॥ संन्यासविधिः ॥ (बो. ध. सू. २.१० ) अथाऽतस्संन्यासविधि व्याख्यास्यामः । सोऽत एव ब्रह्मचर्यवान्प्रव्रजतीत्येकेषाम् ॥ अथ शालीनयायावराणामनपत्यानाम् ॥ विधुरो वा ॥ प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥ सप्तत्या ऊर्ध्वं संन्यासमुपदिशन्ति ॥ वानप्रस्थस्य वा कर्मविरामे ॥ एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति ॥ अपुनर्भवं नयतीति नित्यः ॥ महदेनं गमयतीति महिमा ॥ अनाश्रमी चतुरः कृच्छ्रानात्मशुध्यर्थं विदध्यादाश्रमी तप्तकृच्छ्रमेकम् ॥ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा ॥ केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते - यष्टयश्शिक्यं जलपवित्रं कमण्डुलं पात्रमिति ॥ एतत्समादाय ग्रामान्ते ग्रामसीमान्तेऽग्न्यगारे वाऽऽज्यं पयो दधीति त्रिवृत्पाश्योपवसेदपो वा ‘त्रिवृदसि’ इति त्रिभिर्मन्त्रैः ॥
ॐ भूस्सावित्रीं प्रविशामि तत्सवितुर्वरेण्यम् ।
ॐ भुवस्सावित्रीं प्रविशामि भर्गो देवस्य धीमहि ।
ॐ ँ सुवस्सावित्रीं प्रविशामि धियो यो नः प्रचोदयात्
इति पच्छोर्धर्चशस्ततस्समस्तया च व्यस्तया च ॥ आश्रमादाश्रममुपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥ अथाऽप्युदाहरन्ति -
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः पश्चाद्भवति भिक्षुकः ॥
इति ॥ स एष भिक्षुरानन्त्याय ॥ पुरादित्यस्याऽस्तमयाद्गार्हपत्यमुपसमाधायाऽन्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धृत्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याऽऽहवनीये पूर्णाहुतिं जुहोति ‘ॐ स्वाहा’ इति ॥ एतद्ब्रह्मान्वाधानमिति विज्ञायते ॥ अथ सायं हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि संस्तीर्य तेषु यष्ट्यादीनि कन्थां वासो द्वन्दं न्यञ्चि पात्राणि सादयित्वा दक्षिणेनाऽऽहवनीयं ब्रह्मायतने दर्भान्संस्तीर्य तेषु कृष्णाजिनं चाऽन्तर्धायैतां रात्रि जागर्ति ॥ एवं विद्वान् ब्रह्मरात्रिमुपोष्याऽग्नीन्त्समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् ॥ अथ ब्राह्मे मुहूर्त उत्थाय काले एव प्रातरग्निहोत्रं जुहुयात् ॥ अथ पृष्ठ्याँ स्तीर्वाऽपः प्रणीय वैश्वानरं द्वादशकपालं निर्वपति । सा प्रसिद्घेष्टिः सन्तिष्ठते । आहवनीयेऽग्निहोत्रपात्राणि प्रक्षिपेदमृण्मयान्यनायसानि । गार्हपत्ये अरणी भवतं नः समनसाविति । अथात्मन्यग्नीन् समारोपयते -
या ते अग्ने यज्ञिया तनूः
इति त्रिस्त्रिरेकैकं समाजिघ्रति ॥ अथ यज्ञोपवीतं विसृज्याद्भिः सँस्पृश्याप्सु जुहोति वेदान्तेति । अथाऽन्तर्वेदि तिष्ठन्
ॐ भूर्भुवस्सुवः संन्यस्तं मया सन्यस्तं मया संन्यस्तं मया
इति त्रिरुपांशूक्त्वा त्रिरुचैः ॥
त्रिषत्या हि देवा
इति विज्ञायते ॥
अभयं सर्वभूतेभ्यो मत्तः
इति चाऽपां पूर्णमञ्जलिं निनयति ॥ अथाऽप्युदाहरन्ति -
अभयं सर्वभूतेभ्यो दत्वा यश्चरते मुनिः ।
न तस्य सर्वभूतेभ्यो भयं चापि हि जायते ॥
स वाचंयमो भवति ॥
सखा मे गोपाय
इति दण्डमादत्ते ।
यदस्य पारे रजसः
इति शिक्यं गृह्णाति ।
येन देवाः पवित्रेण
इति जलपवित्रं गृह्णाति ।
येन देवा ज्योतिषोर्ध्वा उदायन्
इति कमण्डलुं गृह्णाति । सप्तव्याहृताभिः पात्रं गृह्णाति ॥ यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतत्समादाय यत्राऽऽपस्तद्गत्वा स्नात्वाऽप आचम्य
सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्
इति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाऽप आचम्य ‘ओं भूर्भुवस्सुवः’ इति जलपवित्रमादाय तर्पयति
ओं भूस्तर्पयाम्यों भुवस्तर्पयाम्यों सुवस्तर्पयाम्यों महस्तर्पयाम्यों जनस्तर्पयाम्यों तपस्तर्पयाम्यों सत्यं तर्पयामि
इति ॥ दैववत् पितृभ्योऽञ्जलिमुपादाय
ॐ भूस्स्वधों भुवस्स्वधों सुवस्स्वधों भूर्भुवस्सुवर्महर्नमः
इति ॥ अथ
उदुत्यं चित्रम्
इति द्वाभ्यामादित्यमुपतिष्ठते ॥ ओमिति ब्रह्म ब्रह्म वा एष ज्योतिः य एष ज्योतिः य एष तपत्येष वेदः य एष तपति वेद्यमेवैतद्य एष तर्पयति एवमेवैष आत्मानं तर्पयत्यात्मने नमस्करोत्यात्मा ब्रह्माऽऽत्मा ज्योतिः ॥ सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा ॥ ‘ॐ भूर्भुवस्सुवः’ इति पवित्रमादायाऽपो गृह्णति ॥ न चाऽत उर्ध्वमनुद्धृताभिरद्भिरपरिस्रुताभिरपरिपूताभिर्वाऽऽचामेत् ॥ न चाऽत ऊर्ध्वं शुक्लं वासो धारयेत् ॥ एकदण्डी त्रिदण्डी वा ॥
संन्यासिनियमाः
संन्यासिनियमाः ॥ एकदण्डी त्रिदण्डी वा ॥ अथेमानि व्रतानि भवन्ति -
अहिंसा सत्यमस्तैन्यं मैथुनस्य च वर्जनं त्याग
इत्येव ॥ पञ्चैवोपव्रतानि भवन्ति -
अक्रोधो गुरुशुश्रूषाऽप्रमादश्शौचमाहारशुद्धिश्च
इति ॥ अथ भैक्षचर्या-ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे भिक्षां लिप्सेत ॥ भक्त्पूर्वां प्रचोदयेत् ॥ गोदोहनमात्रमाकाङ्क्षेत् ॥ अथ भैक्षचर्यादुपावृत्तः शुचौ देशे न्यस्य हस्तपादान्प्रक्षाल्याऽऽदित्यस्याऽग्रे निवेदयेत् -
उदु त्यं चित्रमिति
ब्रह्मणे निवेदयते ‘ब्रह्म जज्ञानम्’ इति ॥ विज्ञायते - आधानप्रभृति यजमान एवाऽग्नयो भवन्ति तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीय उदानसमानौ सभ्यावसथ्यौ ॥ पञ्च वा एतेऽग्नय आत्मस्थाः ॥ आत्मन्येव जुहोति ॥ स एष आत्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानं क्षेमं नयतीति विज्ञायते ॥ भूतेभ्यो दयापूर्वं संविभज्य शेषमद्भिस्संस्पृश्यौषधवत्प्राश्नीयात् ॥ प्राश्याऽप आचम्य
वाङ्म आसन्नसोः प्राण
इति जपित्वा ज्योतिष्मत्याऽऽदित्यमुपतिष्ठते
उद्वयं तमसस्परि
इति ॥ अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया । आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकमिति ॥ अथाप्युदाहरन्ति -
अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशाऽरण्यवासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥
भैक्षं वा सर्ववर्णेभ्य एकान्नं वा द्विजातिषु ।
अपि वा सर्ववर्णेभ्यो न चैकान्नं द्विजातिष्विति ॥
अथ यत्रोपनिषदमाचार्या ब्रुवते तत्रोदाहरन्ति - स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ॥ कणपिण्याकयावकदधिपयो व्रतत्वं चेति ॥ तत्र मौने युक्तस्त्रैविद्यवृद्धैराचार्यैर्मुनिभिरन्यैर्वाऽऽश्रमिभिर्बहुश्रुतैर्दन्तैर्दन्तान् सन्धायान्तर्मुख एव यावदर्थं सम्भाषीत न यत्र लोपो भवतीति विज्ञायते ॥ स्थानमौनवीरासनानामन्यतमेन सम्प्रयोगो न त्रयं सन्निपातयेत् ॥ यत्र गतश्च यावन्मात्रमनुव्रतयेदापत्सु न यत्र लोपो भवतीति विज्ञायते ॥ स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ।
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्
इति ॥ सायं प्रातरग्निहोत्रमन्त्रान् जपेत् ॥ वारुणीभिः सायं सन्ध्यामुपतिष्ठते मैत्रीभिः प्रातः ॥ अनग्निरनिकेतस्स्यादशर्माऽशरणो मुनिः ॥ भैक्षार्थी ग्राममन्विच्छेत् ॥ स्वाध्याये वाचमुत्सृजेदिति ॥ विज्ञायते च -
परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूंष्यथैतस्यै वाऽन्तो नास्ति यद्ब्रह्म तत्प्रतिगृणत आचक्षीत स प्रतिगर इति ॥ एवमेवैष आशरीरविमोक्षणाद् वृक्षमूलिको वेदसंन्यासिकः ॥ वेदो वृक्षः तस्य मूलं प्रणवः ॥ प्रणवात्मको वेदः ॥ प्रणवो ब्रह्म प्रणवं ध्यायेत् ॥ प्रणवो ब्रह्मभूयाय कल्पत
इति होवाच प्रजापतिः ॥ सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति प्रक्षालयेदिति ॥
प्रयोगः
अथ प्रयोगः ॥ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति -
वैश्वानराय प्रतिवेदयाम
इति पुरोनुवाक्यामनूच्य
वैश्वानरः पवयान्नः पवित्रैः
इति याज्यया जुहोति । अथाऽऽज्याहुतीरुपजुहोति –
वैश्वानरो न ऊत्या
इत्यष्टभिरनुच्छन्दसं
अग्नये स्वाहा
इति च । अथैनमुपतिष्ठते -
सहस्रशीर्षा पुरुषः
इत्येतेनाऽनुवाकेन । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाऽग्रेणाऽग्निं दर्भस्तम्बेषु हुतशेषं निदधाति -
सर्वो वै रुद्रः, विश्वं भूतं
इति द्वाभ्याम् ॥ उत्सृजत्यग्निम् ॥
आयुर्दा अग्ने हविषो जुषाणः
इति पक्वादुपादाय ‘सहस्रशीर्षा’ इत्यनुवाकेन प्राश्याऽऽचम्याऽऽत्मानं प्रत्यभिमृशति
ॐ तद् ब्रह्म
इत्यनुवाकेन । अथाऽग्निद्रव्यमग्नौ प्रक्षिप्याऽऽत्मन्यग्निं समारोपयेत् -
या ते अग्ने यज्ञिया तनूः
इति ॥