६८ पर्यङ्कशौचम्

॥ पर्यङ्कशौचम् ॥ अथ प्रयोगः ॥ कस्मिंश्चित्पुण्यदिने कश्चिद्गृहस्थः स्वाग्रे पीठादौ यतिमुपवेश्य गुर्वनुज्ञातो

यतये पर्यङ्कशौचं करिष्ये

इति सङ्कल्प्य वामभागे प्राक्संस्थान्पञ्च मृद्भागान्दक्षिणभागेऽपि तथैव पञ्च संस्थाप्योभयत्र शुद्धोदकञ्च संस्थाप्य, वामप्रथममृद्भागेन पञ्चवारं मृज्जलाभ्यां यतिजानुद्वयं कराभ्यां युगपत्क्षालयेत् । चरमक्षालने मृद्भागसमाप्तिः, एवमग्रेऽपि ॥ ततो दक्षिणभागस्य प्रथमभागार्धेन स्ववामकरं मृज्जलाभ्यां दशवारं प्रक्षाल्याऽपरार्धेन तेनैव जलेनोभौ करौ सप्तवारं क्षालयेत्, एवमग्रेऽपि योज्यम् ॥ सङ्ख्यायां विशेषस्तूच्यते - वामद्वितीयभागेन चतुर्वारं जङ्घद्वयं युगपत्प्रक्षाल्य, दक्षिणीद्वतीयभागार्धेन सप्तवारं, वामकरमर्धान्तरेण चतुर्वारमुभौ च करौ क्षालयेत् ॥ वामतृतीयेन यतिगुल्फो त्रिवारं दक्षिणभागार्धेन वामकरं षड्वारमुभौ चतुर्वारं वामचतुर्थेन ॥ यतिपादपृष्ठौ द्विवारं दक्षिणार्धेन स्व-वामं करं चतुर्वारं भूमौ द्विवारमवशिष्टार्धेन वामपञ्चमेन यतिपादतले सकृद्दक्षिणपञ्चमार्धेन वामस्य द्विवारमुभयोश्चाऽपरार्धेन सकृत्क्षालनमिति ॥