ज्ञातव्यविषयः ॥ ॥ अथात्र तावत्पैतृमेधिककर्मविधायकं पितृमेधसूत्रम् -
तस्माज्जातस्य वै मनुष्यस्य द्वौ संस्कारावृणभूतौ भवतो जातसंस्कारो मृतसंस्कारश्चेति ॥ विज्ञायते - जातसंस्कारेणेमं लोकमभिजयति मृतसंस्कारेणाऽमुं लोकम्
इति ।
एतेन जातसंस्कारो मृतसंस्कारश्चाऽवश्यं कर्तव्य इति विदधात्याचार्य इति बोद्धव्यम् । जातसंस्काराः षोडश, संस्कारकाण्डे व्याख्याताः । दहनादिसपिण्डीकरणान्ताः षोडश मृतसंस्काराश्चाऽस्मिन्पितृमेधकाण्डे यथाक्रमं निरूप्यन्ते । अथ संस्कार्यसंस्कर्तृविशेषाः प्रोक्तास्तत्रैव पितृमेधसूत्रे -
तस्मान्मातरं पितरमाचार्यं पत्नीं पुत्रं शिष्यमन्तेवासिनं पितृव्यं मातुलं सगोत्रमसगोत्रं वा दायमुपयच्छेद्दहनसंस्कारेण संस्कुर्वन्ति
इति ॥
॥ पितृमेधशेषसूत्रे च -
अथ पुत्रः पौत्रो दत्तको वा पत्नी दौहित्रो भ्राता तत्पुत्रः पिता स्वस्रीयः सपिण्डो जामाता वा यथाक्रमं संस्कर्ता पितृमेधेन वा होतृकल्पेन वा ब्रह्ममेधेन वा यथाप्राप्तं संस्कुर्यात्
इति॥
॥ अनुपनीतकर्तृके पत्नीकर्तृके च संस्कारे विशेषस्तत्रैवोक्तः
अनुपनीतः पत्नी वा कर्ता चेन्मन्त्रवद्दहनमन्यत्सर्वं कारयेत्
इति ॥
वैद्यनाथीयेऽपि -
अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् ।
यद्यसौ कृतचौलः स्याद्यदि वा स्यात् त्रिवत्सरः
इति ॥
॥ ब्रह्मचारिकर्तृके विशेषमाह याज्ञवल्क्यः -
आचार्यपित्रुपाध्यायान्निर्हृत्याऽपि व्रती व्रतम् । सूतकान्नं न चाऽश्नीयान्न च तैः सह संविशेत्
( व्रती-नैष्ठिकब्रह्मचारी ) इति ॥
पुत्राणां बहुत्वे विभक्तत्वे च विशेषो वैद्यनाथीये -
सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् ।
द्रव्येण चाऽविभक्तेन सर्वैरेव कृतं भवेत्
इति ॥
सदृशस्त्रीषु जातानां पुत्राणाञ्च विशेषतः ।
न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते
इति ॥
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश एकेनैव तु कार्याणि संविभक्तधनेष्वपि
इति चोक्तः ॥
जीवत्पितृककर्तृकेऽपि धर्मसिन्धौ प्रेतकर्मप्रतिप्रसवप्रकरणे -
जीवत्पितृकः स्वमातुरपुत्रसापत्नमातुः स्वपुत्रसपत्नीपुत्ररहितभार्याया अपुत्रपितृव्यस्याऽपुत्रमातामहमातामह्योश्च दाहादिप्रेतकर्माणि कुर्यात्
इत्युक्तम् ॥
अथ मुमूर्षुः स्वकृतपापापनोदनार्थं सर्वप्रायश्चित्तं कृच्छ्ररूपं प्रथममाचरेदिति स्मृतिषु विशेषतः प्रतिपादितम्, वैद्यनाथीये - द्वादशाब्दकृच्छ्ररूपं षडब्दकृच्छ्ररूपं त्रिद्व्येकाब्दकृच्छ्ररूपं वा सर्वप्रायश्चित्तं यथाशक्ति स्वपापानुसारेण कुर्यात् -
सर्वजन्माऽऽर्जितानीह भ्रूणहत्यादिकान्यपि।
सर्वपापानि नश्यन्ति कृच्छ्रैर्द्वादशवार्षिक इत्याद्युक्तम् ॥
तल्लक्षणन्तु -
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
परं त्र्यहञ्च नाश्नीयात्प्राजापत्यो भवेदयम् ॥
एवं द्वादशाहसाध्यः प्राजापत्यकृच्छ्रः । त्रिंशत्प्राजापत्यैरब्दकृच्छ्रः सम्पद्यते । प्राजापत्यप्रतिनिधिरेका गौः । अब्दप्रतिनिधिस्त्रिंशद्गावः । गोः प्रतिनिधिर्निष्कनिष्कार्धनिष्कपादान्यतमप्रमाणं सुवर्णं रजतं वा शक्तेरनुरूपम् । चत्वारः कर्षा निष्कम् । अशीतिर्गुञ्जाः कर्षः ॥ इति ज्ञेयम् ॥
॥ अथाऽन्यान्यपि दानान्युक्तानि वैद्यनाथीये -
आतुरो वाऽथ पुत्रो वा दद्युरासन्नबान्धवाः ।
उत्क्रान्तिवैतरण्यौ च दशदानानि चैव हि ॥
प्रेतेऽपि कृत्वा तं प्रेतं शवधर्मे नियोजयेत् ॥
गोभूतिलहिरण्याज्यवस्त्रधान्यगुडानि च ।
रौप्यं लवणमित्याहुर्दश दानानि पण्डिताः
इत्यादि ॥ ॥
अथ धनिष्ठापञ्चकत्रिपुष्करद्विपुष्करयोगादौ मरणे कर्तव्यविधानान्युक्तानि निर्णयसिन्धौ -
कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते।
न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत् ॥
न तस्य दाहः कर्तव्यो विनाशात्स्वेषु जन्तुषु ।
अथवा तद्दिने कार्यो दाहस्तु विधिपूर्वकः ॥
दर्भाणां प्रतिमाः कार्याः पञ्चोर्णासूत्रवेष्टिताः।
यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत् ॥
प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः ।
प्रेतहर्ता पञ्चमस्तु नामान्येतानि च क्रमात् ॥
अथ प्रतिमा गन्धपुष्पैः पूजयित्वा प्रथमां शिरसि, द्वितीयां नेत्रयोः, तृतीयां वामकुक्षौ, चतुर्थीं नाभौ पञ्चमीं पादयोर्न्यसेत् । तदुपरि नामभिर्घृतं हुत्वा यमाय सोमं त्र्यम्बकमिति मन्त्राभ्यां प्रत्येकं तास्वाज्यं हुनेदिति ।
सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकपौष्टिकम् ।
कांस्यपात्रस्थितं तैलं वीक्ष्य दद्याद्विजन्मने ॥
ब्रह्मविष्णुमहेशेन्द्रवरुणप्रीतये ततः ।
माषमुद्गयवव्रीहिप्रियङ्ग्वादि प्रयच्छति॥
स्वर्णदानं रुद्रजाप्यं लक्षहोमो द्विजार्चनम् ।
गोभूदानं षडंशेन कुर्याद्दोषोपशान्तये
इति ॥
धर्मसिन्धौ तु नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्तौ पुत्तलविधिरेव न शान्तिकम्, पञ्चकमृतस्याऽश्विन्यां दाहप्राप्तौ शान्तिकमेव न पुत्तलविधिः, इति विशेषः प्रोक्तः ॥
त्रिपुष्करद्विपुष्करयोगौ धर्मसिन्धावुक्तौ -
यदि भद्रातिथीनां स्याद्भानुभौमशनैश्चरैः।
त्रिपादृक्षैश्च संयोगस्तदा योगस्त्रिपुष्करः ॥
द्विपुष्करो द्वयोर्योगेऽथवाऽयं स्याद्विपादभैः ।
पुनर्वसूत्तराऽषाढाकृत्तिकोत्तरफल्गुनी ॥
पूर्वभाद्रा विशाखा च ज्ञेयमेतत्त्रिपादभम् ।
मृगचित्राधनिष्ठा च ज्ञेयमेतद्विपादभम्
इति ।
तत्र कर्तव्यविधानमप्युक्तं निर्णयसिन्धौ -
द्वित्रिपुष्करयोगे तु मृतिर्मृत्यन्तरावहा ।
दहने मरणे चैव त्रिगुणं स्यात् त्रिपुष्करे ॥
खननेऽप्येवमेव स्यादेतद्दोषोपशान्तये ।
तिलपिष्टैर्यवैर्वाऽपि शरीरं कारयेत्ततः ॥
शूर्पे निधायाऽलङ्कृत्य दाहयेत्पैतृकोपरि
इति ॥
तद्दाहे मन्त्रमाह बोधायनः -
अस्मात्वमिति मन्त्रेण यवपिष्टं प्रदाहयेत् ।
द्वित्रिपुष्करयोर्दोषस्त्रिभिः कृच्छैर्व्यपोहति
इति ॥
धर्मसिन्धौ तु - यवपिष्टमयपुरुषत्रयेण सह प्रेतदाहः, पुरुषत्रयस्य प्रेते न्यास आज्याहुतयश्च पूर्ववत् ।
तद्दोषशान्तये -
सुवर्णं दक्षिणां दद्यात्कृष्णवस्त्रमथाऽपि वा ।
शान्तिं कुर्यात्सूतकान्ते पूर्वोक्तां तेन मङ्गलम्
इति विशेषः प्रोक्तः॥
॥ अथ कालाख्यमृत्युदोषः प्रोक्तो ग्रन्थान्तरे -
अर्काधिष्ठितभाद्वदन्त्युडुगणा नष्टासु दिक्षु क्रमादीशानादिषु चान्तराणि गणयेच्चत्वार्यथ त्रीन्बहिः । अन्तस्थानि बहिर्गतानि सकलान्येवंविधाऽगारतो मासं(७५) हिश्व(४८) घटाऽन्त्यमं(१०,५)-ग(३)-र(२)-मितं कालं दिनौघं बुधाः
इति ॥
मृतगेहे मरणकालीनसूर्यनक्षत्रप्रभृतिगण्यमानैरष्टाविंशतिकैरुत्तराषाढोत्तरमभिजित्सहितैश्चन्द्रनक्षत्रैः कालाख्यमृत्युरीशानकोणमारभ्य क्रमाच्चतुर्भिरन्तः प्रविशति त्रिभिः पूर्वस्यां मध्यात् बहिर्निर्गच्छति, पुनराग्नेयकोणमारभ्य चतुर्भिः प्रविशति त्रिभिर्दक्षिणस्यां निर्गच्छति, ततो नैर्ऋत्यकोणमारभ्य चतुर्भिः प्रविशति त्रिभिर्निर्गच्छति पुनरपि वायव्यकोणाच्चतुर्भिः प्रविशति
त्रिभिनिर्गच्छति, एवं प्रवेशादिनिर्गमान्तं चतुर्ष्वपि नक्षत्रसप्तकेषु मरणे क्रमेण ७५, ४८, २४, १०, ५, ३, २ दिनपर्यन्तं तद्गृहे
मरणाद्यनिष्टं करोतीत्यर्थः । मरणकालीनसूर्यनक्षत्राद्गण्यमानं चन्दनक्षत्रं यदि ७५, ४८, २४ दिनपर्यन्तमनिष्टप्रदं स्यात्तदा
तादृशाऽनिष्टपरिहारार्थं
पित्रादेर्मरणकालीननक्षत्रसूचितमृत्योः सम्भाव्याऽपमृत्य्वादिसर्वाऽनिष्टपरिहारद्वारा गृहे स्थितानां सर्वेषां दीर्घायुरारोग्याभयादिप्राप्त्यर्थं शौनकोक्तां कालशान्तिं करिष्ये
इति सङ्कल्पमात्रं कृत्वाऽऽशौचान्ते तां यथाविधि कुर्यादिति ज्ञेयम् ॥ ॥