७१ गृहस्थस्य नित्यानुष्ठानक्रमः

॥ ग्रहस्थस्य नित्यानुष्ठानक्रमः ॥ (बो. गृ. शे. सू. २.८ ) कथमु खलु नित्यानामनुक्रम इति-सन्ध्योपासनमग्न्युपस्थानं नित्यस्वाध्याय-गृहकर्म-स्नानाऽऽदित्योपस्थान-तर्पण-जप-यज्ञ-गृहदेवतार्चन-वैश्वदेव-पञ्च-महायज्ञाऽत्मयज्ञ-सन्ध्योपासनाऽग्निहोत्रात्मयज्ञ-संवेशनानीत्येतान्युदितहोमिनोऽजस्राऽग्निहोत्रिणोऽनुदितहोमिनोऽग्निहोत्रं सन्ध्योपासनमिति क्रमः ॥ एतानि नित्यान्युपव्युषमारभ्याऽऽसंवेशनात् प्रसिद्धम् ॥ सायं प्रातः सपत्नीकः प्रीतिं वर्धयेत् ॥ तस्याः पत्न्याः पूर्वरात्रावुपसंवेशनमाऽर्धरात्रादधश्शयनमाब्राह्ममुहूर्तादथोपोत्थाय नित्यान्यारभते ॥

॥ इति सङ्कीर्णकाण्डं समाप्तम् ॥