६७ कपिलसंन्यासविधिः

॥ कपिलसंन्यासविधिः ॥ (बो, गृ. शे. सू. ४.१६)

अनग्निकस्तु मुण्डी शिखी वाऽहोरात्रोपोषितः स्नात्वाऽप आचम्याप एव पाणिनाऽप्स्वाहुती जुहोति –

आपो वै सर्वा देवतास्स्वाहा

इति ॥

पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च सर्वभूतेभ्यश्च व्युत्थितोऽहं स्वाहा

इति ॥

संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया

इति त्रिरुपांशूक्त्वा त्रिरुच्चैः

त्रिषत्या हि देवाः

इति विज्ञायते ॥

अभयं सर्वभूतेभ्यो मत्तस्स्वाहा

इति दण्डान् गृहीत्वा जलपवित्रं ‘पवित्रम्’ इति समादाय पुत्रमित्रसुहृद्बन्धुज्ञातिसन्निधौ त्यक्त्वाऽथ ग्रामादाहृत्यैकपात्रमुदकेनाप्लाव्य सकृदल्पेन भुञ्जति ॥ न केनचित्सह सम्भाषेत ॥ न किञ्चन याचेत ॥ पर्वतगुहानदीपुलिनशून्यागारे देवतायतने बिलदर्योर्निवसेत् ॥ स्वयं पतितं प्रक्षाळ्य जीवितमुक्तम् ॥ जीर्णमानीयाहतानि दृढान्यजिनानि यदर्थं बिभृयात् ॥ सूर्योदयहीनयाचितेन कार्यं कुर्वीत ॥ व्रतं स्नानासमर्थो न लभेत् ॥ अथ प्रक्षाळ्य जलार्द्रेण कर्पटेन सशिरस्कजलापकर्षणं कृत्वाऽन्तर्वासाः परितस्सन्ध्यामुपासीत ॥ नित्यं मध्याह्ने प्रातस्स्नायीतेत्याह भगवान् बोधायनः ॥ ॥

कात्यायनः -

ब्रह्मचर्याद्गृहाद्वाऽपि वनाद्वा संन्यसेद्बुधः ।
पुत्रेषु भार्यां निक्षिप्य मृतपत्नीक एव वा ॥
कुर्यात्कृच्छ्राणि चत्वारि संन्यासेप्सुरनाश्रमी ।
आश्रमी कृच्छ्रमेकन्तु कृत्वा संन्यासमर्हति ॥

व्यासः -

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा पुनः ॥
विरक्तः सर्वकामेभ्यः पारिव्राज्यं समाश्रयेत् ॥
यावद्वर्णविभागोऽस्ति यावद्वेदः प्रर्वतते ।
तावन्न्यासोऽग्निहोत्रञ्च कर्तव्यन्तु कलौ युगे ॥

दत्तात्रेयः -

होमं दत्वा तथा सायं कुशान्कृष्णाजिनं ततः ।
ब्रह्मस्थाने समास्तीर्य ब्रह्मभावेन संस्थितः ॥
ब्रह्मरात्रीं ततो दत्वा विष्णौ संन्यस्य मानसम् ॥
समभ्यर्च्य हृषीकेशं जपन्नेकाक्षरं परम् ॥

यमः -

दत्वा तोयाञ्जलिं विप्रो भक्त्या सम्प्रार्थयेद्धरिम् ।
सर्वदेवात्मके तोये तोयाहुतिमहं हरे ॥
दत्वा सर्वैषणं त्यक्त्वा युष्मच्छरणमागतः ।
त्राहि मां सर्वलोकेश गतिरन्या न विद्यते ॥
ततो दिगम्बरो भूत्वा गच्छेत्किञ्चिदुदङ्मुखः ।
जिज्ञासुश्चेत्परावृत्य तिष्ठेत्तदनुशासनात् ॥

भविष्यपुराणे -

दण्डन्तु वैणवं सौम्यं सत्वञ्च समपर्वकम् ।
पुण्यस्थाने समुत्पन्नं नानाकल्माषशोभितम् ॥
अदग्धमहृतं कीटैः पर्वग्रन्थिविराजितम् ।
स्वयम्भूतन्तु मेदिन्यां शाखावर्णमृजुं शुभम् ॥
नासोदग्रं शिरस्तुल्यं भुवोर्वा बिभृयाद्यतिः ॥

परमहंसोपनिषदि -

असौ स्वपुत्र-मित्र-कलत्र-बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं सूत्रञ्च स्वाध्यायञ्च सर्वकर्मणि संन्यस्याऽयं ब्रह्माण्डञ्च हित्वा कौपीनं स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्

इति ॥ अत्रिः -

शेषं वित्तं त्यजेद्विप्रो धनधान्यादिकञ्च यत् ।
अत्यागात्सर्ववित्तानां संन्यासो निष्फलो भवेत् ॥

बाष्कलः -

कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन्मुनि ॥

सुमन्तुः -

एष त्यजाम्यहं सर्वं कामभोगादिकं सुखम् ।
शोकं तोषं विषादञ्च गन्धमाल्यानुलेपनम् ॥
भूषणं नर्तनं गेयं दानमादानमेव च ॥

इत्यादि ॥ पराशरः -

ब्रह्मचर्यमहिंसा च सत्यमस्तेयमार्जवम् ।
वेदान्तश्रवणं ध्यानं भिक्षोः कर्माणि नित्यशः ।
एकाकी निस्पृहस्तिष्ठेन्न केनाऽपि सहाऽऽलये ।
दद्यान्नारायणेत्येवं प्रतिवाक्यं सदा यतिः ॥

मेधातिथिः -

भिक्षाटनं जपो ध्यानं स्नानं शौचं सुरार्चनम् ।
कर्तव्यानि षडेतानि यतिना नृपदण्डवत् ।

वैखानसः -

सप्तत्यूर्ध्वं वृद्धोऽनपत्यो विधुरो वा जन्ममृत्युजरादीन्विचिन्त्य योगार्थी यदा स्यात्तदा, अथवा पुत्रे भार्यां निक्षिप्य परमात्मनि बुद्धिं निवेश्य वनात्संन्यासं कुर्यात् ॥

सायणः -

सर्वपापनिबर्हणद्वारा संन्यासं करिष्यमाणः यथाशास्त्रोक्ताधिकारी स्वगृह्योक्तविधिना पञ्चभूतसंस्कारादि आज्यसंस्कारान्तं कर्म कृत्वा, एतैर्वक्ष्यमाण (विरजा) मन्त्रैः प्रधानाहुतीः कुर्यात् । स्विष्टकृदाद्यन्यत्समानम् । सर्वत्र हविर्ग्राहिणी देवता तु परमात्मैव ॥

प्रयोगः

अथ प्रयोगः ॥ पूर्वमेव गायत्रीजप, रुद्रजप, कूष्माण्ड, गणहवनादिभिः पूतो भूत्वा, उदगयन आपूर्यमाण पक्षे रिक्ततिथौ प्रातः स्नानादिनित्यकर्म कृत्वा, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम संन्यासाधिकारसिध्यर्थं चतुःकृच्छ्रात्मकं प्रायश्चित्तं तत्प्रत्याम्नायगोनिष्क्रयद्वारा अहमाचरिष्ये

इति सङ्कल्प्य तन्निष्क्रयद्रव्यं विप्रेभ्यो दद्यात् । ततः स्नानादि चतुष्टयं विधाय, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीसमाराधनञ्च कृत्वा

परमात्मा प्रीयताम्

इति पुण्याहं वाचयेत् ॥ ततः पूर्वाह्णे सप्ताष्टौ वा शिखाकेशान्स्थाप्य कक्षोपस्थवर्णं केशश्मश्रुलोमनखानि वापयित्वा, स्नात्वाऽऽचम्य, होमादिद्रव्यमतिरिक्तं द्रव्यजातं विप्रेभ्यः पुत्रादिभ्यश्च दद्यात् ॥ कौपीनादिकं गैरिकरञ्जितं कृत्वा वैणवं दण्डं सत्वचं शिरोभ्रूललाटान्यतमप्रमाणं समूलमङ्गुलिस्थूलं विप्रानीतं एकादश-नव-चतुः-सप्तान्यतमपर्वकं पर्वग्रन्थियुतं मुद्रायुतं सम्पाद्य, शङ्खोदकेन प्रणव-पुरुषसूक्त-केशवादिद्वादशनामभिरभिषिच्य स्थापयेत् ॥ ततः शिक्यं, (आचमनार्थोदकस्य पावनहेतुभूतं नवं केशादिरहितं द्विगुणं द्विगुणं त्रिगुणं वाऽष्टाङ्गुलं प्रादेशमात्रं) जलपवित्रं, भिक्षापात्रं, वल्कलमजिनं, छत्रं, कन्थां, पादुकाञ्च स्थापयेत् ॥ अथाऽग्ने पश्चादुपविश्य देशकालौ सङ्कीर्त्य,

अशेषदुःखनिवृत्ति-निरतिशयानन्दप्राप्ति-परमपुरुषार्थप्राप्तये परमहंसाख्यसंन्यासग्रहणं करिष्ये

इति सङ्कल्प्य, पयोदधिमिश्रमाज्यं जलं वा ‘त्रिवृदसि’ इति प्रथमं प्राश्य, ‘प्रवृदसि’ इति द्वितीयं, ‘संवृदसि’ इति तृतीयं, ‘आपः पुनन्तु॰’ इति जलं प्राश्याचम्य सावित्रीप्रवेशं कुर्यात् ॥ (समाप्तिपर्यन्तं न भुञ्जीत)

ॐ भूः सावित्रीं प्रविशामि, तत्सवितुर्वरेण्यम् । ॐ भुवः सावित्रीं प्रविशामि, भर्गो देवस्य धीमहि । ॐ सुवः सावित्रीं प्रविशामि, धियो यो नः प्रचोदयात् । ॐ भूः सावित्रीं प्रविशामि, तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ॐ भुवः सावित्रीं प्रविशामि, धियो यो नः प्रचोदयात् । ॐ सुवः सावित्रीं प्रविशामि, तत्सवितुर्वरेण्यं॰ प्रचोदयात् [[TODO: परिष्कार्यम्]]

इति ॥ ततः सूर्यास्तमयात्पूर्वं स्नात्वा गृह्याग्निमुपसमाधाय (विच्छिन्नश्चेत्पुनःसन्धानविधिना) देशकालौ सङ्कीर्त्य,

संन्यासं कर्तुं ब्रह्मान्वाधानं करिष्ये

इति सङ्कल्प्य, परिसमूहनाद्याज्यसंस्कारान्तं कृत्वा, सुक्स्रुवौ सम्मृज्याऽग्निमलङ्कृत्याज्येन चतस्रो व्याहृतीर्तुत्वा, स्रुचि चतुर्गृहतिं गृहीत्वैकां समिधमग्नावाधाय पूर्णाहुतिं जुहोति - ‘ॐ स्वाहा’ इति (परमात्मन इदं॰) व्याहृतीर्मिन्दाहुती च हुत्वोत्तरपरिषेकादि शेषं समापयेत् ॥ ॥ अथ सायं सन्ध्योपासनादि कृत्वोत्तरेणाऽग्निं दर्भान्संस्तीर्य, आज्यस्थालीं स्रुवमित्यादि प्राकृतपात्रैः सह पूर्वस्थापितकौपीनाद्यासाद्य, दक्षिणेनाऽग्निं ब्रह्मायतने दर्भानास्तीर्य कृष्णाजिनमन्तर्धायाऽग्निसमीपे जागरणं कुर्यात् ॥ ॥ अथ ब्राह्मे मुहूर्त उत्थाय यथाविधि स्नात्वा नित्यकर्म निर्वर्त्य, देशकालौ सकीर्त्य, श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणसंन्यासाङ्गभूतं वैश्वानरस्थालीपाकं करिष्ये॰ पचनो नामाऽग्निः अग्निर्वैश्वानरो देवता, चरुर्हविः, उपहोमे -

वैश्वानरो न ऊत्या॰

इत्याद्यष्टभिर्मन्त्रैः ‘अग्नये स्वाहा’ इत्यनेन चाऽऽज्येन, ‘अग्निः स्विष्टकृत्’, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वा,

देवस्य त्वा॰ अग्नये वैश्वानराय जुष्टं निर्वपामि

इति तण्डुलान्निरुप्याऽग्निमुखान्तं कृत्वा पक्काज्जुहोति -

वैश्वानराय प्रतिवेदयामः॰, वैश्वानरः पवयान्नः पवित्रैः॰

इति द्वाभ्याम् (अग्नये वैश्वानरायेदं॰)। स्विष्टकृवदानाद्यन्वाधानक्रमेण होमः ॥ अथोपोत्थायाऽग्निमुपतिष्ठते - ‘सहस्रशीर्षा पुरुषः’ इत्येतेनाऽनुवाकेन ॥ ततः स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति -

सर्वो वै रुद्रः॰, विश्वं भूतं॰

इति द्वाभ्याम् ॥

आयुर्दा अग्ने हविषो जुषाणः॰

इति पक्वादुपादाय ‘सहस्रशीर्षा पुरुषः’ इत्यनुवाकेन प्राश्याचम्याऽऽत्मानं प्रत्यभिमृशति –

ॐ तद्ब्रह्म। ॐ तद्वायुः । ॰ ब्रह्मभूर्भुवः सुवरो३म्

इति ॥ अथोत्तरपरिषेकादि होमशेषं समापयेत् ॥

ततः (तरत्समन्दी॰ इति जपित्वा) कुशहेमरौप्यजलैः स्नात्वा देशकालौ सङ्कीर्त्य,

संन्यासाङ्गभूतं विरजाहामें करिष्ये,

इति सङ्कल्प्याऽऽज्यसंस्कारान्तं कृत्वाऽग्निमलङ्कृत्य व्याहृतीर्तुत्वा,

तिलाञ्जुहोमि सरसाँ सपिष्टान् गन्धार मम चित्तेरमन्तु स्वाहा ॥१॥ गावो हिरण्यं धनमन्नपानँसर्वेषाँश्रियै स्वाहा ॥२॥ श्रियञ्च लक्ष्मिञ्च पुष्टिञ्च कीर्तिञ्चाऽऽनृण्यताम् । ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रजाः सन्ददातु स्वाहा ॥३॥ तिला कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वंशानुगाः । तिलाः पुनन्तु मे पापं यत्किञ्चिद्दुरितं मयि स्वाहा ॥४॥ चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः । गोस्तेयँ सुरापानं भ्रूणहत्या तिला शान्तिँ शमयन्तु स्वाहा ॥५॥ श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिञ्चाऽऽनृण्यताम् । ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रज्ञा तु जातवेदः सन्ददातु स्वाहा ॥६॥ प्राणाऽपानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥७॥वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुध्याकूतिःसङ्कल्पा मे शुध्यन्तां ज्योतिरहं॰ भूयासँ स्वाहा ॥८॥ त्वक्चर्ममाँ सरुधिरमेदोमज्जास्नायवोऽस्थीनि मे शुध्यन्तां॰ भूयासँ स्वाहा ॥९॥ शिरःपाणिपादपार्श्वपृष्ठोरूदरजशिश्नोपस्थपायवो मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१०॥ उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता में शुध्यन्तां॰ भूयासँ स्वाहा ॥११॥ पृथिव्यापस्तेजोवायुराकाशा मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१२॥ शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१३॥ मनोवाक्कायकर्माणि मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१४॥ अव्यक्तभावैरहंकारैर्ज्योतिरहं॰ भूयासँ स्वाहा ॥१५॥ आत्मा मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१६॥ अन्तरात्मा मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१७॥ परमात्मा मे शुध्यन्तां॰ भूयासँ स्वाहा ॥१८॥ क्षुधे स्वाहा ॥१९॥ क्षुत्पिपासाय स्वाहा ॥२०॥ विविट्टयै स्वाहा ॥२१॥ ऋग्विधानाय स्वाहा ॥२२॥ कषोत्काय स्वाहा ॥२३॥ क्षुत्पिपासामलं ज्येष्ठामलक्ष्मीर्नशयाम्यहम् । अभूतिमसमृद्धिञ्च सर्वान्निर्णुद मे पाप्मानँ स्वाहा ॥२४॥ अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपात्मा भूयासँ स्वाहा ॥२५॥ ( सर्वत्र, परमात्मन इदं॰ ) स्विष्टकृदादि होमशेषं समाप्याऽऽचार्यायाऽऽज्यस्थाल्यादि तैजसपात्राणि हिरण्यं धेनुञ्च दत्वा, स्रुक्स्रुवादिदारुमयानि पात्राण्यग्नौ प्रक्षिप्याऽऽत्मन्यग्निं समारोपयति -

या ते अग्ने यज्ञिया तनूः॰

इति ॥ आत्मसमारोपणं नाम अग्नेस्त्रिराघ्राणम् ॥ अथाऽग्नेः पश्चात्तिष्ठन् -

ॐ भूर्भुवः सुवः संन्यस्तं मया, संन्यस्तं मया, संन्यस्तं मया

इति त्रिरुपांशुस्त्रिरुच्चैरुक्त्वाऽपां पूर्णमञ्जलिं निनयेत् –

अभयं सर्वभूतेभ्यो मत्तः

इति ।

स॒खा मे॑ गोपाय

इति दण्डमादत्ते ।

यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानर स्वाहा [[TODO: परिष्कार्यम्]]

इति शिक्यं,

येन॑ दे॒वाः प॒वित्रे॑ण॰

इति जलपवित्रं,

येन॑ दे॒वा ज्योति॒षोर्ध्वा॰

इति कमण्डलुं, सप्तव्याहृतिभिर्भिक्षापात्रञ्च ॥ ततः कृष्णाजिनमादाय गृहान्निष्क्रम्य

सर्वे भवन्तु वेदाढ्याः सर्वे भवन्तु सोमपाः ।
सर्वे पुत्रमुखं दृष्ट्वा सर्वे भवन्तु भिक्षुकाः

इति पुत्रादिभ्य आशिषो दत्वा, पुत्रान्सुहृदो बन्धून्प्रति -

न मे कश्चिन्नाऽहं कस्यचित्

इति ममतां त्यजेत् ॥ ततो जलाशयं गत्वाऽञ्जलिना जलमादायाऽप्स्वेवाऽपो जुहोति -

आपो॒ वै सर्वा॑ दे॒वताः॒ स्वाहा॑, पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च सर्वभूतेभ्यश्च व्युत्थितोऽहं स्वाहा ॥ अभयं सर्वभूतेभ्यो मत्तः स्वाहा ॥

इति पुनरेवमभयं दत्वा वदेत् -

यत्किञ्चिद्बन्धनं कर्म कृतमज्ञानतो मया ।
प्रमादालस्यदोषोत्थं तत्सर्वं सन्त्यजाम्यहम् ॥
त्यक्तसर्वो विशुध्दात्मा त्यक्तस्नेहशुभाशुभः ।
एष त्यजाम्यहं सर्वं कामभोगसुखादिकम् ॥
रोषं तोषं विवादञ्च गन्धमाल्यानुलेपनम् ।
भूषणं नर्तनं गेयं दानमादानमेव च ॥
नमस्कारं जपं होमं याश्च नित्याः क्रिया मम ।
नित्यं नैमित्तिकं काम्यं वणधर्माश्रमाश्च मे ॥
सर्वमेव परित्यज्य ददाम्यभयदक्षिणाम् ।
पद्भ्यां कराभ्यां विहरन्नाहं वाक्कायमानसैः ।
करिष्ये प्राणिनां पीडां प्राणिनःसन्तु निर्भयाः

इति ॥ अथ सूर्यादिदेवान्विप्रांश्च साक्षित्वेन ध्यात्वा, नाभिमात्रे जले प्राङ्मुखः सावित्रीप्रवेशं पूर्ववत्कृत्वा, ‘तरत्समन्दि’ इति सूक्तं पठित्वा,

पुत्रेषणाया वित्तेषणाया लोकेषणायाश्च व्युत्थितोऽहं, भिक्षाचर्यां चरामि

इति जले जलं जुहुयात् ।

ॐ भूर्भुवस्सुवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया

इत्युक्त्वा त्रिर्जलाञ्चलिं विसृजेत् ॥ अथ शिखामुत्पाट्य, यज्ञोपवीतमुध्दृत्य करे गृहीत्वाऽद्भिः संस्पृश्याऽप्सु जुहोति -

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यास योगाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे स्वाहा [[TODO: परिष्कार्यम्]]

इति । ततः प्रार्थयेत् -

सर्व देवात्मके तोये तोयाहुतिमहं हरे ।
दत्वा सर्वेषणां त्यक्त्वा युष्मच्छरणमागतः ॥
त्राहि मां सर्वलोकेश गतिरन्या न विद्यते ।
संन्यस्तं मे जगन्नाथ पाहि मां मधुसूदन ॥
त्राहि मां सर्वदेवेश वासुदेव सनातन ।
संन्यस्तं मे जगद्योने पुण्डरीकाक्ष मोक्षद ॥
अहं सर्वाऽभयं दत्वा भूतानां परमेश्वर ।
युष्मच्छरणमापन्नस्त्राहि मां पुरुषोत्तम

इति ॥ ततो दिगम्बरो भूत्वोदङ्मुखःपञ्चपदानि गच्छेत् ॥ अथाऽऽचार्यस्तस्मै कौपीनाच्छादने दद्यात् । सच कौपीनं वासश्च परिधायाऽप आचम्य, सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्मार्जयित्वाऽन्तर्जलगतः षोडश प्राणायामान्धारयित्वोत्तीर्य, वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाऽप आचम्य,

ॐ भूर्भुवस्सुवस्सुवः

इति जलपवित्रमादाय, जलपवित्रनिस्सृतेन जलेन तर्पयति -

ॐ भूस्तर्पयामि, ॐ भुवस्त॰, ॐ सुवस्त॰, ॐ महस्त॰, ॐ तपस्त॰, ॐ जनस्त॰, ॐ सत्यं त॰

इति ॥ एवमेवाऽञ्जलिना जलमुपादाय -

ॐ भूः स्वधा, ॐ भुवः स्वधा, ॐ सुवः स्वधा, ॐ भूर्भुवस्सुवः स्वधा

इति पितृंश्च तर्पयित्वा, ‘ॐ महर्नमः’ इत्युक्त्वा,

उदु त्य॰, चित्रं॰

इति द्वाभ्यामादित्यमुपस्थाय, सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा । ततो ‘भूर्भुवस्सुवः’ इति पवित्रमन्तर्धायाऽपो गृह्णाति ॥ अथ समित्पणिर्गुरुमुपगम्य, दक्षिणं जान्वाच्य पादावुपसङ्गृह्य

त्रायस्व भो जगन्नाथ गुरो संसारवह्निना ।
दग्धं मां कालदष्टञ्च त्वामहं शरणं गतः ॥
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाश्च प्रहिणोति तस्मै ।
तँह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
अधीहि भगवो ब्रह्म

इति प्रार्थयते । ततो गुरुः – अद्वैतः सच्चिदानन्दैकरूपमात्मानमनुसन्धाय, जलपूर्णं शङ्खं तुलस्यादिभिरभ्यर्च्य, द्वादशप्रणवैरभिमन्त्र्य, तेनोदकेन प्रणवेन शिष्यस्य शिरोऽभिषिच्य,

शन्नो मित्रः शं वरुणः॰

इत्यादि शान्तिं पठित्वा, तच्छिरसि हस्तं दत्वा ‘पुरुषसूक्तं’ जपेत् ॥ तत उदङ्मुखाय शिष्याय शुद्ध-बुद्ध-मुक्त-सत्य-परमानन्दाऽद्वयब्रह्मप्रतिपादकं प्रणवं दक्षिणे कर्णे प्राङ्मुखः सन्नुपदिशेत् । प्रणवस्याऽर्थ पञ्चीकरणाद्यवबोध्य

प्रज्ञानं ब्रह्म, अयमात्मा ब्रह्म, तत्वमसि, अहं ब्रह्मास्मि

इति महावाक्यमुपदिश्य, तेषामर्थञ्च बोधयेत् ॥ ततस्तीर्थाश्रमादिसम्प्रदायानुसारेण (अधिकारानुसारेण) नाम दद्यात् ॥ न चात ऊर्ध्वं शुक्लवासो धारयेत् । यज्ञादिसर्वकर्मणां परित्यागः । विविदिषूणां स्वाश्रमोचितब्रह्मचर्या-अपरिग्रह-श्रवण-मनन-निधिध्यासन-प्रणवाभ्यास-सन्ध्या-ध्यान-मौन-त्रिषवणस्नान-गुरुशुश्रूषादीनि कर्माणि श्रुतिस्मृतिषु कर्तव्यतया प्रतीयन्ते । कषायवासाः कक्षोपस्थरोमा लघुमुण्डोदरपात्रोदपात्रो विमुक्तमार्गोऽनिकेतश्चरेत् ॥ भिक्षुः स्नात्वा नित्यं प्रणवेनाऽऽत्मानं तर्पयित्वा तेनैव नमस्कुर्यात् । षडवरान्प्राणायामान्कृत्वा शतावरां सावित्रीं जप्त्वा सन्ध्यामुपासीत । सायं प्रातरग्निहोत्रमन्त्राञ्जपेत् । जलपवित्रात्पूताभिरद्भिराचामेत् । प्रत्यहं द्वादशसहस्रं प्रणवं जपेत् । ग्रामाद्बहिर्विविक्ते मठे देवालये वृक्षमूले वा निवसेत् । चातुर्मास्यान्यत्रैकाहादूर्ध्वमेकस्मिन्देशे न वसेत् । वर्षाः शरच्चातुर्मास्यमेकत्र वसेत् । भिक्षापात्रं गृहीत्वैककाले विप्राणां शुद्धानां गृहेषु वैश्वदेवान्तेऽधोमुखो भिक्षां चरेत् । भूमौ वीक्ष्य जन्तून्परिहरन्पादं न्यसेत् । भिक्षाकालादन्यत्र परवेश्म न गन्तव्यम् । भिक्षां चरित्वा शुचौ देशे स्थापयित्वा, हस्तपादान्प्रक्षाल्याऽऽचम्य,

उदु त्यं॰, चित्रं॰

इति द्वाभ्यामादित्याय

ब्रह्म जज्ञानं॰

इति ब्रह्मणे च निवेदयित्वा, सर्वभूतेभ्यो बलिं दत्वा, शिष्टमन्नमद्भिः संस्पृश्य, प्राणयात्रामात्रमष्टौ ग्रासान्वा औषधवत्प्राश्नीयात् । अथाऽप आचम्य,

वाङ्म आसन्नसोः प्राणः॰

इति मन्त्रं जपित्वा

उद्वयं तमसस्परि

इत्यादित्यमुपतिष्ठते । सप्तव्याहृतिभिर्भिक्षापात्रं प्रक्षालयते ॥

ब्रह्मचारिणः संन्यासग्रहणे

ब्राह्मचारिणः संन्यासग्रहणे - ब्रह्मान्वाधानं उद्वासनस्थालीपाकवर्जं विरजाहोमं च कृत्वात्मन्यग्निं समारोपयेत् । कुटीचकस्य संन्यासे - ब्रह्मान्वाधानं विरजाहोमं च कार्यम् । उद्वासनस्थालीपाकं, शिखोत्पाटनं, आत्मन्याग्निसमारोपणं, यज्ञोपवीतविसर्जनं च न कार्यम् । शिखी, यज्ञोपवीती साग्निक एव संन्यासग्रहणं कुर्यात् । संन्यासग्रहणान्ते - अहरहः सायंप्रातः सन्धाराधनमौपासनं पञ्चमहायज्ञानि काले दर्शपूर्णमासस्थालीपाकं च कुर्यात् । सर्वमन्यत्समानम् ॥ अनग्निना कपिलप्रोक्तेन विधिना संन्यासः कर्तव्यः । कृच्छ्रप्रायश्चित्त-गणपतिपूजन-नान्दीसमाराधन-पुण्याहवाचन-केशश्मश्रुलोमनखवपन-स्नान-सर्वदान-दण्डादिसन्निधानत्रिवृत्प्राशन-सावित्रीप्रवेशन-सन्ध्याराधनानि लौकिकाग्नौ ब्रह्मान्वाधानं च कृत्वोपोष्याऽपरेद्युः स्नात्वा सन्ध्याराधनं लौकिकाग्नौ विरजाहोमं देवर्षिपितृतर्पणञ्च कृत्वा

आपो वै सर्वा देवतास्स्वाहा, पुत्रेषणायाश्च॰ व्युत्थितोहं स्वाहा

इत्यप्स्वेवाऽपः पाणिना हुत्वा, यथाविधि प्रैषमुक्त्वा,

अभयं सर्वभूतेभ्यो मत्तः स्वाहा

इत्यभयं दत्वा यथाधिकारं यथाविधि दण्डादि गृहीत्वा स्वधर्मनिष्ठो भवेत् ॥ ॥