॥ आतुरसंन्यासविधिः ॥ कपिलः -
संन्यस्तमिति यो ब्रूयात्प्राणैः कण्ठगतैरपि ।
सोऽक्षयांल्लभते लोकान्पुनर्जन्म न विद्यते ॥
स्मृत्यन्तरे -
संन्यस्तमिति यो ब्रूयात्प्राणैः कण्ठगतैरपि ।
न तत्क्रतुसहस्रेण फलं प्राप्नोति मानवः ॥
प्रयोगः
अथ प्रयोगः ॥ आतुरसंन्यासे सङ्कल्पप्रैषोच्चराभयदानेति त्रयं प्रधानमवश्यं कार्यम् । दण्डग्रहणाद्यङ्गभूतं यथासम्भवं कार्यम् ॥ स्नात्वा, अशक्तश्चेन्मन्त्रस्नानं कृत्वा शुद्धवस्त्रं धृत्वा,
ज्ञानप्राप्तिद्वारा मोक्षसिध्यर्थमातुरविधिना संन्यासमहं करिष्ये
इति सङ्कल्प्य, वपनं कृत्वा स्नात्वा सन्ध्याद्यौपासनहोमान्तं यथासम्भवं कृत्वा, त्रिवृत्पाश्य, सावित्रीप्रवेशं कृत्वा, ब्रह्मान्वाधानं जागरमुद्वासनस्थालीपाकं विरजाहोमञ्च यथासम्भवं कृत्वाऽऽत्मन्यग्निं समारोप्य, प्रैषोच्चारणं यथाविधि कृत्वा
आपो वै सर्वा देवताः स्वाहा
इत्यप्सु हुत्वा, हुतशेषजलं
आशुः शिशानः
इत्यनुवाकेनाभिमन्त्र्य,
पुत्रेषणायाश्च॰
इति किञ्चिज्जलं पिबेत् ।
अभयं सर्वभूतेभ्यो मत्तः स्वाहा
इति द्वितीयं पिबेत् ।
संन्यस्तं मया
इति तृतीयं पीत्वा, प्राङ्मुख ऊर्ध्वबाहुः प्रैषोच्चारं पूर्ववत्कृत्वा
अभयं सर्वभूतेभ्यो मत्तः स्वाहा
इति प्राच्यां जलं क्षिपेत् ॥ अथ शिखामुत्पाट्य यज्ञोपवीतं विसृजेत् ॥ पुत्रगृहे न तिष्ठेत् । जीवति चेत्स्वस्थः सन्महावाक्योपदेशदण्डग्रहणादि सर्वं कुर्यात् ॥