॥ योगपट्टः ॥ कारितपर्यङ्कशौचो यतिः कटिशौचं कृत्वा, कटिसूत्रकौपीने धृत्वा वस्त्रेणाऽवगुण्ठ्य, गुर्वनुज्ञयोच्चासने उपविश्य सभ्यैः सह वेदान्ते किञ्चिदुपन्यसेत् ॥ गुरुर्यतिः शिष्यं यतिं शिरसि शङ्खेन पुरुषसूक्तेनाभिषिच्य, वस्त्र-गन्ध-पुष्प-धूप-दीप-नैवेद्यैः सम्पूज्य, वस्त्रमुपरि धृत्वा,
यतिभिः सह विश्वरूपाध्यायं पश्यामि देवान्
इत्यारभ्य
भुङ्क्ष्व राज्यं समृद्धं
इत्यन्तं पठित्वा पूर्वकल्पितं नाम दद्यात् ॥ ततः शिष्यं वदेत् -
इतः परं त्वया संन्यासाधिकारिणे संन्यासो देयो, दीक्षायोगपट्टादिकञ्च कार्यं, ज्येष्ठयतयो नमस्कार्याः ॥
ततो गुरुः कटिसूत्रं पञ्चमुद्रालङ्कृतं पूर्वदण्डश्च शिष्याय दत्वा, शिष्यं यथासम्प्रदायं नमस्कुर्यात् ॥ शिष्यो ‘नारायण’ इत्युक्त्वोच्चासनादुत्थाय, तत्र गुरुमुपवेश्य यथाविधि नत्वाऽन्ययतीन्नमेत् ॥ ॥