॥ वानप्रस्थविधिः ॥ (बो .ध. सू. ३.३) अथ वानप्रस्थस्य द्वैविध्यम् ॥ पचमानका अपचमानकाश्चेति ॥ तत्र पचमानकाः पञ्चविधाः - सर्वारण्यका वैतुषिकाः कन्दमूलभक्षाः फलभक्षाश्शाकभक्षाश्चेति ॥ तत्र सर्वारण्यका नाम द्विविधाः द्विविधमारण्यमाश्रयन्तः इन्द्रावसिक्ता रेतोवसिक्ताश्चेति ॥ तत्रेन्द्रावसिक्ता नाम वल्लीगुल्मलतावृक्षाणामानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्च दत्वाऽथेतरच्छेषभक्षाः ॥ रेतोवसिक्ता नाम मांसव्याघ्रवृकश्येनादिभिरन्यतमेन वा हतमानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्च दत्वाऽथेतरच्छेषभक्षाः ॥ वैतुषिकास्तुषधान्यवर्जं तण्डुलानानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्च दत्वाऽथेतरच्छेषभक्षाः ॥ कन्दमूलफलशाकभक्षाणामप्येवमेव ॥ पञ्चैवाऽपचमानकाः - उन्मज्जकाः प्रवृत्ताशिनो मुखेनादायिनस्तोयाहारा वायुभक्षाश्चेति ॥ तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् ॥ हस्तेनाऽऽदाय प्रवृत्ताशिनः ॥ मुखेनाऽऽदायिनो मुखेनाऽऽददते ॥ तोयाहाराः केवलं तोयाहाराः ॥ वायुभक्षा निराहाराश्च ॥ वैखानसानां विहिता दशदीक्षाः ॥ यश्शास्त्रमभ्युपेत्य दण्डञ्च मौनञ्चाऽप्रमादञ्च ॥ वैखानसाश्शुध्यन्ति निराहाराश्चेति ॥
शास्त्रपरिग्रहस्सर्वेषां ब्रह्मवैखानसानाम् ॥
न द्रुह्येद्दंशमशकान् हिमवान्तापसो भवेत् ॥
वनप्रतिष्ठस्सन्तुष्टश्चीरचर्मजलप्रियः ॥
अतिथीन्पूजयेत्पूर्वं काले त्वाश्रममागतान् ।
देवविप्राग्निहोत्रे च युक्तस्तपसि तापसः ॥
कृच्छ्रां वृत्तिमसंहार्यां सामान्यां मृगपक्षिभिः ।
तदहर्जनसम्भारां कषायकदुकाश्रयाम् ॥
परिगृह्य शुभां वृत्तिमेतां दुर्जनवर्जिताम् ।
वनवासमुपाश्रित्य ब्राह्मणो नाऽवसीदति ॥
मृगैः सह परिस्पन्दः संवासस्तेभिरेव च ।
तैरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥
प्रत्यक्षं स्वर्गलक्षणमिति ॥
(बो. ध. सू. २.६) वानप्रस्थो वैखानसशास्त्रसमुदाचारः ॥ वैखानसो वने मूलफलाशी तपःशीलः सवनेषूदकमुपस्पृशञ्छ्रामणकेनाऽग्निमाधायाऽग्राम्यभोजी देवपितृभूतमनुष्यर्षिपूजकः । सर्वातिथिः प्रतिषिद्धवर्जं भैक्ष्यमप्युपभुञ्जीत न फालकृष्टमधितिष्ठेद्ग्रामञ्च न प्रविशेज्जटिलश्चीराजिनवासा नाऽतिसंवत्सरं भुञ्जीत ॥
प्रयोगः
अथ प्रयोग ॥ अनवद्यं गृहधर्मे चरित्वा पुत्रमुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विधाय, गुणवति पुत्रे कुटुम्बभारं नियोज्य उत्तरायणे पूर्वपक्षे पुण्ये नक्षत्रे पूर्वेद्युः स्नानादि नित्यकर्म कृत्वा, कुशचीरवल्कलवासा जटी कृष्णाजिनोत्तरीयः सपत्नीकः कर्ता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
ममाऽशेषदुःखनिवृत्तिपूर्वकस्वर्गलोकप्राप्त्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं वानप्रस्थं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धञ्च विधाय
इन्द्राविष्णू प्रीयताम्
इति पुण्याहं वाचयित्वा, देवयजनोल्लेखनादि गृह्याऽग्निं प्रतिष्ठाप्य॰
श्रीपरमेश्वरप्रीत्यर्थं इन्द्राविष्णूस्थालीपाकं करिष्ये॰ पचनो नामाऽग्निः, इन्द्राविष्णू देवते, चरुर्हविः, आग्निः स्विष्टकृत्
इत्याद्यन्वाधाय, देवस्य त्वेत्यादि इन्द्राविष्णुभ्यां तण्डुलान्निरुप्य प्रोक्ष्याऽग्निमुखान्तं कृत्वा,
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अव सस्पारे अस्य । जुषेथां यज्ञं द्रविणञ्च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥ उभाजिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम्
इति द्वाभ्यां पक्वं हुत्वा (इन्द्राविष्णुभ्यामिदं॰) स्विष्टकृदादि होमशेष समापयेत् ॥ अथाऽपरेद्युः प्रातर्नित्यकर्म कृत्वौपासनहोमान्तेऽग्नेः पश्चादुपविश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
श्रीपरमेश्वरप्रीत्यर्थं वनं प्रयास्यन्वास्तोष्पतीयहोमं करिष्ये
इति सङ्कल्प्याऽग्निं परिसमुह्य, पर्युक्ष्य, परिस्तीर्याज्यं संस्कृत्य, स्रुक्स्रुवौ सम्मृज्याऽग्निं परिषिच्य, स्रुचि चतुर्गृहीतं गृहीत्वा, एकां समिधमग्नावाधाय,
वास्तोष्पते प्रतिजानीहि॰
इति पुरोनुवाक्यामनूच्य,
वास्तोष्पते शग्मया सँसदा ते॰
इति याज्यया जुहोति । (वास्तोष्पतय इदं॰) ॥ पुनः परिषिञ्चेत् ॥ ॥ ततः साग्निको वनं गत्वा तत्र कुटीं कृत्वाऽग्निमुपसमाधाय, वेणु-श्यामाक-नीवारादिभिरारण्यमूलफलैरोषधिभिरहरहः सायं प्रातरौपासन-वैश्वदेव-पञ्चमहायज्ञान् कुर्यात् ॥ यमनियममन्त्रोपासनादिभिः शरीरं परिशोषयेत् ॥ अधःशायी ब्रह्मचारी अतिथिप्रियोऽमत्सरी विवाद-पैशुन्य-मृषावादवर्जी सदाशुचिररण्यवासप्रियः सर्वभूतानामभयदायी परैरभिमृष्टान्याश्रमान्तरहितानि नाऽहरन्तिष्ठेत् ॥ सबीजां प्रोषितां भूमिं नाऽक्रमेत् ॥ तपोधिकाय यज्ञाधिकाय वयोधिकाय फलोदकं दद्यात् ॥ ये चाऽन्ये काल आगच्छेयुस्तेभ्योऽपि दद्यात् ॥ लवण-हिङ्गु-लशुन-मधु-मत्स्य-मांस-दुर्गन्धान्न-दुर्गन्धधान्य-परस्पर्शन-परपाकवर्जी वनचरो ग्रामबहिष्कृतो नारायणपरायणस्तपःशीलो नारायणं ध्यायन्मोक्षमेव प्रार्थयेत् ॥ एवं स्वकालं व्यपोह्य स्वर्गलोकं गमिष्यति ॥ अथवा तृतीयमायुर्भागं वानप्रस्थव्रतं चरित्वा, चतुर्थमायुर्भागं परिव्रजेद्वा ॥