देवगृह-प्रासाद-वसतीनामुत्सर्गे-पुण्याहवाचने
वास्तोष्पतिः प्रीयताम्
इति विशेषः ॥
वास्तोष्पते॰, वास्तोष्पते॰
इति द्वाभ्यां वास्तोष्पतिपूजनं पक्वहोमश्च ॥
वास्तोष्पते ध्रुवा स्थूणां
इत्यादि षण्मन्त्रैः,
नमस्ते रुद्र मन्यव
इत्यनुवाकेन,
यद्देवा देव हेळनं
इति त्रिभिरनुवाकैः प्रत्यृचमाज्येनोपहोमः ॥
वैश्वानराय प्रतिवेदयामः
इत्युपस्थानम् ॥ स्विष्टकृदादि सर्वमन्यत्समानम् ॥ गोरवतरणस्थाने - देवगृहादिषु सर्वत्र परिभ्रमणम् ॥