित्रेण प्रोक्षणीं संस्कृत्य पात्राणि प्रोक्ष्य प्रेतं चितां चाज्यं निरुप्याऽधिश्रित्य पर्यग्नि कृत्वोद्वास्योत्पूय तूष्णीं दर्भैः पात्राणि सम्मृज्य ॥ (बो. पि. सू. १. ७) अथाऽस्य भार्यामुपसंवेशयति ॥ (बो. पि. सू. १. ८)

इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्यप्रेतम् ।
विश्वं पुराणमनु पालयन्ती तस्यै प्रजां द्रविणं चेह धेहि

इति ॥ तां प्रतिहितस्सव्ये पाणावभिपाद्योत्थापयति

उदीर्ष्वनार्यभि जीवलोकमितासुमेतमुपशेष एहि ।
हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभि सम्बभूव

इति ॥ अथाऽस्य सुवर्णेन हस्तौ निमृजते

सुवर्णं हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय ।
अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम

इति ब्राह्मणस्य ॥

धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्रायौजसे बलाय ।
अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम

इति क्षत्रियस्य ॥

मणिं हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय ।
अत्रैव त्वमिह वयं सुशेवा विश्वा स्मृधो अभिमातीर्जयेम

इति वैश्यस्य ॥ यश्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ॥ अथैनमेतयाऽऽसन्द्या सह चितायामादधाति ॥ अपकृष्य रज्जूमासन्दीमपविध्यन्ति ॥ कृष्णाजिने चैव रज्जुषु । चोत्तानश्शेते । तस्य प्राणेषु हिरण्यशकलान्प्रत्यस्य नाना चतुर्गृहीताभ्यामक्ष्णोर्जुहोति -

चित्रं देवानामुदगादनीकम्

इत्यर्धर्चाभ्यां जुहोतीति विज्ञायते ॥ (बो. पि. सू. २. १) यथो एतदाहिताग्नेर्निर्मारं गच्छतः प्रतिकृष्य प्रातराग्निहोत्रं जुहुयात्प्रतिकृष्यामावास्यां यजेतेति ॥ तथैते कर्मणी अभिसञ्चरेद्यथा जीवतः कृते स्याताम् ॥ स उ चेदहुते प्रातरग्निहोत्रेऽनिष्टायाममावास्यायां प्रेयात्तदानीमेवाऽस्य तूष्णीं प्रातरग्निहोत्रं यादृक्कीदृक्च होतव्यं तदानीमेवाऽस्य तूष्णीममावास्यां यादृशीं कीदृशीञ्च यजेतेति॥

स उ चेत्पुनरागतः स्यात् पुनरेवास्य प्रातरग्निहोत्रं काल्यमव्यापन्नं होतव्यं पुनरेवामावास्यां काल्यामव्याापन्नां यजेतेति ॥ (बो. पि. सू १. ११ ५ ) उदकुम्भेन त्रिरपसलैः परिषिञ्चति वारुणीभिः ॥ (बो. पि. सू. ३. ४ ) अथ पत्न्युदकुम्भमादाय शीर्षन्नधि निधायत्रिरपसलैः परिषिञ्चति ॥ तमश्मना परशुना वा किञ्चिदधस्तात् प्रहरति । तां धारामनुमन्त्रयते

इमा आपो मधुमत्योऽस्मिंस्ते लोक उपदुह्यन्ताम्

इति ॥ द्वितीयं परिगतायां प्रहरति । तां धारामनुमन्त्रयते

इमा आपो मधुमत्योऽन्तरिक्षे ते लोक उपदुह्यन्ताम्

इति ॥ तृतीयं परिगतायां प्रहरति । तां धारामनुमन्त्रयते

इमा आपो मधुमत्यस्स्वर्गे ते लोक उपहुह्यन्ताम्

इति ॥ अथाध्वर्युर्वा कुम्भं भिनत्ति ।

यदि पुरस्तात्पतति पापीयान् भवति यदि पश्चात्पतति वसीयान्भवति

इति ब्राह्मणम् ॥ अत्रैवोपसीदति आर्द्रानोषधिवनस्पतीनारभ्योपोत्थाय कपालशेषा अपः प्रेतस्य प्राणस्थानेषु निनयति -

दिवि जाताः

इति ॥ गां पश्यति । ब्राह्मणान्पश्यति । हिरण्यमालभते । अत्र गुरवे वरं ददाति ॥ अथैनमहतेनोदीचीनदशेन[[??]] वाससा कृष्णाजिनेन वा दक्षिणाग्रीवेणोत्तरलोम्ना प्रोर्णोति ॥ अङ्गुष्ठबन्धं विस्रस्याऽथाऽग्नीनादीपयति -

भूः पृथिवीं गच्छतु

इति वायव्यां गार्हपत्यं

भुवोऽन्तरिक्षं गच्छतु

इति नैर्ऋत्यामन्वाहार्यपचनं

सुवर्दिवं गच्छतु

इत्यैन्द्र्यामाहवनीयं पुरस्तात्सभ्यावसथ्यौ[[??]] तूष्णीं वायव्यमेवोत्तरेष्वग्निषु ॥ अथ सम्भारैश्च पत्नीभिश्चोपोषेत् ॥ ग्रहैः ऋतुमुखीयेन

ब्राह्मण एक होता

इति चोपस्थानम् । (बो. पि. सू. १. ११) अथैनमादीपयत्यादीप्यमानमनुमन्त्रयते

मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरम् । यदा शुतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः

इति ॥ प्रज्वलितमनुमन्त्रयते

शृतं यदा करसि जातवेदोऽथेमेनं | परिदत्तात्पितृभ्यः । यदा गच्छत्यसुनीतिमेतामथा देवानां वशनीर्भवाति

इति । अत्र षड्ढोतारं व्याचष्टे –

सूर्यन्ते चक्षुर्गच्छतु वातमात्मा द्याञ्च गच्छ पृथिवीं च धर्मणा। अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः

इति ॥ अत्रैतमजं चित्यन्तेऽबलेन शुल्बेन बध्नाति –

अजोभागस्तपसा तं तपस्व तन्ते शोचिस्तपतु तन्ते आर्चिः। यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमं सुकृतां यत्र लोकाः

इति ॥ स यद्यहो द्रवति नैनं प्रत्यानयति। प्रागु हैक उपोषणात् ॥ तत्प्रच्छाद्येन पर्णमयेन स्रुवेणोपघातं जुहोति -

य एतस्य पथो गोप्तारस्तेभ्यस्स्वाहा

इति नव स्रुवाहुतीः ॥ अथान्यां जुहोति-

अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि ॥ वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमं सुकृतां यत्र लोकास्स्वाहा

इति ॥ अत्रैव स्रुवमनुप्रहरति ॥ अत्रैव दर्वीमनुप्रहरति जघनेन चिताम् ॥ अथैनं नवर्चेन याम्येन सूक्तेनोपतिष्ठते -

प्रकेतुना बृहता भात्यग्निः

इति ॥ आसीनः पराचाऽनुशंसति वा ॥ (बो. पि. सू. ३. ४. १४, १५) सुसमिद्धेष्वग्निषु तं धर्ममनुमन्त्रयते -

यं धर्मो अग्निमभिजिहर्ति होमान्यां गतिं यान्ति वै युधि युद्धशूरास्सुगतिनः। अग्निहोत्रा निष्ठास्तनुत्यजो मोक्षविदो मनीषिणो विधूतपापा विरजा विशोकास्तान् लोकान्गच्छ सुगतिं नाकपृष्ठं स्वधा नमः

इति ॥ यद्यु वाऽनाहिताऽग्निर्भवति तं धर्ममनुमन्त्रयते -

यं धर्मो अग्निमभिजिहर्ति होमान्यां गतिं यान्ति वै युधि युद्धशूरास्तनुत्यजो मोक्षविदो मनीषिणो विधूतपापा विरजा विशोकास्तान् लोकान्सुगतिं नाकपृष्ठं स्वधा नमः

इति ॥ (बो. पि. सू. १. ११. १३,१४ ) जघनेन दहनं तिस्रो दक्षिणाप्राचीः कर्षूः कुर्वन्ति ॥ अथैना अद्भिरनुप्लाव्य सिकताभिरनुप्रकीर्य सङ्गाहन्त यवीयान्यवीयान्पूर्वः पूर्वस्सङ्गाहन्ते ॥ (बो. पि. सू. १. १२)

अश्मन्वती रेवतीस्संरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाश्शिवान्वयमभि वाजानुत्तरेम

इति ॥ जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बध्वा विनिस्सर्पन्ति -

यद्वै देवस्य सवितुः पवित्रं सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाऽहं मां सर्वतनुं पुनामि

इति ॥ जघन्यो व्युदस्यति -

या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्तास्सर्वाः पवनेन पूताः प्रजयाऽस्मान् रय्या वर्चसा संसृजाथ

इति ॥ यत्राऽपस्तद्यन्त्यनवेक्षमाणा अपस्सचेला दक्षिणामुखास्समृत्तिका आप्लवन्ते -

धाता पुनातु सविता पुनातु

इति ॥ नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याऽऽचम्याऽऽदित्यमुपतिष्ठते -

उद्वयं तमसस्परि

इति ॥ अथ गृहानायान्ति यश्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ॥ एतस्मिन्कालेऽस्याऽमात्या केशश्मश्रूणि वापयन्ते ये सन्निधाने भवन्ति। विकल्पमितरेषु वापयेरन्वा निवर्तयेरन्वा ॥ श्रुतवता तु वप्तव्यमेवाऽसन्निधानेऽपीति बोधायनस्य कल्पः ॥ न समावृत्ता वपेरन्नन्यत्र विहारादित्येके । मातरि पितर्याचार्य इति त्रिरात्रमक्षारलवणभोजनमधश्शयनं ब्रह्मचर्यं त्र्यहं षडहं द्वादशाहं संवत्सरं यावद्ग्रहणं द्वादशाहाऽवरार्धं परमगुरुष्वेवमघोदकमितरेषु त्रिरात्रं यावज्जीवं प्रेतपत्नी ॥ (बो. पि. शे. सू. १. १० ) अथ शुक्रवारे निशायां वा दहेत्तदौरसव्यतिरिक्ता न वापयेयुरपरेद्युः कुर्युः पुत्रस्त्वकृतचौळोऽपि मातरं पितरं वा दग्ध्वा तदा चौळवत्तूष्णीं वपनम् । पश्चाद्यथाकाले विधिवत्कुर्यात् । मातृपितृव्यतिरिक्तदहने न वापयेत् ॥ (बो. पि. सू. २. २) अथ वै भवति प्रजापतिः प्रजास्सृष्ट्वा वृत्तोऽशयत्तं देवा भूतानां रसं तेजस्सम्भृत्य तेनैनमभिषज्यन्निति तत्पृच्छन्ति कतमत् ब्राह्मणानां तेजो रसो येनैनमभिषज्यन्निति चतुर्होतार इत्येव ब्रूयात् ॥ तस्य सग्रहैर्होतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसंवेशनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान्सम्भारैः | पात्रचयो ज्योतिष्मतीभिरुपोषणं नारायणाभ्यां ‘ब्राह्मण एकहोता’ इति चोपस्थानं ‘प्रयासाय स्वाहा’ इत्याज्याहुतीः ‘चित्तं सन्तानेन’ इति हविराहुतीः मृत्युसूक्तेनाऽनुशंसनं सौम्यया स[[??]]हनमीयुष्ट्यऽवगाहनं सौर्येणाऽऽदित्यस्योपस्थानमिति तानेतान् परं ब्रह्मेत्याचक्षते ॥ तान्न साधारणे श्मशाने प्रयुञ्जीत नाऽनाचार्याय नाऽश्रोत्रियाय नाऽगुरवे नाऽब्रह्मविदे कामं पित्र्ये च ॥ ( बो. पि. सू. ३. ४) अथाऽप्रतीक्षास्तीर्थमायान्ति । तान्गोत्रमैथुनो राजपुरुषो वा वारयति पर्णशाखया मावतरतेति ।

न पुनः पुनरागमिष्यामहे

इत्युक्त्वा केशानोप्यातुरव्यञ्जनानि कुर्वीरन् । पांसूनोप्यैकैकवाससो दक्षिणामुखा सकृदुन्मज्ज्योत्तीर्योपविशान्ति ॥ बद्धशिखा यज्ञोपवीतिनोऽप आचम्य प्राचीनावीतं कृत्वा दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु दूर्वाञ्जलिनोदकमादाय सव्यं जानुं निपात्य दक्षिणामुखास्तिलमिश्रा अपस्तं प्रति

असावेतत्त उदकम्

इति। एवं द्वितीयं तृतीयश्च कृत्वा स्नात्वाऽप आचम्य

सन्त्वा सिञ्चामि यजुषा

इति शान्तिं कृत्वा ज्योतिष्मत्याऽऽदित्यमुपतिष्ठते -

उद्वयं तमसस्परि’

इति ॥ अथाऽप्रतीक्षाः कनिष्ठप्रथमा ग्राममायान्ति ॥ गृहद्वारे निम्बपत्रं प्राश्याऽप आचम्य गोशकृत्सुवर्णापोऽग्निगौरसर्षपान्संस्पृश्याऽश्मनि तिष्ठन्तीत्येके ॥ यत्र च प्रेतस्य प्राणा उत्क्रान्ता भवन्ति तत्रोदकमिश्रांस्तिलतण्डुलान्त्सम्प्रकिरन्ति -

स्वस्त्यस्तु वो गृहाणामशेषे शिवं वास्त्वास्ताम्

इति ज्योतिष्कृत्वाऽगारं प्रविशन्ति ॥ एकरात्रमुपोष्य तेषामक्षारलवणभोजनमधश्शयनं ब्रह्मचर्यञ्चादशरात्रात्सायम्प्रातस्तूष्णीमुपलेषु पिण्डं निपृणुयात्सायम्प्रातस्सकृदुदकक्रिया ॥ अथैषा पत्नी नाश्नीयात्पक्वान्नस्य॥ दशमेऽहनि त्रिरुदकमुत्सिञ्चन्ति सर्वेऽमात्याः ॥ अथैकादश्यामेकोद्दिष्टं कुर्वन्ति ॥ (बो. पि. सू. २. ४) कथमु खलु प्राचीनावीतिना पितृमेधः कर्तव्योऽन्यत्र यज्ञोपवीतिनेति। प्राचीनावीतिनेत्येव ब्रूयात् । विज्ञायते च -

पितृणां वा एष मेधो देवानां वा अन्ये मेधाः

इति ॥ निवीतिनस्त्वेवैनं वहेयुश्चितायां चादध्युः ॥ (बो. पि. सू. २. ३. १८) बह्वृचां पितृमेधे स्त्रीणामिमान्मन्त्रानुपोद्धरेत् ॥ (बो. पि. सू. २. ४)

इयं नारी पतिलोकं, उदीर्ष्व नार्यभिजीवलोकं, सुवर्णं हस्तात्, धनुर्हस्तात्, मणिं हस्तात्, मैनमग्ने, शृतं यदा, अजो भागस्तपसा, अयं वै त्वम्, इदन्त एकम्, यौ ते श्वानो, यत्ते कृष्णः, उत्तिष्ठ प्रेहि, अस्मात्त्वम्, अपेत वीत, उछ्मञ्चस्व[[??]], पृथिवि मा विबाधिथाः

इति ॥ (बो. पि. सू. २.३) न प्राक् चौळात्प्रमीतानां दहनं विद्यते । नाऽनुपनीतानां कन्यानां वा पितृमेधः । अनुपनीतानां कन्यानां वा पुनर्दहनमन्त्रेण दहेयुः ॥ (बो. पि. सू. ३. ५) अथैके

तूष्णीमितरेषाम्

इत्यत्रोदाहरन्ति –

भार्यासंज्ञिका नारी पुरुषो ब्राह्मणसंज्ञकः । त एते होतृसंस्कारा इतरे मन्त्रसंस्काराः

इति ॥ ता अनुव्याख्यास्यामः - अनुपेत उन्मत्ती जळोऽन्धो मूको बधिरः पङ्गुष्षण्डः कुष्ठी किलासी कुब्जः खञ्जः कुणिर्व्यसनी हीनाङ्गोऽधिकाङ्गस्स भागवतो ब्राह्मणोऽनाथो राजन्योऽनाहिताsग्निर्वैश्यस्स्त्रियोऽनुत्पन्नपुत्राः कन्या विधवा कुत्सिनी वन्ध्या चेति । तेषां प्राणेषूत्क्रान्तेषु हिरण्यशकलमास्ये निधाय तूष्णीं स्नापयेत् । श्मशानं नीत्वाऽमन्त्रेण शाखया संमृजेत् । तूष्णीं तिलतण्डुलान् सन्निवपेत् । सम्प्रकीर्य चितां कल्पयित्वा चितायां प्रेतं निधायाऽपसलैः परिस्तीर्याऽऽज्यमास्ये निनयेत् -

इदं त आत्मनश्शरीरमयं त आत्माऽऽत्मनस्त आत्मानं शरीराद्ब्रह्म निर्भिनत्ति भूर्भुवस्सुवरसौ स्वाहा

इति। सा हि पूर्णाहुतिः। अपि वा -

अस्मात्त्वमधि जातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा

इत्यनयर्चा वा

वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यः पितृभ्यस्स्वाहा

इत्यनेन यजुषा वा । अत्रैव मन्त्रेण सिग्वातेनोपवीजयन्ति । तूष्णीमुदकुम्भेनाऽपसव्यं परिषिञ्चेत् । उत्तपनीयेनाऽग्निना संयोजयेत् । नातीर्थेऽभिषिञ्चेत् । प्रसिद्धमेकादश्यामेकोद्दिष्टं कुर्वन्ति ॥ (बो. पि. सू. ३.६ ) यथो एतन्न प्राक्चौळात्प्रमीतानां दहनं विद्यते नाऽनुपनीतानां कन्यानां वा पितृमेध इत्युक्तम् । कथमु खल्वेषामुक्तस्संस्कारो विद्यत इति ॥ असमाप्तशरीराणां गर्भाणां स्रवणमित्येके । गर्भस्रवणे —

इयं वा अग्निर्वैश्वानरोऽस्यामेवैनं जुहोति

इति ब्राह्मणम् । भूमौ निहत्य सचेलोऽवगाहेत सद्यश्शौचम् ॥ अदन्तजातानां निखननं प्रणवेन वा ॥ दन्तजातानां व्याहृतिविधानेन वा । तस्य कः कर्मण उपक्रमो भवति ? निर्मन्थ्यं कुर्यान्निर्मन्थ्येन स्त्रीकुमाराणां दहेयुरित्युक्तत्वात् । अथ ग्राम्येणाऽलङ्कारेणाऽलङ्कृत्य श्मशानं निर्हृत्य प्रेतं तत्रैव निधायाऽऽख्यातं चितायामुपकल्पनम् ॥ अपरेण चितामग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य पर्णमयेन स्रुवेण मध्यमेन पलाशपर्णेन वा

तत्सवितुर्र्वरेण्यम्

इत्यनुद्रुत्यैकादशकृत्वो गृह्णाति -

प्रजापतये स्वाहा

इति प्रथमामाहुतिं जुहोति

प्रेतायाऽमुष्मै यमाय वैवस्वताय स्वाहा

इति द्वितीयां

दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तत्सर्वञ्जुहोति

इति ब्राह्मणम् ॥ पर्णमयस्रुवं प्रेतस्योपरिष्टान्निधाय ‘भूः’ इति मनसा ध्यायन्नुपोषेत् । ‘भुवः’ इत्युपस्थानं ‘सुवः’ इत्यवगाह्याऽप्सु निमज्योन्मज्योत्तीर्याऽऽचम्यैकमुदकाञ्जलिं ददाति ॥ न चाऽस्याऽत उर्ध्वं श्मशानं कर्तुमाद्रियेत नोदकक्रिया वा ॥ (बो. पि. सू. ३.[[??]]७ ) आपद्युक्तं प्रेतविधानमेवं शस्त्रविषरज्जुजलाऽचलमारुततरुपाषाणहुताशनाsनुच्छ्वासनादिना मृतानां शरीरसंस्कारं वर्जयेत् ॥ देशान्तरमृते सङ्ग्रामहते व्याघ्रहते शरीरमादाय विधिना दाहयेत् ॥ अथ यद्येकाङ्गदर्शने पराङ्गस्य

सप्तप्राणास्तदाश्रयाः

इति मधुना सर्पिषा वाऽभ्यज्य विधिना दाहयेत् ॥ ( बो. पि. सू. २.३[[??]] ) न प्राक्चौळात्प्रमीतानां दहनं विद्यते ॥ नाऽनुपनीतानां कन्यानां वा पितृमेधः ॥ अनुपनीतानां कन्यानां वा पुनर्दहनमन्त्रेण दहेयुः ॥

(वो. पि. सू. २८) अथ द्विजातीनां पापकर्मणामज्ञातमृतानां मुख्यमेवशरीरसंस्कारं कुर्वन्ति । तदानीमेव प्रायश्चित्तं कुर्वन्ति ॥ सर्पदष्टानां

नमो अस्तु सर्पेभ्यः

इति तिस्र आहुतीर्जुहुयात् ॥ ॥ जले मृतानां

इमम्मे वरुण, तत्त्वा यामि

इति द्वाभ्याम् ॥ ॥ समुद्रे मृतानां

समुद्राय वयुनाय

इत्यृचा॥ ॥ पश्वादिभ्यो मृतानां

आ गावः, इन्द्रो यज्वने

इति द्वाभ्याम् ॥ ॥ अशनिपातमृतानां

अग्निर्मूर्धा, भुवः

इति द्वाभ्याम् ।

मूर्धानं दिवः

इत्येतेन वा ॥ ॥ अथ सूतिकाया उदक्याया आशौचिनां वा मरणे आशौचकालेऽतीते वा तावत्कालं शरीररक्षणाऽशक्तौ मृद्भस्ममिश्रितेन पञ्चगव्येन गोमूत्रेण वा कुशैः प्रोक्षति -

सुरभिमत्याऽब्लिङ्गाभिर्वारुणाभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिः इति ॥

शतरुद्रियेण,

अग्निर्मूर्धा

इत्यनुवाकेन चेत्येके । अथाऽन्येन वाससाऽऽच्छाद्य विधिना दहेत् ॥ ( बो. पि. सू. २.६.१२) अथ यदि यजमाने म्रियमाणे पत्न्यनालम्भुका स्यात्कथं तत्र प्रायश्रित्तम्? द्वादशगृहीतेन स्रुचं पूरयित्वा दुर्गामनस्वतीमहाव्याहृतीरहुत्वा

अप पाप्मानं, तद्यमो राजा’

इति द्वाभ्यां पूर्णाहुतिं हुत्वा यद्यर्थिनो विन्देरंस्तेभ्यो धेनुं दद्यादिति ॥

प्रेतपुनस्सन्धानम् ॥ ( बो. गृ. शे. सू. ४.१४) अथ गृहस्थस्यौपासनं विच्छिद्येत प्राणेषूत्क्रान्तेषूभयोः श्रोत्रिययोर्वचनादुद्धरेत् श्रोत्रियागाराद्वाऽऽहृत्य व्याहृतीभिर्नियुप्योपसमाधाय पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धो यजमानो जुहोति –

सप्त ते अग्ने,

सप्त व्याहृतिभिश्च,

पूर्वं देवा अपरेण, प्राणापानौ

इति द्वाभ्यां,

मा त्वा वृक्षौ सम्बाधिष्टाम्, मा त्वा वृक्षौ सम्बाधेथाम्

इति द्वाभ्याम्,

अग्नेऽभ्यावर्तिन्, अग्ने अङ्गिरः

इति द्वाभ्यामेकैकं प्रति चतुर्गृहीतं गृहीत्वा जुहोति ॥ न च ब्रह्मा न च प्रणीता न चरुर्न च स्विष्टकृतम् ॥ अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते ॥ (बो. पि. सू. २.७) मरणे श्रेयोऽवाप्तिः ।

य एवं विद्वानुदगयने प्रमीयते सौर्येण यथा स्वर्गं लोकमेत्यथ यो दक्षिणे प्रमीयते चान्द्रमसेन पथा पितृलोकमेति

इति विज्ञायते ॥

ता सूर्याचन्द्रमसा विश्वभृत्तमा महत्

इत्याहुतिभिष्षड्भिरेवैनं पूर्वपक्ष उदगयन आहरेदिति ॥

उदगयन आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणम्

इत्युपदिशन्ति ॥ ( बो. पि. सू. २. ४. ७-१२ ) सह प्रमीतयोः सहैकः पितृमेधः । औपासनस्योल्मुकार्थत्वादौपासनेऽविद्यमाने निर्मन्थ्येन पितृमेधः।

औपासनेनानाहिताग्निम्

इत्यविशेषाज्जायापत्योरनाहिताग्न्योरित्येवेदमुक्तं भवति । तयोर्यः पूर्वो म्रियेत तस्यौपासनेन पितृमेधः । यः पश्चात्तस्य निर्मन्थ्येन । उत्तपनीयमेके समामनन्ति । निर्मन्थ्येन स्त्रीकुमाराणां दहेयुरित्येकेषाम् । (बो. पि. सू. २.३) अघोदकमुत्सिच्य दशरात्रमाशौचम् ॥ दशरात्रे शौचं कृत्वा शान्तिः। सपिण्डानां सबान्धवानां मातुश्च योनिसम्बन्धेभ्यः पितुश्चासप्तमात्पुरुषादाचार्यान्तेवासिनोश्च सपत्नीकानां सापत्यानां सपिण्डानां दशरात्रं त्रिरात्रमितरेषाम् ॥ बाले देशान्तरस्थे च सद्यश्शौचमित्येके ॥

चन्द्रिकायाम् -

प्रेतस्य पुत्रो दाहादि दद्यादेवौरसः सुतः । बहुत्वे तु गुणी दद्यात्साम्ये तु ज्येष्ठ एव च

इति । ऋष्यशृङ्गः -

पुत्राणां मध्यमो वाऽपि कनिष्ठो ज्येष्ठ एव वा ।
पितुर्यस्तु प्रियतमस्सर्वं तेनैव कारयेत्

इति ॥ औरसलक्षणमाह याज्ञवल्क्यः -

औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रो नेतरेण वा

इति ॥ प्रेतालङ्करणम् -

पुण्यैस्तु गन्धमालाद्यैर्माधवाऽङ्घ्रिसमर्पितः।
यदि प्रेतमलङ्कुर्यात्स याति परमां गतिम्

इति ॥
प्रह्लादसंहितायाम् -

शरीरं दह्यते यस्य तुलसीकाष्ठवह्निना ।
नरो यत्कुरुते पापं तस्मात्पापात्प्रमुच्यते॥
यदेतत्तुलसीकाष्ठं मध्ये वाऽपि चितौ कृतम्।
दाहकाले भवेन्मुक्तिः पापकोटिकृतस्तथा

इति ॥
आपस्तम्बः -

धून्वने अन्वारम्भणे सङ्गाहने संसर्पणे उदकोपस्पर्शने
इति सर्वत्र कनिष्ठप्रथमा अनुपूर्वा इतरे स्त्रियोऽग्रे

इति ॥