६४ ओषधि-वनस्पतीनामुत्सर्गे

ओषधिवनस्पतीनां (आरामोद्यानानां) उत्सर्गे- ओषधिवनस्पतयो देवताः ॥

या जाता ओषधयः॰, शतं वो अम्बधामानि॰

इति द्वाभ्यामोषधिवनस्पतिपूजनं पक्कहोमश्च ॥

पुष्पावतीः प्रसूवतीः

इत्यान्तादनुवाकस्य,

ओषधीभ्यः स्वाहा, वनस्पतिभ्यः स्वाहा

इत्यनुवाकव्येन प्रत्यृचमाज्येनोपहोमः ॥

ओषधीभ्यः स्वाहा ॥ मूलेभ्यः॰ ॥ तूलेभ्यः॰ ॥ काण्डेभ्यः॰ ॥ वल्शेभ्यः॰ ॥ पुष्पेभ्यः॰ ॥ फलेभ्यः॰ ॥ गृहीतेभ्यः॰ ॥ अगृगीतेभ्यः॰ ॥ अवपन्नेभ्यः॰ ॥ शयानेभ्यः॰ ॥ सर्वस्मै॰ ॥ वनस्पतिभ्यः॰ ॥ मूलेभ्यः॰ ॥ स्कंधोभ्यः॰ ॥ शाखाभ्यः॰ ॥ पर्णेभ्यः॰ ॥ पुष्पेभ्यः॰ ॥ फलेभ्यः॰ ॥ गृहीतेभ्यः॰ ॥ अगृहीतेभ्यः॰ ॥ अवपन्नेभ्यः॰ ॥ शयानेभ्यः॰ ॥ शिष्टाय॰ ॥ अतिशिष्टाय॰ ॥ परिशिष्टाय॰ ॥ सँशिष्टाय॰ ॥ उच्छिष्टाय॰ ॥ रिक्ताय॰ ॥ अरिक्ताय॰ ॥ प्ररिक्ताय॰ ॥ सँरिक्ताय॰ ॥ उद्रिक्ताय॰ ॥ सर्वस्मै स्वाहा ॥ स्विष्टकृदादि शेषं समानम् ॥